दुर्गा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
दुर्गादेवी

दुर्गा देव्याः पार्वत्याः अपरं रूपम् । दुर्गति नाशिनि इति दुर्गा। भारते देशे सनातनधर्मस्य अनुयानिनः शक्तसम्प्रदाये भगवतीं दुर्गां जगतः पराशक्तिः इति विश्वसन्ति । शाक्तसाम्प्रदायस्य जनाः भगवन्तं देवीरूपेण पश्यन्ति । उपनिषत्सु उमा हैमवती इति दुर्गायाः वर्णनम् अस्ति । पुराणेषु दुर्गाम् आदिशक्तिः इति उक्तम् । वास्तवे दुर्गा शिवस्य पत्न्याः पार्वत्याः किञ्चित् रूपम् एव यस्याः उत्पतिः राक्षसानां नाशार्थम् अभवत् । सर्वासां देवतानां प्रार्थनाम् श्रुत्वा पार्वती त्रिदेवानां सहकारेण दुर्गारूपम् अवाप्नोत् । अतः दुर्गा युद्धदेवी भवति । दुर्गायाः पुनः स्वयः अनेकरूपाणि भवन्ति । अस्याः सुन्दरं शान्तं शुक्लरूपं भवति गौरी । एवमेव अस्याः भयङ्करं रूपं भाति काली । विभिन्नरूपेषु दुर्गा भारते, नेपाले च पूजयन्ति । अस्याः दुर्गायाः वाहनं शार्दूलः भवति ।

बाह्यानुबन्धाः[सम्पादयतु]

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

"https://sa.wikipedia.org/w/index.php?title=दुर्गा&oldid=481609" इत्यस्माद् प्रतिप्राप्तम्