द्रोणाचार्यः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

द्रोणाचार्यः महाभारते उल्लिखितं प्रसिद्धमेकं पात्रमस्ति। पाण्डवकौरवाणाम् शस्त्रविद्याचार्यः असीत् द्रोणाचार्यः ।

सनातनभारते गुरोः महत्त्वम्[सम्पादयतु]

मातृ देवो भव , पितृदेवो भव , आचार्यदेवो भव । इत्येवं मातरं , पितरं , आचार्यश्र्च स्मरन्ति शुभकार्याणामारम्भे । एषा सनातनपरम्परां । " शिक्षकः एव देशस्य मेरूदण्डः । शिक्षकशिक्षणशिक्षार्थिनां मधुरव्यवस्थितक्रमबद्धसम्बन्धः एव देशस्य प्रगत्ये पूरकः " इत्येव वदति स्म डा ॥ सर्वपल्ली राधाकृष्णन् महोदयः । गुकारस्त्वन्धकरः रूकारः तन्त्निवारकः इति उक्तिः । अन्धनिवारकः प्रकाशः । अज्ञाननिवरकं ज्ञानम् । ज्ञानं तु गुरोरेव लभ्यते । गुरुर्ब्रह्म गुरूर्विष्णुः , गुरुर्देवो महेश्र्वरः । गुरुः साक्षात् परब्रह्म तस्मै श्री गुरवे नमः । भारतीयसंस्कृतिः गुरवे अत्युन्नतं स्थानं ददाति ।

अस्माकं पुराणेतिहासपरम्परया अपि गुरोः अत्युन्नतं स्थानं दत्तम् । प्राचीनकाले विध्यादातुः गुरोः कश्र्चन नीतिनियमाः आसन् । गुरूः विध्यां धनार्थं न दधात् । गुरूः विक्रयणादिव्यापारं न कुर्यात् । विध्याभ्यासानन्तरं गुरवे गुरुदक्षिणा दीयते । विशेषतः द्रोणाचार्यः स्वशिष्यात् एकलव्यात् । कौरवपक्षे कदाचित् एकलव्यः तिष्ठेत् इति धिया अर्जुनस्य श्रेयसे द्रोणः एकलव्यस्य दक्षिणाङ्गुष्ठमेव पृष्ट्वा गुरुदक्षिणारूपेण प्राप्तवान् । तस्मिन् काले विध्यादात्रे गुरवे सर्वस्वत्यागं कुर्वन्ति स्म । दुष्टशिक्षणाय लोकहिताय च यत्किमपि कर्तुं गुरोः अधिकारः आसीत् । तथैव गुरवः आचरन्ति स्म ।

द्रोणस्य जन्म[सम्पादयतु]

आधुनिककाले गर्भकोशस्य न्यूनताः सन्ति चेत् प्रनाळशिशुं सम्पदयन्ति । अण्डाणोः वीर्याणोश्र्च मेलनं कृत्वा प्रनाळे सिशुं वर्धयन्ति । एषः आश्र्चर्यदायकः विषयः इति सत्यमेव । एवमेव अकाले प्रसवः भवति चेत् रक्षणविधानेन शिशुं वर्धयन्ति सप्तमे मासे जन्म भवति चेदपि । एतत् तन्त्रमिदनीं प्रसिद्धम् । कौरवाणां जन्मकथा एवमेव विशिष्टा । एकस्मिन् गर्भे षट्पर्यन्तमपि कदचित् शिशवः भवन्ति इति श्रुतम् । परन्तु महाभारते एकस्यां मातरि शतम् पुत्राः एका पुत्री च जाताः इति विशेषः । एवमेव द्रोणस्य कथा अपि अद्भुता । एषः प्रनाळे जन्म जातः अपि द्रोणे जातः । अतः द्रोणः इत्येव नाम ।

एकदा महर्षिः भारध्वाजः गङ्गानदीतीरे तपः आचरति स्म । ऋत्विजः मेलयित्वा अग्निष्टोमयागं कर्तुं सिद्धः । स्नानार्थं नदीं प्रस्थितवान् । तदा घृताचिनाम्नीं अप्सरसं दृष्टवान् । तस्याः रूपातिशयेने स्तम्भीभूतः । सा अपि एतं दृष्ट्वा इष्टवती । तदैव झटिति तस्य दिव्यं तेजः स्खलितम् । तत् द्रोणपात्रे स्थापितवान् । सुकाले ततः तेजोवान् पुंशिशुः उत्पन्नः । द्रोणे जातः इति द्रोण इत्येव नामकरणं कृतम् । तस्य अङ्गिरसांवरः , आचार्यः , भारताचार्यः , भारध्वाजः , भरध्वाजपुत्रः , शोणाश्र्वः , रुक्मरथः , रथयादपः , द्रोणः इति नव नामानि सन्ति ।

बाल्यं यौवनञ्च[सम्पादयतु]

शुक्लपक्षस्य चन्द्र इव कुमारः वर्धमानः अग्निवेषनमकऋषितः विध्यां प्राप्तवान् । द्रोणः पितुः आदेशत् कृपाचार्यस्य अनुजां कृपिम् ऊढवात् । द्रोणाचार्यस्य अश्र्वत्थामा इति नामकः पुत्रः जातः । द्रोणाचार्यः परशुरामतः अस्त्राधिदेवतानां वशीकरणमन्त्रम् अभ्यसितवान् ।

शस्त्रास्त्रविध्यायां द्रोणतुल्यः पण्डितः कोऽपि नासीत् । परन्तु द्रोणः बहु दरिद्रः आसीत् । एतादृशस्थितौ एकदा सहपाठिनः द्रुपदस्य राजगृहं गतवान् । " मम उपरि विध्यासरस्वत्याः अनुग्रहः जातः लक्ष्म्याः अनुग्रहः न जातः । तदर्थमत्रागतः इत्युक्तवान् द्रुपदस्य समीपे । पूर्णसभायां राजा द्रुपदः निर्धनस्य ब्राह्मणस्य सख्यं न इष्टवान् । उक्तवान् च " महाराजस्य मम , निर्धनस्य विप्रस्य भवतः च कः सम्बन्धः ? स्नेहः कथं युज्यते ? इति उपहासपूर्वकम् उक्तवान् । खिन्नः आचार्यः " राजन् , एकस्मिन् दिने , वीरं क्षत्रियंकुमारं शिष्यत्वेन स्वीकृत्य तस्मै मम सर्वां विध्यां दत्वा , निपुणं करोमि । सः भवन्तं रज्वा बद्ध्वा मम पदस्य समीपे पातयिष्यति " इति शपथं कृतवान् । सभास्थानतः कोपेन निर्गतवान् ।

द्रोणस्य शस्त्रविद्याकौशलम्[सम्पादयतु]

एकदा क्रीडाङ्गणे राजकुमाराः कन्दुकेन क्रीडन्ति स्म । कन्दुकं समीपस्ये नष्टे कूपे पतितम् । कन्दुकं कूपतः कथं निष्कासनियम् इति चिन्तनं प्रचलति स्म बालेषु । तदा कृशकायः सञ्चारी ब्राह्मणः द्रोणः दृष्टः । तं राजकुमाराः दृष्टवन्तः । बालानां स्थितिः ब्राह्मणेन ज्ञाता । ब्राह्मणः दर्भमेव बाणं कृत्वा एकस्य पृष्ठतः एकं त्यक्तवान् । एवं कन्दुकतः अन्तिमदर्भपर्यन्तं दर्भश्रृङ्गखला रचिता । ततः दर्भद्वारा कन्दुकमुन्नीय राजकुमारेभ्यः दत्तवान् । राजकुमाराः सन्तुष्टाः ।

एतत् कूपकन्दुकप्रकरणम् आमूलाग्रं ज्ञात्वा भीष्मः वीरकुमारान् पाण्डवान् कौरवान् च धनुर्विध्यां पाठयितुं आचार्यं द्रोणं नियोजितवान् । कुरूकुलसुताः सर्वे द्रोणस्य शिष्याः जाताः । आचार्यस्य द्रोणस्य अत्यन्तप्रियशिष्यः अर्जुनः जातः । अर्जुनः एव अग्रे द्रुपदबद्ध्वा द्रोणस्य पादमूले आनितवान् । एवं द्रोणः स्वशपथं पूरितवान् ।

द्रोणस्य अवसानम्[सम्पादयतु]

पाण्डवाः कौरवाः च द्रोणस्य शिष्य़ाः चेदपि महाभारतयुद्धसमये द्रोणः कौरवपक्षे स्थितवान् अनिवार्यतया । द्रोणाचार्यः युद्धे असंख्य़ातान् पाञ्चालसैनिकान् संहृतवान् युद्धे रुद्रः इव विजृम्भितवान् । तदा कृष्णः उक्तवान् अर्जुनम् " कुरुक्षेत्रे धर्मस्य जयः आवश्यकश्र्चेत् भवतः शस्त्रगुरोः सङ्ग्रामात् विरामः अनिवार्यः। तस्य एकैकः उपायः नाम " अश्र्वत्थामा हतः " इति उच्चैः वक्तव्यम् " इति ।

महाभारतयुद्धसमये कुरुसेनाप्रमुखः द्रोणाचार्यः

युद्धे भीष्मः अश्र्वत्थामनामानं गजं मारितवान् उक्तवान् च अश्र्वत्थामा हतः कुञ्जरः इति परन्तु कुञ्जरशब्दं शनैः उक्तवान् । द्रोणस्तु प्रियपुत्रस्य अश्र्वत्थाम्नः मरणमभवत् इति विचिन्त्य व्याकुलः संवृत्तः । वैराग्यमुत्पन्नम् । शस्त्रं न्यस्तवान् । धृष्टध्युम्नः द्रोणशिरः छिन्नवान् । द्रोणः परंधाम प्राप्तवान् । एवं श्रीकृष्णस्य सूचनानुगुणं सर्वं संवृत्तं विप्रश्रेष्ठस्य जीवितं समाप्तं च॥

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=द्रोणाचार्यः&oldid=282587" इत्यस्माद् पुनः प्राप्तिः