दीर्घकालीना उत्क्रान्तिः - पराक्रान्ता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता इत्यस्मात् पुनर्निर्दिष्टम्)


'दिर्घकालीना उत्क्रान्तिः पराक्रान्ता' इति जङ्गमसञ्चारप्रमाणम् अस्ति । एतद् प्रमाणं २००९ तमे वर्षे चतुर्थ-वंशश्रेणिप्रणालीषु अभ्यर्थरूपेण ITU-T इति संस्थां प्रति उपस्थापितम् । एतद् प्रमाणं IMT-Advanced इति आवश्यकतानां पूर्ति करोति, अतः चतुर्थवंशश्रेणीप्रणाली अस्ति इति ITU संस्था अनुमोदितवती। २०११ तमे वर्षे 3GPP इति संस्था एतस्य अन्तिमस्वरूपं दतवती । [१] एतद् प्रमाणं 'दिर्घकालिना उत्क्रान्तिः' इति प्रमाणतः प्रमुखा अभिवृद्धिः अस्ति इति 3GPP इति संस्था ध्वजीकरोति ।

पूर्वभूमिका[सम्पादयतु]

प्रथमतया, जपानदेशीयः NTT DoCoMo इति जङ्गमसेवाप्रचालकः 'दिर्घकालिना उत्क्रान्तिः' इत्येतस्य प्रमाणस्य प्रारुपम् प्रस्तुतवान् । एतद् अन्ताराष्ट्रियं प्रमाणम् इति स्वीकृतम् । 'दिर्घकालिना उत्क्रान्तिः' पद्धति-बन्धनं परिपक्वं जातम् । अतः परिष्काराय एव तस्य विवरणं सम्पाद्यते । एत्स्याः प्रौद्योगिक्याः प्रथमं व्यूहक्रमं २००९ तमे वर्षे स्विडन-नोर्वे-देशयोः अभवत् । अनन्तरं जापान-अमेरिका-देशयोः २०१० तमे वर्षे अभवत् । अधिकानि 'दिर्घकालिना उत्क्रान्तिः' जालपुटानि जगति २०१० तमे वर्षे प्राकृतिक-उत्क्रान्तिरूपेण 2G (जङ्गमसञ्चाराय वैश्विकप्रणाली) 3G (ब्रह्माण्डव्यापि- जङ्गमदूरसञ्चारप्रणाली) जालपूटेभ्यः समुद्भूतानि। (3GPP च 3GPP2)

3GPP इति संस्था, नवमे संकरणे, 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' इत्येतस्य प्रमाणस्य विकिरण-बाह्यस्वरूपं व्याख्यातुं प्रारम्भं कृतवती । 'दिर्घकालिना उत्क्रान्तिः' इत्येतस्य प्रमाणस्य प्रथमं संस्करणं तु चतुर्थ वंशश्रेणिप्रणाल्याः सर्वासाम् आवश्यकतानां (ITU-T इति संस्थायाः IMT-Advanced इति आवश्यकताः) पूर्तिं न करोति स्म । दृष्टान्तरूपेण शृङ्गदत्तांशवेगः एकशतकोटि द्वयांकाः प्रतिक्षणं नासित् | अत: तम् 3.9G प्रणालीरुपेण स्थापितम् । 3GPP इति संस्थायाः "'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' इति प्रौद्योगिक्यै अग्रे अभ्युत्तानस्य आवश्यकताः" इति TR 36.913 प्रमाणं विकिरण-बाह्यस्वरुपम् इति प्रौद्योगिकीसु अभ्यर्थरूपेण ITU प्रति उपस्थपितम् । एताः आवश्यकताः, ITU-T इति संस्थायाः चतुर्थ वंशश्रेणेः आवश्यकतानां च 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' इति प्रौद्योगिक्यै जङ्गमसेवाप्रचालकानाम् आवश्यकतानां आधारेण प्रकाशिताः । तस्मिन् प्रमाणे अधः लिखिताः प्रमुखाः बिन्दवः समाविष्टाः ।

  • 'दिर्घकालिना उत्क्रान्तिः' विकिरण प्रौद्योगिक्यां च बृहति रुपरेखायां सततं परिष्कारम् ।
  • संप्रत्त्या विकिरण प्रौद्योगिक्या सह कार्ये विभिन्नाः परिस्थितयः च प्रदर्शनस्य आवश्यकता ।
  • 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' जङ्गम-दूरवाणी 'दिर्घकालिना उत्क्रान्तिः' जालपूटेषु सहवर्तिणी भवेत् ।
  • 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' प्रमाणं विस्तृतपट्ट (20 MHz अधिकतर) सङ्कीर्णपट्ट च उभयोः पट्टयोः समर्थनं कुर्यात् ।

WiMAX 2, 802.16 इति अपि चतुर्थवंशश्रेणिप्रणाली अस्ति, इति ITU अनुमोदनं करोति । WiMAX 2 इति जालपुटः, WiMAX 1 इति जङ्गम-दूरवाण्या सह सहवर्ती अस्ति ।

एप्रिल माषे, २००८ तमे वर्षे, चिन देशे, एकस्मिन् अधिवेशने, 3GPP इति संस्था 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' प्रमाणाय कार्यं करिष्यामि इति अङ्गिकृतवती । जुन माषे, २००८ तमे वर्षे पद्धति-बन्धनां प्रथमं संस्करणं अनुमोदितं | ITU-R इति संस्थायाः चतुर्थवंशश्रेणिप्रणाल्याः प्रमुखाः लक्ष्याः अधः लिखिताः सन्ति ।

  • शृङ्गदत्तांशवेगः एकशतकोटि द्वयांकाः प्रतिक्षणं भवेत् ।
  • उर्जा अवस्थयोः परिवर्तनं शीघ्रतरं भवेत् ।
  • कोश-सिमायां सेवा समीचीनतरा भवेत् । इत्यादि ।

भिन्नाः कार्यकारिण्यः समितयः भिन्नान् भिन्नान् प्रस्तावान् विस्तारेण पठन्ति ।

प्रस्तावाः[सम्पादयतु]

3GPP इति संस्थायाः 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' प्रौद्योगिक्याः लक्ष्यः तु ITU इति संस्थायाः आवश्यकताम् प्राप्तुम् च अत्युत्क्रामितुम् अस्ति । 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' प्रौद्योगिकी 'दिर्घकालिना उत्क्रान्तिः' प्रौद्योगिक्याः प्रथमस्य संस्करणस्य जङ्गम-दूरवाण्या सह सहवर्तिणी भवेत् । द्वै प्रौद्योगिक्यौ समानस्य आवृतिपट्टस्य उपयोगं कुर्याताम् । 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' ITU-R इति संस्थायाः चतुर्थवंशश्रेणिप्रणाल्याः सर्वाणाम् आवश्यकतानां पूर्तिं करोति इति 3GPP इति संस्था सुकरत्वे अभ्यासे विनिश्चिनोति । एतस्य सुकरत्वस्य अभ्यासस्य फलानि 3GPP इति संस्थायाः TR 36.912 प्रमाणे प्रकाशितानि सन्ति ।

पराक्रान्तैः सङ्कीर्णजातीयैः जालपुटैः 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' प्रौद्योगिकी बहवः लाभाः प्राप्नोति । एतत् जालपुटं बृहतां कोशानां, लघूनां कोशानां, गृहे स्थितानां लघुतराणां कोशानां, नूतनानां प्रसारण-कोशानां च अधिकतरं लाभदायी मिश्रणम् अस्ति । एतस्मिन् जालपुटे न्यूनोर्जाः कोशाः ग्राहकानां समीपे सन्ति, अथः 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' प्रौद्योगिक्याः क्षमता च व्यापः च अधिकतर सम्प्रवर्धेते च सर्वे ग्राहकाः समान सेवा प्राप्नुवन्ति । 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' प्रौद्योगिक्यां बहुवाहकैः अत्यधिकस्य विस्तृतपट्टस्य (upto 100 MHz) उपयोगं शक्यते, अथः अतिवेगदतांश सेवा सम्भवते ।

सम्शोधन काले बहुषु प्रस्तावेषु विमर्शः जातः। ते प्रस्तावाः अधः लिखितानुसारेण वर्गीकृताः ।

  • प्रसारण-कोशः ।
  • सम्वादितेभ्यः बहुभ्यः बिन्दुभ्यः प्रेषितं ग्राहित्रं च ।
  • एकाकी ग्राहकः बहु-आदान-बहु-प्रदान इति च सङ्कीर्णजातीय बहु-आदान-बहु-प्रदान इति प्रौद्योगिकीभ्यां जङ्गम-दूरवाण्यां द्वयं तरङ्गग्राहकम् ।
  • सङ्कीर्णपट्टतः विस्तृतपट्ट पर्यन्तम् आवश्यक्तानुसारेण परिमाणस्य परिवर्तनं शक्यते ।
  • समीपयोः विकिरणपट्टाभ्यां च असमीपयोः विकिरणपट्टाभ्यां वाहक-समासः ।
  • स्थानिके क्षेत्रे विकिरणस्य सन्तुलितं उपयोगम् ।
  • विहारिभ्यः जङ्गमसञ्चारसेवा दातुम् उपायाः ।
  • आवश्यकता अनुसारेण विकिरणपट्टस्य उपयोगः ।
  • बुद्धिमान् विकिरणः।
  • स्वयंसंचालित च स्वायत्त जालपुटविन्यासः, स्वयंसंचालित च स्वायत्त जालपुटक्रिया ।
  • जालपुटप्रबन्धेन स्वायत्तस्य जालपुटस्य च जङ्गम-दूरवाण्याः परीक्षा, सन्तुलित उपयोगं च ।
  • रश्मिनिर्माणस्य उपायेषु अभिवृद्धिः च अग्रवर्ती दोषपरीष्कारः ।
  • हस्तक्षेपानां प्रबन्धः च निग्रहः ।
  • आवृत्ति-विभाजन-द्विमुखाय सञ्चाराय विकिरणानां संसाधनानाम् असन्तुलितं विभाजनम् ।
  • आरोहणे दिशि सङ्कीर्णजातीय OFDMA च SC-FDMA ।
  • आरोहणम्/अवतरणम् आंतर eNB सम्वादितः बहु-आदान-बहु-प्रदान ।
  • स्वंय विहितः जालपुटः कार्यप्रणाल्यः ।
  • बहु वाहक विकिरणपट्ट अभिगमनं वा वाहक-समासः ।

प्रयोगशालायां 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' च WiMAX 2 प्रौद्योगिक्यौ (१) 8x8 बहु-आदान-बहु-प्रदान, (२) समासित 100 MHz विस्तृत विकिरण पट्ट च (३) 128 QAM त्रयाणाम् उपयोगम् अवतरणे दिशि कर्तुं शक्नोतः । ते प्रौद्योगिक्यौ शृङ्गदत्तांशवेगम् ३.३ शतकोटि द्वयांकाः प्रतिक्षणं प्रदर्शिते ।

3GPP इति संस्थायाम् अभ्यासस्य सङ्क्षेपः TR 36.912 प्रमाणे प्रकाशितानि सन्ति ।

अधिकानां लक्षणानाम् इतिहास[सम्पादयतु]

'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' इत्येतस्य प्रमाणस्य मूलकार्यं 3GPP दशतमे संस्करणे प्रकाशितं च अप्रील मासे २००९ तमे वर्षे स्थगितम् । प्रायोगिकैः उपकरणैः प्रयोगः अभवत् । अनन्तरम् मुख्याः उपकरण-आपणिकाः तन्त्रांशानां सततं परिष्कारम् अकुर्वन् ।

कोश-सिमायाम् सेवा समीचीनतरा कर्तुं बृहतां कोशानां, लघूनां कोशानां, लघुतराणां कोशानां च मिश्रणम् कृत्वा सङ्कीर्णजातीयः जालपुटः निर्मीतः । दिसम्बर मासे २०१२ तमे वर्षे स्थगितस्य 3GPP एकादशतमस्य संस्करणस्य प्रमुखः विषयः 'सङ्कीर्णजातीयः जालपुटः' इति आसीत् । सम्वादितेभ्यः बहुभ्यः बिन्दुभ्यः प्रेषितं ग्राहित्रं च इति एकादशतमस्य संस्करणस्य लक्षणः सङ्कीर्णजातीयस्य जालपुटस्य अस्थिपञ्जरः आसीत् । सजातीये जालपुटे कोश-सिमायां स्थिताषु जङ्गमदूरवाणीषु सेविनः कोशात् सङ्केतस्य प्रबलता न्यूना अस्ति च समीपस्थस्य कोशस्य हस्तक्षेपः अपि अधीकः अस्ति । सम्वादितेभ्यः बहुभ्यः बिन्दुभ्यः प्रेषितं ग्राहित्रं च इति लक्षणेन समीपस्थः कोशः अपि सेविनः कोशस्य सदृशः सङ्केतः प्रेषयति । अथः कोश-सिमायां सेवा समीचीनतरा भवति । जङ्गम-दूरवाण्यां सह अस्तित्वः इति इतोऽपि एकः लक्षणः एकादशतमे संस्करणे आसीत् । जङ्गम-दूरवाण्यां सह अस्तित्वः इति लक्षेणन 'दिर्घकालिना उत्क्रान्तिः'/'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' च अन्याः विकिरण-उपप्रणाल्यः, ( दृष्टान्तरूपेण wiFi, नीलदण्तः, GPS इत्यादि ), उभयोः मध्ये हस्तक्षेपः न्यूनः भवति । आरोहणे दिशि 4x4 बहु-आदान-बहु-प्रदान विन्यासः ध्वजीभूतः ।

सङ्कीर्णजातीये जालपुटे बहवः भिन्नाः कोशाः सन्ति । अथः चलिता जङ्गम-दूरवाणी बहुवारं सेविनः कोशस्य परिवर्तनम् करोति । इदानीं द्वादशतमे संस्करणे, सङ्कीर्णजातीये जालपुटे सेविनः कोशस्य परिवर्तनं न्यूनं कर्तुम् अभ्यासः प्रचलति ।

प्रौद्योगिकी प्रदर्शनम्[सम्पादयतु]

  • फेब्रुआरी २००७ : NTT DoCoMo इति जङ्गमसेवाप्रचालकः उदाघोषयत्, "चतुर्थवंशश्रेणिप्रणाल्यः प्रयोगः समाप्तः । तस्मिन् प्रयोगे १२ तरङ्गग्राहकैः, १२ तरङ्गप्रेषकैः, १०० MHz विस्तृतेन विकिरणपट्टेन, १० सहस्त्रमानानि प्रति घण्टा वेगे गच्छन्त्यां जङ्गं दूरवाण्याम्, अवतरणे दिशि शृङ्गदत्तांशवेगः आसन्नː ५ शतकोटि द्वयांकाः प्रतिक्षणं प्राप्तः" इति ।
  • दिसम्बर २००९ : TeliaSonera इति जङ्गमसेवाप्रचालकः प्रथमां वाणिज्यिकां 'दिर्घकालिना उत्क्रान्तिः' सेवां स्विडन नोर्वे च देशयोः प्रारम्भं अकरोत् ।
  • फेब्रुआरी २०११ : जङ्गम-दूरवाणी विश्व महासभायाम् Agilent य्य्Technologies इति संस्था 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' इति प्रौद्योगिक्यै, सङ्केत निर्माणः च सङ्केत विश्लेषण द्वाभ्याम् सह प्रथम परीक्षा उपायस्य प्रदर्शनम् अकरोत् ।
  • ९ ओक्टोबर २०१० : Yota इति जङ्गमसेवाप्रचालकः रष्यदेशीये मोस्को इति नगरे 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' इति प्रथमां सेवां ११ कोशेषु प्रारम्भं अकरोत् । यद्यपि तस्यै जङ्गम-दूरवाण्यः २०१३ वर्षस्य प्रथमे अर्धभागे सुलभाः अभवन् ।
  • अप्रील २०१३ : MTN UGANDA इति जङ्गमसेवाप्रचालकः युगान्डा इति देशे 'दिर्घकालिना उत्क्रान्तिः' सेवां प्रारम्भं अकरोत् ।
  • २५ जुन २०१३ : कोरिआ इति देशस्य SK Telecom इति जङ्गमसेवाप्रचालकः 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' सेवायाः आयोजनम् उदाघोषयत् ।
  • २६ जुन २०१३ : Samsung Electronics इति संस्था 'Samsung Galaxy S4' इति नाम्ना जङ्गम-दूरवाणी 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' इति प्रौद्योगिक्या युक्ता अकरोत् ।
  • १८ जुलाई २०१३ : कोरिआ इति देशस्य LG U Plus इति जङ्गमसेवाप्रचालकः 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' जालपुटस्य प्रारम्भं अकरोत् ।
  • १८ ओगष्ट २०१३ : फिलिपाइन्स इति देशस्य SMART Communications इति जङ्गमसेवाप्रचालकः 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' जालपुटस्य परीक्षाम् अकरोत् ।
  • ५ नवेम्बर २०१३ : UK इति देशे द्वे प्रमुखौ जङ्गमसेवाप्रचालकौ (Vodafone च EE)'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' जालपुटस्य परीक्षां लंडन क्षेत्रे उदाघोषयताम् ।
  • १५ नवेम्बर २०१३ : जर्मन इति देशे म्युनीक च ड्रेस्डेन नगरयोः द्वे जङ्गमसेवाप्रचालकौ (Telefónica च Vodafone)'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' जालपुटस्य परीक्षाम् उदाघोषयताम् ।
  • ६ दिसम्बर २०१३ : प्रसारमाध्यमानि उदाघोषयन् ,"ओस्ट्रेलिया इति देशीय Telstra इति जङ्गमसेवाप्रचालकः 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' जालपुटस्य क्षेत्र परीक्षायां शृङ्गदत्तांशवेगः ३० कोटि द्वयांकाः प्रतिक्षणं प्राप्तः।" इति ।
  • १९ दिसम्बर २०१३ : Optus इति जङ्गमसेवाप्रचालकः जगतः प्रथमः 'समय विभाजिता - दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' वाहक-समासः जालपुटस्य निर्माणम् अकरोत् ।
  • २९ जान्युआरी २०१४ : स्वितर्झलेन्ड इति देशे Sunrise इति जङ्गमसेवाप्रचालकः 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' जालपुटस्य परीक्षाम् उदाघोषयत् । वाणिज्यिका 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' सेवा २०१४ वर्षस्य तृतीये चतुर्थांशे आयोजिता ।
  • ३१ जान्युआरी २०१४ : Ericsson इति संस्था Qualcomm इति संस्थया सह Telstra इति 'दिर्घकालिना उत्क्रान्तिः' जालपुटे 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' परीक्षाम् उदाघोषयत् ।
  • ४ फेब्रुआरी २०१४ : Nokia Solutions and Networks (NSN) इति संस्था, 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' प्रौद्योगिक्याः उपयोगेन, व्यक्तिगताय भोक्त्रे ४५ कोटि द्वयांकाः प्रतिक्षणं दत्तांशवेगं उदाघोषयत् ।
  • ११ फेब्रुआरी २०१४ : प्रसारमाध्यमानि उदाघोषयन् ,"Elisa इति जङ्गमसेवाप्रचालकः 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' जालपुटस्य परीक्षां जीवन्ते जालपुटे फीनलेन्ड इति देशे अकरोत् ।" इति ।
  • २० फेब्रुआरी २०१४ : Deutsche Telekom इति जङ्गमसेवाप्रचालकः, "Alzey इति नगरे 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' जालपुटस्य परीक्षायाम् ५८ कोटि द्वयांकाः प्रतिक्षणं दत्तांशवेगः प्राप्तः" इति उदाघोषयत् ।
  • २४ फेब्रुआरी २०१४ : ZTE इति संस्था CSL इति जालपुटे Hong Kong इति क्षेत्रे ३० कोटि द्वयांकाः प्रतिक्षणं दत्तांशवेगयुक्ता 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' सेवां प्रारम्भं अकरोत् ।
  • २५ फेब्रुआरी २०१४ : Huawei च MegaFon इति संस्थे ३० कोटि द्वयांकाः प्रतिक्षणं दत्तांशवेगयुक्ता 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' सेवां Moscow च Sochi नगरयोः प्रारम्भं अकरोताम् ।
  • २५ फेब्रुआरी २०१४ : Vodafone Italia इति जङ्गमसेवाप्रचालकः "Napoli इति नगरे 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' जालपुटस्य परीक्षायाम् २५ कोटि द्वयांकाः प्रतिक्षणं दत्तांशवेगः प्राप्तः" इति उदाघोषयत् ।
  • २०१४ वर्षस्य ९तमे सप्ताहे जङ्गम-दूरवाणी विश्व महासभायां Barcelona इति नगरे Vodafone Spain इति जङ्गमसेवाप्रचालकः 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' जालपुटस्य परीक्षायाम् ५४ कोटि द्वयांकाः प्रतिक्षणं दत्तांशवेगः प्राप्तः।
  • फेब्रुआरी २०१४ : जङ्गम-दूरवाणी विश्व महासभायाम् Eta Devices इति संस्था 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' इति प्रौद्योगिक्यै ८० MHz विस्तृते विकिरणपट्टे, पराक्रान्त सम्पुटकस्य पराक्रान्तम् अनुसरणं प्रादर्शयत् ।
  • २८ फेब्रुआरी २०१४ : Base इति संस्था 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' जालपुटस्य क्षेत्रपरीक्षां जीवन्ते जालपुटे Belgium इति देशे उदाघोषयत् ।
  • २१ मार्च २०१४ : प्रसारमाध्यमानि , Orange España इति जङ्गमसेवाप्रचालकस्य 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' जालपुटस्य परीक्षाम् उदाघोषयन् ।
  • १ अप्रील २०१४ : प्रसारमाध्यमानि , Etisalat इति जङ्गमसेवाप्रचालकस्य 'दिर्घकालिना उत्क्रान्तिः - पराक्रान्ता' जालपुटस्य परीक्षाम्, Alcatel-Lucent इति संस्थया सह Abu Dhabi क्षेत्रे उदाघोषयन् ।

टिप्पणी[सम्पादयतु]

  1. Stefan Parkvall, Erik Dahlman, Anders Furuskär et al; Ericsson, Robert Syputa, Maravedis; [httpः//www.itu.int/ITU-R/information/promotion/e-flash/2/article4.html ITU global standard for international mobile telecommunications ´IMT-Advanced´]; [httpः//www.ericsson.com/res/thecompany/docs/journal_conference_papers/wireless_access/VTC08F_jading.pdf LTE Advanced - Evolving LTE towards IMT-Advanced]; Vehicular Technology Conference, 2008. VTC 2008-Fall. IEEE 68th 21-24 Sept. 2008 Page(s)ः1 - 5.

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

फलकम्:फलकम्ःकोशीयः जालपुटः प्रमाणानि

वर्गःः3GPP प्रमाणानि