द्यूतं छलयतामस्मि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ ३६ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य षड्त्रिंशत्तमः(३६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

द्यूतं छलयताम् अस्मि तेजः तेजस्विनाम् अहम् जयः अस्मि व्यवसायः अस्मि सत्त्वं सत्त्ववताम् अहम् ॥ ३६ ॥

अन्वयः[सम्पादयतु]

छलयतां द्यूतम् अस्मि । तेजस्विनां तेजः अहम् । जयः अस्मि । व्यवसायः अस्मि । सत्त्ववतां सत्त्वम् अहम् ।

शब्दार्थः[सम्पादयतु]

छलयताम् = छलकारिणाम्
द्यूतम् अस्मि = अक्षक्रीडा अस्मि
तेजस्विनाम् = तेजोवतां तेजः
अहम् = कान्तिः अहम्
जयः अस्मि = विजयः अस्मि
व्यवसायः अस्मि = प्रयत्नः अस्मि
सत्त्ववताम् = सात्त्विकानाम्
सत्त्वम् अहम् = सत्त्वगुणः अहम् ।

अर्थः[सम्पादयतु]

छलकर्तॄणां द्यूतम् अस्मि । तेजोवतां तेजः अहमस्मि । विजेतॄणां विजयः अस्मि । व्यवसायिनां व्यवसायः अस्मि । सात्त्विकानां सत्त्वगुणः अस्मि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=द्यूतं_छलयतामस्मि...&oldid=418610" इत्यस्माद् प्रतिप्राप्तम्