हिन्दुदेवालयः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(देवमन्दिरम् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

दैवं विना मानवः न जीवति इत्येतत् मानवस्वभावस्य अध्ययनेन ज्ञातं सत्यम् । मानवचरित्रम् इदं स्पष्टतया दर्शयति । ईश्वरः अस्ति । सः सृष्टिकर्ता, नियन्ता च । तस्य प्रेम्णा सुखं तस्य कोपेन दुःखप्राप्तिः इत्येषः विश्वासः विभिन्नरीत्या दृश्यते विश्वे विद्यमानेषु सर्वेषु मानवेषु ।
देवस्य आलयः एव देवालयः । तस्य भगवतः वासस्थानम् । अयं देवस्थानं, देवावासः, देवतागृहम्, मन्दिरम् इत्यादिभिः शब्दैः निर्दिश्यते ।

देवालयनिर्माणम्[सम्पादयतु]

भारते देवालयनिर्माणं कदा आरब्धम् इत्येतत् स्पष्टतया न ज्ञायते । वेदकाले इदं न स्यात् इति भाति । रामायण-महाभारतकालेषु विग्रहाराधनपद्धतेः देवालयनिर्माणस्य च आरम्भः जातः स्यात् । वैदिकयज्ञं यत्र क्रियते स्म सा यागशाला एव कालक्रमेण देवालयरूपं प्राप्तवती स्यात् इति भाति । प्राचीनकाले मृत्तिका काष्ठम् इत्यादिभिः सुलभनाशिभिः वस्तुभिः देवालयानां निर्माणं क्रियते स्म इति भाति । अतः एव तेषाम् अवशेषाः न लभ्यन्ते । गुहादेवालयाः शिलादेवालयाः इष्टिकादेवालयाः च अनन्तरकाले प्रादुर्भूताः । बृहदाकारता, शिल्पालङ्कारादयः तदनन्तरकालीनाः स्युः ।
विशालभारतस्य विविधेषु भागेषु विविधेषु कालेषु विभिन्नाः कालाः निर्मिताः सन्ति । तथापि तेषु सर्वेषु अपि काचित् साम्यता एकरूपता च दृश्यते । अस्य कारणम् अस्ति यत् देवालयनिर्माणं कानिचन मूलभूततत्त्वानि अनुसृत्य क्रियते । इदमस्ति किञ्चन शास्त्रम् ।

रचनाशैली[सम्पादयतु]

रचनाशैलीम् अनुसृत्य भारतीयदेवालयाः त्रिधा विभक्तुं शक्यम् ।

नागरशैली[सम्पादयतु]

पूर्वभारते उत्तरभारते च इयं शैली आधिक्येन दृश्यते । अस्यां शैल्यां गर्भगृहस्य उपरि विद्यमानं शिखरं यच्च विमानम् इति कथ्यते तत् वक्ररेखाकृतियुक्तम् उन्नतञ्च भवति ।

द्राविडशैली[सम्पादयतु]

दक्षिणभारते दृश्यमानेषु देवालयेषु इयं शैली आधृता भवति । अत्र शिखरं छिन्नाग्र-सूच्याकारस्तम्भः इव दृश्यते ।

वेसरशैली[सम्पादयतु]

अयं प्रधानतया होय्सलवंशजानां शैली विद्यते ।

प्राचीनदेवालयाः[सम्पादयतु]

गुप्तकाले (३२० - ६५० क्रि श) साञ्चि-भूमरप्रदेशेषु निर्मिताः देवालयाः प्राचीनतमाः । कर्णाटके विद्यमानाः ऐहोळे-पट्टदकल्लु-देवालयाः, महाराष्ट्रे विद्यमानः एल्लोरादेवालयाः अपि प्राचीनाः एव । एते प्रायशः क्रि श ४५०-८०० काले निर्मिताः ।
अग्रिमेषु सहस्रवर्षेषु (क्रि श ६०० - १०००) देवालयानां वर्धनं त्वरितगत्या एव प्रवृत्तम् । दक्षिणे पल्लवाः पाण्ड्याः विजयनगरराजाः, उत्तरे कलिङ्गराजाः, छन्देलाः, सोलङ्किराजाः इत्यादिनां सर्वेषां राज्ञाम् अविरतपरिश्रमस्य फलेन काञ्ची-मधुरै-विजयनगरस्य मन्दिराणि, भुवनेश्वरस्य लिङ्गराजमन्दिरं, पुरीजगन्नाथमन्दिरं, कोणार्कस्य सूर्यरथमन्दिरं, खजुराहोमन्दिराणि, गुजरातस्य मोधेरस्य सूर्यमन्दिरम् इत्यादयः निर्मिताः । अस्मिन् एव समये निर्मिताः होय्सलदेवालयाः शिल्पसौन्दर्याय जगत्प्रसिद्धाः सन्ति ।
अग्नेय-एशियायाः जाव-बालि-कम्पूचियादेशेषु क्रि श ८०० - १४०० वर्षेषु निर्मिताः देवालयाः अपि प्राचीनाः । कम्पूचियाप्रदेशस्य अङ्ग्कोर्-देवालयाः जगत्प्रसिद्धिं प्राप्तवन्तः सन्ति ।

देवालयरचनाशास्त्रम्[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=हिन्दुदेवालयः&oldid=269280" इत्यस्माद् पुनः प्राप्तिः