दीपावलिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(दीपावली इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
तमसो मा ज्योतिर्गमय

दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्त्ति । दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । कार्त्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति ।

दीपावली - रङ्गवल्ली

इदं कथ्यते यत् अस्मिन् दिवसे रावणं हत्वा रामः सीतया लक्ष्मणेन च सह अयोध्यां प्रत्यागच्छत् । तदा अयोध्यायाः जनाः अतीव प्रसन्नाः अभवन् । अतः ते स्वानि गृहाणि दीपानां मालाभिः आलोकयन् । ततः प्रभृति प्रतिवर्षम् तस्मिन् एव दिवसे एषः उत्सवः भवति ।

नीराजयेयुदेर्वांस्तु विप्रान् गावतुरङ्गमान् ।
ज्येष्ठान्पूज्यान् जघन्यां मातृमुख्या योषित: ॥ इति उक्तम् अस्ति ।

दीप: ज्ञानस्वरूप:, सर्वविद्यानां कलानां च मूलरूप: । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षात् विष्णुरध्यात्मदीप: । इति वदति भागवतम्हृदयकमलमध्ये दीपवद्वेदसारम् इति उच्यते गुरुगीतायां स्कान्दपुराणे च । यद्यपि दीपावली सर्वैरपि आचर्यते तथापि विशेषतया वैश्यपर्व इति उच्यते । एतदवसरे धनदेवताया: महालक्ष्म्या:, धनाध्यक्षस्य कुबेरस्य च पूजां कुर्वन्ति ।

पूजनीया तथा लक्ष्मीर्विज्ञेया सुखसुप्तिका ।
सुखरायां प्रदोषे तु कुबेरं पूजयन्ति हि ॥

एतत् केवलं धनसम्बद्धं पर्व न । अत्र महालक्ष्मी: केवलं धनदेवता न । श्रेयस: सर्वाणि अपि रूपाणि लक्ष्मीस्वरूपाणि एव । सा धर्मलक्ष्मी: मोक्षलक्ष्मी: अपि । वैश्या: तद्दिने लक्ष्मीपूजां कृत्वा नूतनगणनाया: आरम्भं कुर्वन्ति । तमिळुनाडुराज्ये चतुर्दशीदिनं दीपावली इति, कर्णातके चतुर्दशी-प्रतिपत् च दिनद्वयं दीपावली इति वदन्ति ।


त्रयोदश्यां सायङ्काले स्नानगृहं तत्रत्यानि पात्राणि च स्वच्छीकृत्य शुद्धं जलंपूरयन्ति । तत् जलपूरणपर्व इति वदन्ति । तद्दिने रात्रौ अपमृत्युनिवारणाय यमधर्मराजस्य सन्तोषाय च गृहस्य बहिर्भागे दीप: प्रज्वालनीय: इति वदति स्कान्दपुराणम् । तस्य दीपस्य नाम एव यमदीप: इति ।

कार्त्तीकस्यासिते पक्षे त्रयोदश्यां निशामुखे ।
यमदीपं बहिर्दद्यात् अपमृत्युर्विनश्यति ॥ (स्कान्दपुराणम्)
मृत्युना पाशदण्डाभ्यां कालेन श्यामया सह ।
त्रयोदश्यां दीपदानात् सूर्यज: प्रियतां मम ॥ (स्कान्द-पद्म-पुराणे)

चतुर्दश्यां प्रात:काले सर्वेपि अभ्यङ्गस्नानं कुर्वन्ति । एतद्दिने एव श्रीकृष्ण: नरकासुरं संहृत्य प्रात: अभ्यङ्गं कृतवान् आसीत् । अनेन स्नानेन नरकान्तक: नारायण: सन्तुष्ट: भवति । नरकभीति: निवार्यते । तद्दिने प्रात:काले तैले लक्ष्मी:, जलेगङ्गा निवसत: इति । तैलजलयो: उपयोगं कृत्वा य: स्नाति स: यमलोकं न गच्छति, तस्य अलक्ष्मीपरिहार: अपि भवति इति विश्वसन्ति ।

”तैले लक्ष्मीर्जले गङ्गा दीपावल्याचतुर्दशीम् ।
प्रात:काले तु य: कुर्यात् यमलोकं न पश्यति ॥“ (पद्मपुराणम् - ४-१२४)
”अलक्ष्मीपरिहारार्थम् अभ्यङ्गस्नानमाचरेत् ।” (नारदसंहिता)

तद्दिने विभिन्नानां चतुर्दशशाकानां भक्षणपद्धति: अपि कुत्रचित् अस्ति ।

”अत्र आचारात् चतुर्दशशाकभक्षणं च कर्तव्यम् ॥ इति उक्तिरपि श्रूयते ।

रात्रौ च ज्वलन्तम् आलातं गृहीत्वा पित्रृभ्य: मार्गदर्शनम् अपि कुर्वन्ति ।

दीपावलीभक्ष्यानि
यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥
औदुम्बराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै नम: ॥

इति यमधर्मराजस्य चतुर्दशनामानि वदन्त: तस्मै तिलतर्पणं समर्पयन्ति । तद्दिने रात्रौ नरकपरिहाराय देवालयेषु, मठेषु, वृन्दावनेषु, गृहेषु, गृहात् बहि: प्राङ्गणे, आयुधशालासु, नदीतीरे, दुर्गेषु, कूपसमीपे, अश्वशालासु, गजशालासु मुख्यमार्गेषु च दीपान् ज्वालयन्ति । नरकासुरस्य स्मरणार्थं वर्त्तिकाचतुष्टययुक्तम् एकं दीपम् अपि ज्वालयन्ति । महाविष्णुं, शिवं, महारात्रिदेवता: च पूजयित्वा रात्रौ केवलं भोजनं कुर्वन्ति । मधुरभक्ष्याणां वितरणम् अपि कुर्वन्ति ।

अमावास्यायाम् अपि प्रात:काले अभ्यङ्गस्नानं कृत्वा लक्ष्मीपूजां कुर्वन्ति । ल्क्ष्म्या: पूजनेन दारिद्य्रं दौर्भाग्यं च नश्यति इति । अभ्यङ्गस्नानस्य जले उदुम्बर-अश्वत्थ-आम्र-वट-प्लक्षवृक्षाणां त्वगपि योजयन्ति । स्नानानन्तरं महिला: पुरुषाणाम् आरतिं कुर्वन्ति । नरकासुरेण बन्धने स्थापिता: १६ सहस्रं कन्या: बन्धमुक्ता: सन्त्य: कृतज्ञतासमर्पणरूपेण कृष्णस्य आरतिं कृतवत्य: आसन् एतद्दिने । देवपूजया सह पितृपूजाम् अपि कुर्वन्ति । तद्दिने गृहे सर्वत्र दीपान् ज्वालयन्ति । नृत्य-गीत-वाद्यै: सन्तोषम् अनुभवन्ति । नूतनानि वस्त्राभरणानि धरन्ति । रात्रौ जागरणं कुर्वन्ति । तद्दिने अलक्ष्मी: निद्रारूपेण आगच्छति इति भेरि पणवानकै: महाशब्दं कुर्वन्ति निद्रानिवारणाय । अस्मिन् दिने वणिज: गणनापुस्तकस्य पूजां कृत्वा ग्राहकेभ्य: मधुरभक्ष्याणि ताम्बूलं च वितरन्ति । लक्ष्म्या सह धनाध्यक्षं कुबेरम् अपि पूजयन्ति ।

गोपूजापर्व

कार्त्तीकशुद्धप्रतिपत् एव बलिपूजादिनम् । दीपावलीपर्वणि एतत् प्रमुखं दिनम् । तद्दिने स्वातिनक्षत्रम् अस्ति चेत् अत्यन्तं प्रशस्तम् इति उच्यते । तद्दिने अपि प्रात:काले अभ्यङ्गस्नानं कुर्वन्ति । रात्रौ बलिपूजां कुर्वन्ति । बलिचक्रवर्तिन: चित्रं ५ वर्णै: लिखन्ति अथवा तस्य विग्रहस्य प्रतिष्ठापनं कुर्वन्ति । तस्य राज्ञ्या: विन्ध्यावल्या:, परिवारस्य, बाण-कूष्माण्ड-मुरनामकानां राक्षसानाम् अपि चित्राणि लिखन्ति । कर्णकुण्डलकिरीटै: शोभमानं बलिं विभिन्नै: कमलपुष्पै:, गन्ध-धूप-दीप-नैवेद्यै: पूजयन्ति । स्वर्णेन अथवा स्वर्णवर्णपुष्पै: तस्य पूजां कुर्वन्ति ।

”बलिराज नमस्तुभ्यं विरोचनसुत प्रभो ।
भविष्येन्द्र सुराराते विष्णुसान्निध्यदो भव ॥“

पूजेयं प्रतिगृह्यताम् इति प्रार्थयन्ति । एतद्दिने महादानी बलिचक्रवर्ती वामनावतारिण: विष्णो: सकाशात् प्राप्तस्य वरस्य अनुगुणं भूलोकं द्रष्टुम् आगच्छति इति । अत: बलिम् उद्दिश्य तद्दिने यानि दानानि दीयन्ते तानि अक्षयफलदायकानि भवन्ति, नारायणस्य सन्तोषम् अपि जनयन्ति इति वदति भविष्योत्तरपुराणम्

”बलिमुद्दिश्य दीयन्ते बलय: कुरुनन्दन ।
यानि तान्यक्षयाण्याहु: मय्येवं सम्प्रदर्शितम् ॥“ (भविष्योत्तरपुराणम् - १४०-५७)

एतद्दिने पार्वतीशिवौ द्यूतं कीडितवन्तौ । तत्र पार्वत्या जय: प्राप्त: इति वदति ब्रह्मपुराणम् । तस्य स्मरणार्थं तद्दिने द्यूतम् अपि क्रीडन्ति कुत्रचित् । तत्र य: जयं प्राप्नोति स: वर्षपूर्णं जयं प्राप्नोति इति विश्वास: ।

”तस्मात् द्यूतं प्रकर्तव्यं प्रभाते तत्र मानवै: ।
तस्मिन् द्यूते जयो यस्य तस्य संवत्सर: शुभ: ॥“

एतद्दिने एव श्रीकृष्ण: गोवर्धनपर्वतम् उन्नीय गोकुलस्य रक्षणं कृतवान् इति । अत: तस्य दिनस्य स्मरणार्थं गोपूजाम् आचरन्ति । तद्दिने गोवृषभेभ्य: विश्रान्तिं यच्छन्ति । गोवृषभान् स्नापयित्वा अलङ्कुर्वन्ति । तेषां पूजां कृत्वा नैवेद्यं समर्पयन्ति । गोवर्धनपर्वतस्य गोपालकृष्णस्य च पूजां कुर्वन्ति । पर्वतं गन्तुम् अशक्ता: तस्य विग्रहं, चित्रं वा पूजयन्ति । गोवर्धनपूजाम् अन्नकूट: इति वदन्ति । गोपालेभ्य: नैवेद्यरूपेण अन्नसन्तर्पणं व्यवस्थापयन्ति च एतद्दिने ।

अग्रिमं दिनम् अस्ति कार्त्तीकशुद्धद्वितीया । एतद्दिनं भ्रातृद्वितीया, यमद्वितीया, भगिनीद्वितीया इति अपि वदन्ति ।

”यमं च यमुनां चैव चित्रगुप्तं च पूजयेत् ।
अर्घ्यात्र प्रदातव्यो यमाय सहजद्वयै: ॥“
आकाशदीपः

एतद्दिने एव यमदेव: भगिन्या: यमुनादेव्या: गृहं गत्वा आतिथ्यं प्राप्तवान् इति । अत: पुरुषा: सर्वे यमाय यमुनादेव्यै च अर्घ्यं समर्प्य भगिनीनां गृहं गच्छन्ति भोजनार्थम् । भगिनीभ्य: उपायनानि दत्वा ता: सन्तोषयन्ति च । मार्कण्डेयादीनां चिरञ्चीवीणां स्तोत्रं कुर्वन्ति । तद्दिने विशेषतया यमुनानद्यां स्नात्वा तां पूजयन्ति । एतत् दिनं दीपावलीपर्वण: अन्तिमं दिनम् । एवं ५ दिनानि आचरन्ति दीपावलीपर्व ।

”उपशमित मेघनादं प्रज्वलित दशाननं रमितरामम् ।
रामायणमिव सुभगं दीपदिनं हरतु वो दुरितम् ॥“ (भविष्योत्तरपुराणम् - १४० - ७१)

रामायणे मेघनाद: (इन्द्रजित्) यथा शान्त: तद्वत् एतत् पर्वावसरे मेघ: शान्त: जात: भवति । रामायणे दशमुखरावण: यथा दग्ध: भवति तथा अस्मिन् पर्वणि दशामुखं (वर्त्तिका) दहति । रामायणे राम: यथा रमते तद्वत् अस्मिन् पर्वणि सर्वे जना: रमन्ते । एवं रामायणमिव रमणीयं दीपावलीपर्व अस्माकं पापानि नाशयतु इति वदति अयं श्लोकः ।

"http://sa.wikipedia.org/w/index.php?title=दीपावलिः&oldid=261901" इत्यस्माद् पुनः प्राप्तिः