धनलक्ष्मीपूजा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

एतदपि कार्त्तीकमासे आचर्यमाणस्य दीपावलीपर्वणः अङ्गभूतं पर्व अस्ति । यद्यपि धनलक्ष्मीपूजा सर्वैरपि आचर्यते तथापि विशेषतया वैश्यपर्व इति उच्यते । एतदवसरे धनदेवताया: महालक्ष्म्या:, धनाध्यक्षस्य कुबेरस्य च पूजां कुर्वन्ति ।

पूजनीया तथा लक्ष्मीर्विज्ञेया सुखसुप्तिका ।
सुखरायां प्रदोषे तु कुबेरं पूजयन्ति हि ॥
लक्ष्मीदेव्याः लोहपुत्तली
राजारविवर्मणा लिखिता लक्ष्मीदेवी

एतत् केवलं धनसम्बद्धं पर्व न । अत्र महालक्ष्मी: केवलं धनदेवता न । श्रेयस: सर्वाणि अपि रूपाणि लक्ष्मीस्वरूपाणि एव । सा धर्मलक्ष्मी: मोक्षलक्ष्मी: अपि । वैश्या: तद्दिने लक्ष्मीपूजां कृत्वा नूतनगणनाया: आरम्भं कुर्वन्ति । तमिळुनाडुराज्ये चतुर्दशीदिनं दीपावली इति, कर्णातके चतुर्दशी-प्रतिपत् च दिनद्वयं दीपावली इति वदन्ति ।

अमावास्यायाम् प्रात:काले अभ्यङ्गस्नानं कृत्वा लक्ष्मीपूजां कुर्वन्ति । ल्क्ष्म्या: पूजनेन दारिद्य्रं दौर्भाग्यं च नश्यति इति । अभ्यङ्गस्नानस्य जले उदुम्बर-अश्वत्थ-आम्र-वट-प्लक्षवृक्षाणां त्वगपि योजयन्ति । स्नानानन्तरं महिला: पुरुषाणाम् आरतिं कुर्वन्ति । नरकासुरेण बन्धने स्थापिता: १६ सहस्रं कन्या: बन्धमुक्ता: सन्त्य: कृतज्ञतासमर्पणरूपेण कृष्णस्य आरतिं कृतवत्य: आसन् एतद्दिने । देवपूजया सह पितृपूजाम् अपि कुर्वन्ति । तद्दिने गृहे सर्वत्र दीपान् ज्वालयन्ति । नृत्य-गीत-वाद्यै: सन्तोषम् अनुभवन्ति । नूतनानि वस्त्राभरणानि धरन्ति । रात्रौ जागरणं कुर्वन्ति । तद्दिने अलक्ष्मी: निद्रारूपेण आगच्छति इति भेरिपणवानकै: महाशब्दं कुर्वन्ति निद्रानिवारणाय । अस्मिन् दिने वणिज: गणनापुस्तकस्य पूजां कृत्वा ग्राहकेभ्य: मधुरभक्ष्याणि ताम्बूलं च वितरन्ति । लक्ष्म्या सह धनाध्यक्षं कुबेरम् अपि पूजयन्ति ।

"https://sa.wikipedia.org/w/index.php?title=धनलक्ष्मीपूजा&oldid=437179" इत्यस्माद् प्रतिप्राप्तम्