देवलस्मृतिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

महर्षिः देवलः प्राचीनधर्मशास्त्रकारेषु अन्यतमः । पुराणेषु अस्य विचारः संक्षेपरूपेण प्राप्यते । अयम् ऋग्वेदमन्त्रद्रष्टा अपि । ऋग्वेदस्य ९ पवमानमण्डले अनेन रचिताः सूक्तयः दृश्यन्ते । अयं महान् तपस्वी, योगाचार्यश्च ।

नाम्ना मे देवलः पुत्रो योगाचार्यो महातपाः ॥ (कूर्मपुराणम्-१९/५)

एषः भगवन्तं शङ्करं सम्पूज्य सिद्धिं प्राप्तवान् आसीत् । एषः वेदव्यासस्य शिष्यः इत्यपि निर्दिश्यते ।

परिचयः[सम्पादयतु]

ब्रह्माण्डपुराणे निर्दिश्यते यत् हिमवतः पत्न्याः मेनायाः तिस्रः पुत्र्यः - अपर्णा, एकपर्णा, एकपाटला चेति । एतासु अपर्णा एव जगज्जननी पार्वती । एताः तिस्रः अपि महातपस्विन्यः ब्रह्मवादिन्यश्च । योगशक्तियुताश्च । एकपर्णा कश्यपस्य पुत्रेण असितेन परिणीता । अनयोः पुत्रः एव देवलः । एषः पुत्रः ब्रह्मिष्ठः, दिव्ययोगज्ञानयुतश्च आसीत् । अयं शाण्डिल्येषु श्रेष्ठतमः इति निर्दिश्यते ।

असितस्मैकपर्णातु पत्नी साध्वी पतिव्रता ॥
दत्ता हिममता तस्मै योगाचार्याय धीमते ।
देवलं सुषुवे सा तु ब्रह्मिष्ठं ज्ञानसंयुता ॥ (ब्रह्माण्डपुराणम्-३-१०-१८-१९)
असितस्मै कपर्णायां ब्रह्मिष्ठः समपद्यत ।
शाण्डिल्यानां वरः श्रीमान् देवलः सुमहायशाः ॥ (ब्रह्माण्डपुराणम्-३-८-३२)

भगवत्तत्त्वं ज्ञातवत्सु महर्षिषु असितः देवलश्च नितरां गौरवेण आद्रियते भगवद्गीतायाम् । (१०-१३)

स्मृतिः[सम्पादयतु]

अनेन देवलेन प्रणिता काचित् लघुः स्मृतिः प्राप्ता अस्ति । याज्ञवल्क्यस्य स्मृतेः मिताक्षर-अपरार्क-स्मृतिचन्द्रिकानिबन्धग्रन्थेषु देवलस्य इति निर्दिष्टाः गद्यपद्यांशाः अस्मिन् ग्रन्थे न उपलभ्यन्ते ।

आचार-व्यवहार-श्राद्ध-प्रायश्चित्त-सम्पद्विभागः-स्त्रीधनादिषु विषयेषु एतस्य इति निर्दिश्यमानानि वचनानि कानिचन उपलभ्यन्ते । महाभारते च देवलस्य इति निर्दिश्यमानाः धर्मशास्त्रविषयाः उपलभ्यन्ते । अनेन ज्ञायते यत् पूर्वं देवलस्मृतिः इति नामकः महान् ग्रन्थः स्यात्, कालानुक्रमेण अस्य अनेके भागाः लुप्ताः स्युः । इदानीम् उपलभ्यमानः अल्पप्रमाणकः ग्रन्थः अवशिष्टः स्यात् इति ऊह्यते ।

विषयाः[सम्पादयतु]

इदानीम् उपलभ्यमानायां देवलस्मृत्यां सामान्यतः ९० श्लोकाः सन्ति । अस्मिन् जातिशुद्धिः, देहशुद्धिः इत्येतयोः विषये विशेषरूपेण चर्चा कृता अस्ति । चान्द्रायणादीनां प्रायश्चित्तव्रतानां वर्णना अपि विद्यते । प्रमुखतः पञ्चगव्यस्य विशेषता उक्ता अस्ति । गोमूत्रे वरुणदेवता, गोमये अग्निदेवः, क्षीरे सोमदेवता, दध्नि वायुदेवः, घृते सूर्यदेवश्च विद्यते । पञ्चगव्ये कीदृशानां धेनूनां क्षीरं योजनीयम् इति निर्दिष्टमस्ति । ताम्रवर्णस्य गोमूत्रं, श्वेतधेनोः गोमयं, स्वर्णवर्णस्य धेनोः क्षीरं, किञ्चित् नीलवर्णस्य धेनोः दधि, कृष्णवर्णस्य धेनोः घृतञ्च पञ्चगव्ये उपयोक्तव्यम् ।

वरुणो देवतामूत्रे गोमये हव्यवाहनः ।
सोमः क्षीरे दध्नि वायुघृते रविरुदाहृतः ॥६२॥
गोमूत्रं ताम्रवर्णायाः श्वेतायाश्चैव गोमयम् ।
पयः काञ्चनवर्णायाः नीलायश्चापि गोर्दधि ॥६३॥

घृतं वै कृष्णवर्णायाः ॥६४॥ यथोक्तरीत्या पञ्चगव्यस्य निर्माणं कृत्वा यदि पिबेत् तर्हि जने विद्यमानानि दुष्कृतकर्माणि पापकर्माणि च विनश्यन्ते इति देवलः वदति । अनेन मानवः शुद्धः भवति इति उच्यते ।

उदरं प्रविशेद्यस्य पञ्चगव्यं विधानतः ॥७९॥
यत्किञ्चिद्दुष्कृतं तस्य सर्वं नश्यति देहिनः ॥८०॥

पापिनां स्नेहः न कर्तव्यः इति जागरयति देवलः । तादृशेन सह सम्भाषणेन, तस्य स्पर्शनेन, तेन सह उपवेषणेन, भोजनकरणेन, तस्मै विद्यादानेन, शारीरकसम्बन्धकल्पनेन च तदीयं पापम् अस्मान् प्रविशेत् ।

संलापस्पर्शिनिः श्वास सहयसनासनाशनात् ।
याजनाध्यापनाद्यौनात् पापं सङ्क्रमते नृणाम् ॥३३॥
"http://sa.wikipedia.org/w/index.php?title=देवलस्मृतिः&oldid=195279" इत्यस्माद् पुनः प्राप्तिः