देव-ऋणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(देवऋणम् इत्यस्मात् पुनर्निर्दिष्टम्)



हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

तत्र प्रथमं तावत् महतीयं कृपा चराचरनिश्वनिर्मातुः परमेश्वरस्य येन सकलाम् इमां पाञ्चभौतिकीं सृष्टिं निर्माय मानवावास्थानम् अत्र संसाधितम् । तत्तद्बीजेषु सस्योत्पादनशक्तिः तत्तल्लतावृक्षादिषु च विचित्रैः वर्णैः सुगन्धैश्च युक्तानां पुष्पाणां मधुराणां च फलानाम् उद्भवशक्तिः गवादिषु दुग्धं कार्पासादौ वस्रोत्पादनशक्तिः इत्यादि सर्वं श्रीपरमेश्वरस्य कृपाप्रसादात् मनुजः प्राप्नोति । अद्य समन्ततः परिदृश्यमानानां विविधानां जीवनोपयोगिवस्तूनां सुखसाधनानां च मूलकारणत्वेन स परमेश्वरः एव अस्ति । अतः तस्येयं कृपा अवश्यमेव कृतज्ञतया स्मरणीया मनुजैः । तत्र परमेश्वरस्य विविधाः विश्वनियामकशक्तयः विविधदेवतारुपेण मानवानाम् उपकुर्वन्ति । अतः ताः देवताः उद्दिश्य अग्निमुखेन हवींषि दत्त्वा तान् प्रसादयितुं यागादीन् कृत्वा मानवः देवऋणात् मुक्तिं प्राप्नोति इति शास्त्रकारैः निर्दिष्टम् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=देव-ऋणम्&oldid=408351" इत्यस्माद् प्रतिप्राप्तम्