द्रौपदी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
द्रौपदी - राजारविवर्मणः चित्रम्

सनातनधर्मानुसारः प्रातस्स्मरणासु पञ्चकन्यासु अन्यतमा द्रौपदी भवति । भारतस्य सारस्वतलोके द्वे महाकाव्ये विश्वप्रसिद्धे रामायणम्, महाभारतम् चेति । महाभारतेतियास्य प्रधानभूमिकासु एषा द्रौपदी अगच्छति । द्रौपदी नाम द्रुपदस्य अपत्यं स्त्रीः इत्युक्ते दुपदमाहाजस्य पुत्री । अस्याः मूलं नाम कृष्णा इति । पाञ्चालस्य राजकन्या इति पाञ्चाली इत्यपि कथयन्ति । यज्ञमुखात् उद्भूताम् एतां यज्ञसेना, अग्निकन्या इत्यपि सम्बोधयन्ति । द्रौपद्याः विवाहः पञ्चपाण्डवैः सह अभवत्।

[सम्पादयतु] पूर्ववृत्तान्तः

पूर्वं यदा कौरवपाण्डवानां बाल्ये द्रोणाचर्यस्य गुरुकुले शिक्षा प्रचलति स्म । शिक्षायाः प्राप्तेः पश्चात् ते गुरुदक्षिणां दातुम् उद्यताः । द्रोणाचार्यस्य पूर्वसखेन द्रुपदमहाराजेन कृतस्य अवमानस्य स्मरणम् अभवत् । अतः राजकुमारान् आदिशत् गुरुदक्षिणारूपेण पाञ्चालरजं द्रुपदं बन्धिनं कृत्वा मे पुरतः आनयन्तु सा एव मम गुरुदक्षिणा भविष्यति इति । गुरो आदेशं शिरसा धृत्वा शिष्यराजकुमाराः स्व स्वशस्त्राणि गृहीत्वा पाञ्चालदेशं गतवन्तः । द्रोणाचार्यः प्रथमं युद्धावकाशं कौरवेभ्यः दत्तवान् । दुर्योधनादयः द्रुपदसैन्येन परास्ताः अभवन् । पश्चात् पण्डावाः द्रुपदसेनायाम् आक्रमणम् अकुर्वन् । भिमसेनस्य अर्जुनस्य च पराक्रमस्य पुरतः पाञ्चालसेना स्थातुम् अशक्ता अभवत् । अर्युनः अग्रे गत्वा द्रुपदं बन्धिनं कृत्वा द्रोणाचर्यस्य पुरतः समानयत् । द्रुपदः लज्जया अधोमुखः सन् स्वापराधम् अङ्गीकृतवान् । स्वस्य राज्यसर्वस्वं द्रोणाय समर्पितवान् । द्रोणः स्नेहः समानेषु भवति किल अतः अर्धराज्यं ते ददामि अर्धम् अहम् अनुभवानि इति उक्त्वा गङ्गायाः दक्षिण तटस्य राज्यभागं द्रुपदाय समर्पितावान् । द्रोणेन परास्तः द्रुपदः अत्यन्तम् अवमानितः येन केनापि प्रकारेण द्रोणम् अवमानयितुम् उपायं चिन्तितुम् आरभत । तदर्थमटन् कल्याणनगरस्य ब्रह्मणाग्रहारम् आगच्छत् । तत्र याजः उपयाजः इति कर्मकाण्डिनोः ब्राह्मणयोः दर्शनम् अभवत् । तेषां सूचनानुसारं ताभ्याम् एव यज्ञमेकम् अन्वतिष्ठत् । यज्ञेन प्रसन्नः अग्निदेवः कवचकुण्डलयुतं सायुधं सुन्दरं पुत्रम् अनुगृहीतवान् । पश्चात् तस्मात् यज्ञकुण्डात् प्रफुल्लायतक्षी देदीप्यमानवदना, श्यामलवर्णा कन्या उद्गता । तदा कौरवाणां विनाशाय एव अस्याः जन्म अभवत् इति काचित् अशीरवाणि अपि श्रुता । बालकस्य धृष्टद्युम्नः बालिकायाः नाम कृष्णा इति अकुर्वन् ।

[सम्पादयतु] बाह्यसम्पर्कतन्तुः

"http://sa.wikipedia.org/w/index.php?title=द्रौपदी&oldid=193351" इत्यस्माद् उद्धृतम्
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु