दार्जिलिङ्गमण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(दार्जिलिङ-मण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

दार्जिलिङ(Darjeeling) इति पश्चिमबङ्गराज्ये स्थितमेकं जनपदम् । अस्य मण्डलस्य केन्द्रनगरम् दार्जिलिङ नगरम्।

दार्जिलिङ-जनपदम्
দার্জিলিং জেলা
—  जनपदम्  —
देशः  भारतम्
राज्यम् पश्चिमबङ्गराज्यम्
प्रशासनिकविभागः जलपाइगुडि
केन्द्रनगरम् दार्जिलिङ
विस्तीर्णम्
 • Total ३,१४९ Square km (१,२१५.८ Square mile)
जनसङ्ख्या (2011)
 • Total १८,४२,०३४
भारतीय-मान-समयः (UTC+५:३०)
लोकसभाकेन्द्रम् दार्जिलिङ लोकसभाकेन्द्रम्
जालस्थानम् http://darjeeling.gov.in/
दार्जिलिङ(१८७०)

नामौचित्यम्[सम्पादयतु]

दार्जिलिङ इति शब्दस्य व्युत्पत्तिः संस्कृतं 'दुर्जयलिङ्गम्' इति शब्दात् । देवादिदेवः शिवः अत्र द्योत्यते । परन्तु अपरपक्षानुसारं तिब्बतदेशीय 'दोर्जे' (अर्थः-वज्रः) तथा 'लिङ' (अर्थः-भूमिः) पदयोः सम्मिलितरूपं 'दार्जिलिङ'(वज्रभूमिः) इति ।

दार्जिलिङ

परिचयः[सम्पादयतु]

दार्जिलिङ अन्ताराष्ट्रियस्तरे प्रसिद्धस्थलम् । विशेषतः सुगन्ध-चायपत्राणि पृथिवीख्यातः । 'युनेस्को' इति संस्थया दार्जिलिङप्रदेशीय हिमालयन् रेल्वे विश्वसम्पदस्थलमिति घोषितम् । दार्जिलिङमण्डले चायसस्यकृषिः प्रथमवारं प्रायः १८०० वर्षे प्रारब्धासीत् । भौगोलिकदृष्ट्या दार्जिलिङमण्डलं शिवालिक-पर्वतश्रेण्याम्(शिवलिङ्गपर्वतश्रेणी) अन्तर्भवति । दार्जिलिङमण्डलस्य नैसर्गिकपरिदृश्यानि अतीवरमणीयानि सन्ति ।

इतिहासः[सम्पादयतु]

  • दार्जिलिङ मण्डलस्य इतिहासः पश्चिमबङ्गराज्ये सीमावद्धः न अपितु सिक्किम-नेपाल-भुटानप्रान्तेषु विस्तृतः । दार्जिलिङ इति प्रदेशस्य सन्धानं ब्रिटिशसेनया आंग्‍ल-नेपाल युद्धकालिन अलभत् । वस्तुतः ब्रिटिशसेनावाहिनी सिक्किम गमनाय लघुमार्गः अनुसन्धानम् अकरोत् । तदानीं दार्जिलिङ प्रदेशे ब्रिटिशसेना आगता । दार्जिलिङमण्डलस्य नैसर्गिकसौन्दर्यं बहुसमृद्धासीत् तदर्थं युद्धानन्तरवर्तीकाले ब्रिटिशजनाः अत्र वसतिस्थापनम् अकरोत् । रणनीतिगतदृष्ट्या दार्जिलिङमण्डलस्य गुरुत्वम् आसीत् । प्रारम्भिककाले दार्जिलिङ सिक्किमराज्यस्य मण्डलमासीत् । अनन्तरं प्रदेशोऽयं भुटानदेशेन अधिकृतासीत् । अष्टादशशताब्द्यां नेपालदेशः अत्र स्वाधिकारविस्तारम् अकरोत् । १८१७ तमे वर्षे आंग्‍ल-नेपाल युद्धे नेपालदेशस्य पराजयः अभूत् । ततः दार्जिलिङप्रदेशः ईस्‍ट इंडिया कम्पनी अधीनस्थ प्रदेशेषु एकः अभवत् ।
  • उनविंशशतके दार्जिलिङमण्डले राजनैतिकाऽस्थिरता आसीत् । तस्मिन् समये प्रदेशोऽयं राजनैतिकशक्तिप्रदर्शनी स्थलरूपेण परिवर्तितासीत् । आदौ तिब्‍बत अनन्तरं यूरोप-[[रशिया-आफगानिस्तानाधीनं मण्डलमिदमासीत् । ब्रिटिशशासनकालेऽपि जापानसेनायाः तथा सुभाषचन्द्र बोस महोदयस्य भारतीयराष्ट्रियसेनावाहिन्या(इंडियन नेशनल आर्मी ) कार्यलयाः दार्जिलिङमण्डले आसन् ।

वर्तमानस्थितिः[सम्पादयतु]

वर्तमानकाले दार्जिलिङमण्डलं पश्चिमबङ्गस्य एकः भागः । अस्य मण्डलस्य विस्तारः ३,१४९ वर्गः कि मी । दार्जिलिङमण्डलस्य उत्तरदिशि सिक्किमराज्यस्तथा नेपालदेशः स्तः । अत्र अत्‍यधिकशैत्यता वर्षस्य अधिकांशसमये तिष्ठति । शिशिरऋतौ अत्र पार्वत्यप्रदेशेषु हिमपातः भवति ।

मुख्याकर्षकविषयाः[सम्पादयतु]

'शाक्‍य'मठम्[सम्पादयतु]

सिक्किमनृपेन सह त्रयोदशदलाई लामा

शाक्यसम्‍प्रदायस्य ऐतिहासिकमठमिदं अत्यन्तमहत्वपूर्णस्थलम् अस्ति । दार्जिलिङ नगरतः ८ कि मी दूरे स्थितस्य 'शाक्‍य'मठस्य स्थापना १९१५ तमे वर्षे अभूत् । भगवानबुद्धस्य पूजनम् अत्र बहुविशिष्ट्यं भवति ।

द्रुक्-थम्‍बटेन्-सांगग्-चोलिंग्-मठम्[सम्पादयतु]

१९६० तमे वर्षे एकादश 'गेलवांगद्रुकचन्-तेंजिन्-खेनरब्-जिलगवांगपो' महोदयस्य मृत्युः अस्मिन् मण्डले अभूत् । तस्य स्मृतिस्मारकरूपेण मठमिदं स्थापितमासीत् । तिब्बतीयशैल्या अस्य अतिसुन्दरमठस्य रचना अभवत् । बौद्धधर्मगुरूः दलाई लामा महोदयः अस्य(द्रुक-थम्‍बटेन-सांगग-चोलिंग-मठस्य) उद्घाटनम् अकरोत् ।

माकडोंग्-मठम्[सम्पादयतु]

माकडोंग्-मठं दार्जिलिङ-मण्डलस्य आलूबरीग्रामे स्थितम् । मठमिदं बौद्धधर्मस्य 'योलमोवा' इति सम्प्रदायस्य प्रार्थनास्थलम् । अस्य मठस्य उद्घाटनं 'संगे लामा' महोदयः कृतवान् । संगे लामा योलमोवा-सम्प्रदायस्य प्रमुखव्यक्तिः आसीत् । बौद्धधर्मस्य संख्यालघ्वऽयं सम्प्रदायः मूलतः नेपालदेशस्य पूर्वदिशिः अवस्थितासीत् । परन्तु अनन्तरवर्तीकाले योलमोवा-सम्प्रदायस्य जनाः निवसति स्थानम् अकरोत् । माकडोंग्-मठस्य निर्माणकार्यं १९१४ तमे वर्षे सम्पूर्णमभवत् । मठमिदं योलमोवा-सम्प्रदायस्य सामाजिक-सांस्‍‍कृतिक-धार्मिकप्रतीकरूपेण विशिष्ट्यतां भजते । पर्यटकानां भ्रमणप्रदेशेषु मठमिदम् अत्यन्तप्रीयम् ।

पीस्-पैगोडा(जपान्देशीय मन्दिरम् )[सम्पादयतु]

पीस्-पैगोडा इति मन्दिरं समग्रविश्वे शान्तिप्रतिष्ठानिमित्तं महात्मगान्धेः मित्रं 'फूजी गुरु' महोदयः निर्मितवान् । समग्रभारते षट्-शान्तिमन्दिराणि सन्ति । तेषु अन्यतममिदं मन्दिरम् । अस्य मन्दिरस्य निर्माणकार्यं १९७२ तमे वर्षे प्रारब्धासीत् । १९९२ वर्षस्य नवेम्बर् मासस्य प्रथमे दिनाङ्के पीस्-पैगोडा इति सार्वजनिकमिलनक्षेत्रस्य उद्घाटनम् अभवत् । पर्यटकाः इतः काञ्चनजङ्घा पर्वतश्रेण्याः मनोरोमाणि नैसर्गिकपरिदृश्यानि द्रष्टुं शक्नुवन्ति ।

व्याघ्रगिरिः (टाइगर्-हिल्)[सम्पादयतु]

दार्जिलिङ-सीमारक्षकः व्याघ्रगिरिः

व्याघ्रगिरिः दार्जिलिङ-मण्डलस्य दर्शनीयस्थलेषु अन्यतमः । अत्र पर्यटकानां मुख्यार्षकव्यापारं भवति पर्वतारोहणम् । व्याघ्रगिरेः समीपे एव काञ्चनजङ्घा पर्वतशिखरः अस्ति । १८४९ वर्षपर्यन्तं काञ्चनजङ्घापर्वतशिखरः एव पृथिव्याः सर्वोच्चशिखरःइति प्रचारितः आसीत् । परन्तु १८५६ तमे वर्षे सर्वेक्षणेन स्पष्टः जातः यत् 'एवरेस्ट' पृथिव्याः सर्वोच्चशिखरः इति । काञ्चन-एवरेस्ट् पर्वतशृङ्गयोः ८२७ फीट् उच्चताभेदः अस्ति । वर्तमाने 'काञ्चनजङ्घा'पर्वतशिखरः पृथिव्याः तृतीय-उच्चतमशिखरः । काञ्चनजङ्घायाः नैसर्गिकसुन्दरता अत्यन्तरमनीय तस्मात् 'मोस्ट् रोमान्टिक माउन्टेन' इत्युपाधिः लब्धास्ति । प्रख्यातचलच्चित्रनिर्माता सत्‍यजीत राय महोदयस्य चलच्चित्रेषुऽपि बहुवारं काञ्चनजङ्घा दर्शितम् । अनन्तरवर्तीकालेऽपि भारतीय-विदेशीयचलच्चित्रेषु च पर्वतमिदं प्रदर्शितम् ।

घूम-मठम् (जेलूग्‍पा)[सम्पादयतु]

व्याघ्रगिरेः समीपम् एव 'ईगा चोइलिंग् तिब्‍बतियन्' मठमस्ति ।

"http://sa.wikipedia.org/w/index.php?title=दार्जिलिङ्गमण्डलम्&oldid=274496" इत्यस्माद् पुनः प्राप्तिः