द्वितीयपुलिकेशिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

महेन्द्रवर्माणं पल्लवराजं पराजितवान् । पल्लवराजानां राजधानीपर्यन्तं सेनाक्रमणं कृतवान् । सा.श.६४२ वर्षे पल्लवराजः प्रथमः नरसिंहवनां चालुक्यराज्ये आक्रमणम् कृतवान् द्वितीयपुलिकेशीमहाराजं पराणित्य बादामीनगरे स्वाधिकारं स्थापितवान् । अस्मिन् समये एव द्वितीयः पुलिकेशिमहाराजः मृतवान् इति इतिहासज्ञाः अभिप्रायमं प्रकटितवन्तः । द्वितीयः पुलिकेशिमहाराजः चालुक्यवंशीयानां कर्णाटकस्य राजवंशीयानां मध्ये अतीवप्रबलः मान्यः च राजासीत् । कर्णाटकबल इति नाम्ना सेना अनेन स्थापिता । नर्मदानदीतः कावेरीपर्यन्तं बृहद्राज्यम् अनेन प्रशस्तितम् । देशे एव कन्नडप्रदेशस्य कीर्तिं सर्वत्र प्रसारितवान् । महाराजाधिराजः राजपरमेश्वरः इत्यादि नामाभिः एषः प्रसिद्धः आसीत् । चीनादेशस्य यात्रिकः ह्यूयेन्स्त्याङ्गः द्वितीयः पुलिकेशिमहाराजस्य प्रशासनकाले कर्णाटकम् आगतवान् । सः स्वकीये प्रवासकथनग्रन्थे कर्णाटकस्य वैभवं स्पष्टं लिखितवान् । एहोळे प्रदेशे रचिते रवीकीर्तिशिलाभिलेखे द्वितीयपुलिकेशि महाराजस्य विशेषगुणाः अद्वितीयोपलब्धयः वर्णिताः सन्ति । कर्णाटकतः पर्शिशियदेशं द्वितीयः पुलिकेशिलहाराजः स्वराजतानिकान् प्रेषितवान् । एतदपि अतीव कीर्तिप्रदायकं कार्यमासीत् । द्वितीयपुलिकेशिमहाराजस्य मरणानन्तरम् १३ वर्षपर्यन्तम् बादामीचालुक्यराज्यं पल्लवराजानां वशे आसीत् ।

उत्तराधिकारी[सम्पादयतु]

द्वितीयपुलिकेशिमहाराजस्य तृतीयः पुत्रः प्रथमः विक्रमादित्यः सा.श.६५५ तमे सिंहासनारूढः अभवत् एषः चालुक्यराज्यं पल्लवराजेभ्यः मुक्तं कृतवान् । पल्लवराजाभिः सततं युद्धरतः प्रथमविक्रमादित्यः सा.श.६७० वर्षसमये पल्लवराजान् सम्पूर्णतया पराजित्य पुनः दक्षिणभारते चालुक्यसाम्राज्यं प्रबलं कृतवान् । एषः युद्धे जितेषु राज्येषु लुण्ठनापेक्षया गौरवेणैव कार्यरतः अभवत् । पल्लवराजानां राज्येऽपि देवालयमठादीनां निर्माणार्थम् उदारतया दानं कृतवान् । चालुक्यानां साम्राज्यस्य पुनरस्थापकः प्रथमः विक्रमादित्यः सा.श. ६८१ वर्षे दिवङ्गतः । प्रथमविक्रमादित्यस्य मरणानन्तरं तस्य पुत्रः विनयादित्यः सा.श.६८१ तः ६९६ पर्यन्तं प्रशासकः अभवत् । अनन्तरम् विनयादित्यस्य पुत्रः विजयादित्यः सा.श. ६९६ तः ७३३ वर्षपर्यन्तं प्रशासनं कृतवान् । विनयादित्यः विजयादित्यःचालुक्यसाम्राज्यस्य संरक्षणं कृतवन्तौ । पल्लवराजाः एतयोः अधीनराजानः अभवन् । विजयादित्यस्य द्वितीयः पुत्रः द्वितीयविक्रमादित्यः सिन्धसौराष्ट्रप्रदेशान् अपि वशीकृतवान् । गुजरातप्रदेशे आक्रमणकर्तुम् आगतानाम् अरब्बीयजनान् पराजेतुं गुजरातप्रशासकानां साहाय्यं कृतवान् । अवनिजाश्रयः गुजरातप्रदेशे राजा आसीत् । पल्लवराजाः एतत्समये स्वतन्त्राः भवितुं प्रयत्नं कृतवन्तः । तदा पुनरेकवारं काञ्चिनगरे आक्रमणं कृत्वा द्वितीयविक्रमादित्यः पल्लवराजान् पराजित्य स्वाधिकारम् प्रतिष्ठापितवान् । द्वितीयः विक्रमादित्यः चालुक्यवंशे प्रबलः प्रसिद्धः च राजासीत् । अस्य प्रशासनानन्तरं चालुक्यसाम्राज्यं राष्ट्रकूटवंशीयानां वशे गतम् । कर्णाटकेतिहासे चालुक्यराजवंशीयानां प्रशासनकालः सांस्कृतिकराजनैतिकविषयेषु च अतीव महत्वपूर्णः समयः इति तु सर्वविदितम् अस्ति ।

साम्राज्यविस्तातरः[सम्पादयतु]

कावेरीनदीपर्यन्तम् विशालम् साम्राज्यम् चाळुक्यवंशीयैः प्रशासितम् अभवम् । कन्नडभाषिकान जनान एकीकृत्य कर्णाटक राज्यनिर्माणम् एतैः कृतमेतत् अतीव महत्वपूर्णम् कार्यम् आसीत् । कर्णाटकप्रदेशे तदा तदा आक्रमणशीलानां पल्लवराजानां पराजयदर्शनम् अनेकवारं चालुक्यराजैः कारितम् अभवत् । पल्लवराजाः चालुक्यराजानाम् अधीनराजाः अभवन् इति तु विशेषविचारः । कलासाहित्यादिषु क्षेत्रेषु चालुक्यवंशीयानां महत्वपूर्णं कार्यं श्लाघ्यं चास्ति । एते सततम् युद्धरताः आसन् तथापि कलादीनां विषये सदा प्रोत्साहयन्ति स्म । पट्टदकल्लु ऐहोळे महाकूटः इत्यादिषु क्षेत्रेषु प्रसिद्धानि कलाकेन्द्राणि स्थापितानि आसन् । अनेके देवालयाः अधुनापि आकर्षकाः सन्ति । बादामीनगरे हिन्दुजैनबौद्धानां गुहान्तरदेवालयाः निर्मिताः सन्ति । सर्वधर्माणां राजाश्रयः आसीत् । संस्कृतकन्नडभाषयोः प्रोत्साहनं दत्तमासीत् । उभयभाषयोः निर्मितानि शासनानि चालुक्यानाम् उभयभाषाप्रोत्साहनस्य प्रमाणानि सन्ति । चालुक्यवंशीयानां प्रशासनकाले केषाञ्चन संस्कृतभाषायाः कृतीनमुल्लेखः अस्ति । किन्तु कृतयः न लभ्यन्ते । कन्नडकृतीनां कृतीनामपि आधारः न लभ्यते । बादामीचालुक्यवंशीयानां कर्णाटके साम्राज्यं विनष्टमभवत् । तथापि गुजरातराज्ये आन्ध्रप्रदेशराज्ये इत्यादिषु स्थलेषु अधीनाराजानः प्रशासनम् अग्रिमशतमानेऽपि कृतवन्तः वेङ्गिचालुक्याः आन्ध्रप्रदेशराज्ये बहुभागे प्रशासकाः अभवन् इति तु सन्दर्भिकः आधारः भवति ।

"http://sa.wikipedia.org/w/index.php?title=द्वितीयपुलिकेशिः&oldid=233211" इत्यस्माद् पुनः प्राप्तिः