द्राक्षाफलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
हरितं द्राक्षाफलम्
नीललोहितवर्णीयं द्राक्षाफलम्

एतत् द्राक्षाफलम् अपि भारते वर्धमानः फलविशेषः । इयं द्राक्षा अपि सस्यजन्यः आहारपदार्थः । एषा द्राक्षा आङ्ग्लभाषायां Grapes इति उच्यते । एषा द्राक्षा न केवलं भारते अपि तु जगतः सर्वेषु देशेषु उपयुज्यते । “तापसप्रिया” इत्येतत् द्राक्षायाः अपरं नाम । एषा द्राक्षा मुख्यतया द्विधा विभज्यते । शुष्का द्राक्षा, अशुष्का द्राक्षा च इति । अशुष्का द्राक्षा (द्राक्षाफलम्) वर्णानुग्णं पुनः द्विधा विभज्यते – हरितवर्णीया, नीललोहितवर्णीया च इति । अत्र उच्यमाना द्राक्षा तु अशुष्का द्राक्षा एव ।

द्राक्षालता

[सम्पादयतु] आयुर्वेदस्य अनुसारम् अस्याः द्राक्षायाः स्वभावः

एतत् द्राक्षाफलं मधुररसयुक्तम् । द्राक्षाफलम् आम्लयुक्तमधुरं भवति । एतत् द्राक्षाफलं शीतवीर्यम् अपि ।

हरिद्वर्णस्य द्राक्षाफलस्य रसः
द्राक्षासवः
“द्राक्षातिमधुराम्ला च शीता पित्तार्ति दाहजित् ।
मूत्रदोषहरा रुच्या वृष्या सन्तर्पणी पणरा ॥“ (राजकोषे आम्रादिवर्गः)
नीललोहितवर्णीयस्य द्राक्षाफलस्य रसः
लतायां हरिद्वर्णीयं द्राक्षाफलम्
लतायां विद्यमानानि नीललोहितवर्णस्य द्राक्षाफलानि
१. एतत् द्राक्षाफलं शरीरे विद्यमानं पित्तदोषं निवारयति ।
२. एतत् द्राक्षाफलं शरीरे विद्यमानां वेदनां, ज्वलनं वा शमयति ।
शुष्का द्राक्षा
३. एतत् द्राक्षाफलं मूत्रस्य विसर्जनावसरे जायमानां वेदनां, ज्वलनं चापि निवारयति ।
४. एतत् द्राक्षाफलं मुखे रुचिम् उत्पादयति ।
५. एतत् द्राक्षाफलं पौरुषं वर्धयति । शरीरस्य पुष्टिकारकं च ।
६. द्राक्षां, वामनीं, पिप्पलीं, भू-आमलकं च योजयित्वा निर्मितः घृतपाकः कामलारोगं, पित्तजन्यं ज्वरं च शमयति ।
७. शुष्कां द्राक्षां जले योजयित्वा संस्थाप्य अनन्तरं तस्मिन् एव जले तां निष्पीड्य सेवनेन रक्तपित्तम् अपगच्छति । एतत् द्राक्षाजलं हृद्रोगम् अपि निवारयति ।
८. अपक्वा वा अर्धपक्वा वा द्राक्षा गुरुगुणयुक्ता भवति । आम्लत्वस्य आधिक्यस्य कारणतः तादृशी द्राक्षा रक्तपित्तं वर्धयति ।
९. अपक्वा वा अर्धपक्वा वा द्राक्षा बुभुक्षां वर्धयति । पुरुषेषु वीर्यम् अपि वर्धयति ।
१०. पक्वा द्राक्षा पित्तं, दाहं (पिपासाम्)) च निवारयति । मधुररुचियुक्ता भवति । शरीरस्य बलं वर्धयति । मलप्रवृत्तिं, मूत्रप्रवृत्तिं च कारयति ।
११. एषा द्राक्षा मद्यपानेन जातं दोषानुलोमजन्यं मदात्सयं निवारयति ।
१२. द्राक्षां, शर्कराम्, अळलेकायि इत्याख्यं फलं च समप्रमाणेन योजयित्वा चूर्णीकृत्य सज्जीकृता गुलिका “द्राक्षादिगुटिका” इति उच्यते । तस्याः गुलिकायाः सेवनेन श्रान्तिः, कण्ठवेदना, उदरज्वलनं चापि अपगच्छति ।
१३. द्राक्षाम्, आमलकं, खर्जूरम्, मधु, घृतं, दाडिमं, निम्बूकरसं च योजयित्वा सज्जीकृतं द्रवं “पञ्चसारमन्थम्” इति उच्यते । एतत् द्रवम् अग्निमान्द्यरोगिणां परमम् औषधम्
१४. आसवविधिना निर्मितः “द्राक्षासवः” अग्निमान्द्यं, नेत्रस्य सम्बद्धान् रोगान्, शिरसः सम्बद्धान् रोगान् च निवारयति । भोजनस्य अनन्तरं द्राक्षासवः समप्रमाणेन जलेन सह २-४ चमसान् यावत् योजयित्वा पातव्यः । एतत् रसायनम् इव शरीरस्य बलम् अपि वर्धयति ।
१५. द्राक्षां, पिप्पलीपुष्पम्, अतिमधुरं च योजयित्वा निर्मितं यवागूं, तक्रं वा रक्तपित्तरोगे सति दातव्यम् ।
१६. द्राक्षां, पिप्पलीं, शर्करां च योजयित्वा चूर्णीकृत्य सेवनेन कासः अपगच्छति ।
१७. पुराणघृतेन सह द्राक्षायाः पेषणं कृत्वा निर्मितः द्राक्षाघृतः कामलारोगं, रक्तहीनतां, प्रमेहं च निवारयति ।
१८. द्राक्षायाः रसायनं सन्तानकारकम् अपि ।
१९. द्राक्षा तपस्विषु सत्त्वगुणं वर्धयित्वा, मनसः शान्तिं करोति । अतः एव अस्याः अपरं नाम “तापसप्रिया” इति ।
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु