द्वन्द्वसमासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


द्वन्द्वसमासः[सम्पादयतु]

प्रायेण उभयपदार्थप्रधानः द्वन्द्वसमासः।
दन्ताश्च ओष्ठौ च दन्तोष्ठम् इत्यत्र समाहारस्य प्राधान्यं वर्तते न तु उभयपदार्थस्य। परं समासस्तु द्वन्द्वः एव। अतः लक्षणे प्रायेण इत्युक्तम्।

भेदाः[सम्पादयतु]

द्वन्द्वसमासः द्विधा –
  1. इतरेतरद्वन्द्वः
  2. समाहारद्वन्द्वश्चेति।

इतरेतरद्वन्द्वसमासः द्विधा[सम्पादयतु]

  1. द्विपदद्वन्द्वसमासः - यथा - ‘रामकृष्णौ’ रामश्च कृष्णश्च इति रामकृष्णौ।
  2. बहुपदद्वन्द्वसमासः - यथा - ‘हरिहरगुरवः’ हरिश्च हरश्च गुरुश्च इति हरिहरगुरवः।

समाहारद्वन्द्वसमासः द्विधा[सम्पादयतु]

  1. समाहारद्वन्द्वः - यथा - ‘संज्ञापरिभाषम्’ संज्ञा च परिभाषा च अनयोः समाहारः इति संज्ञापरिभाषम्।
  2. नित्यसमाहारद्वन्द्वः - यथा - ‘पाणिपादम्’ पाणी च पादौ च एतेषां समाहारः इति पाणिपादम्।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=द्वन्द्वसमासः&oldid=409331" इत्यस्माद् प्रतिप्राप्तम्