देवभक्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दैवभक्तिः इत्यस्मात् पुनर्निर्दिष्टम्)


देवः नाम काचन अगोचरा शक्तिः । भगवान् प्रभुः देवता परमात्मा इत्यादिभिः नामभिः वयं तं निर्दिशामः । एकं सत् विप्राः बहुधा वदन्ति । इति श्रुत्यनुगुणं विभुः एकः एव सः सर्वभूतेषु गूढः । सः सर्वभूतान्तरात्मा सर्वकर्माध्यक्षःसर्वभूताधिवासः भवति । सः एव शक्षी चेता केवलः निर्गुणः चा । वयं यस्याम् आकृतौ तं दृष्ट्तुमिच्छामः तदनुगुणं नाम रूपं च प्रकल्पयामः ।

नवविधा भक्ति:- श्रवणं कीर्तनं विष्णो: स्मरणं पादसेवनम्। अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्॥ – भागवतम् ७.५.२३

भक्तिप्रकार: आदर्शभक्त:
श्रवणम् महाराज: परीक्षित्
कीर्तनम् शुकदेव:, नारदमुनि:
विष्णो: स्मरणम् प्रह्लाद:, ध्रुव:, गजेन्द्र:
पादसेवनम् लक्ष्मी:, भरत:
अर्चनम् महाराज: पृथु:
वन्दनम् अक्रूर:
दास्यम् हनुमान्
सख्यम् अर्जुन:, सुदामा
आत्मनिवेदनम् महाराज: बलि:, विदुर:
भक्तः कश्चित् भागवन्तम् अर्चयति
"https://sa.wikipedia.org/w/index.php?title=देवभक्तिः&oldid=408352" इत्यस्माद् प्रतिप्राप्तम्