देवरायनदुर्गम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
देवरायनदुर्गम्
—  ग्रामः  —
देवरायनदुर्गम्
Coordinates: 13°22′30″N 77°12′47″E / 13.375°N 77.213°E / 13.375; 77.213
देशः  भारतम्
राज्यम् कर्णाटकम्
मण्डलम् तुमकूरु
भारतीय सामान्यकालमानम् (UTC+5:30)
पत्रालयकूटसंख्या 572 146
दूरवाणीकूटसंख्या 0816
वाहनपञ्जीकरणम् KA-06
योगनरसिंहस्वामीदेवालयः, देवरायनदुर्गम्

देवरायनदुर्गम् (Devarayanadurga) कर्णाटकस्य तुमकूरुमण्डले स्थितं गिरिदुर्गं पवित्रस्थानं च । अस्य अष्टसु दिक्षु गिरिपंक्तयः सन्ति । अस्य पौराणिकं नाम करिगिरिक्षेत्रम् । प्रथमपर्वतस्य समतलप्रदेशे दुर्वासमुनिना प्रतिष्ठितः श्रीभोगनरसिंहः अथवा लक्ष्मीनरसिंहदेवालयः, अन्यस्मिन् पर्वते योगनरसिंहमन्दिरं च स्तः । योगनरसिंहस्य कुम्भिनरसिंहः इति नाम अस्ति । अत्र एकस्यां गुहायां पारतीर्थम् इति जलस्थानमस्ति । रामतीर्थं धनुषतीर्थं च जलस्य स्रोतसी स्तः । इतोऽपि अग्रे चिक्कगरुडनगुडि, दिविगेगुण्डु, शिंषामूलं, जयमङ्गलीमूलं च सन्ति अन्यस्मिन् पर्वताग्रे नमस्कारभङ्गौ स्थितस्य सञ्जीवरायस्वामिनः मन्दिरम् अस्ति । सानुप्रदेशे ’नामदचिलुमे’ इति पवित्रतीर्थम् अस्ति ।

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=देवरायनदुर्गम्&oldid=247498" इत्यस्माद् पुनः प्राप्तिः