दादा साहेब फाळके

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
दादा साहेब फालके

दादा साहेब फाळके (गुजराती: દાદા સાહેબ ફાળકે, आङ्ग्ल: Dada Saheb Phalke) प्रसिद्धः चलच्चित्रनिर्माता, निर्देशक, पटकथालेखकश्च आसीत् । सः भारतीयचलच्चित्रक्षेत्रस्य पितामहत्वेन प्रसिद्धः अस्ति । दादा साहेब फाळके इत्यस्य शततमायाः जयन्त्याः शुभावसरे दादा साहेब फाळके पुरस्कार इत्यस्य घोषणा अभवत् । घोषणायाः वर्षः १९६९ आसीत् । दादा साहेब फाळके पुरस्कार भारतीयचलच्चित्रक्षेत्रस्य सर्वोच्चपुरस्कारः अस्ति । सः पुरस्कारः आजीवनयोगदानाय भारतगणराज्यस्य केन्द्रसरकारेण दीयते ।

"https://sa.wikipedia.org/w/index.php?title=दादा_साहेब_फाळके&oldid=402443" इत्यस्माद् प्रतिप्राप्तम्