धर्मस्थलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
धर्मस्थलम्
मञ्जुनाथेश्वरक्षेत्रम्
—  पत्तनम्  —
मञ्जुनाथेश्वरदेवालयः
Coordinates: 12°57′36″N 75°22′42″E / 12.9601200°N 75.3783600°E / 12.9601200; 75.3783600
देशः  भारतम्
राज्यम् कर्णाटकम्
मण्डलम् दक्षिणकन्नडमण्डलम्
भारतीय सामान्यकालमानम् (UTC+5:30)
समीपस्थितम् नगरम् बेल्तान्गडि
जालस्थानम् www.shridharmasthala.org


धर्मस्थलं (Dharmasthala) कर्णाटकराज्ये विद्यमानं किञ्चन प्रसिद्धं तीर्थक्षेत्रम् । कर्णाटकस्य दक्षिणकन्नडमण्डलस्य प्रसिद्धेषु त्रिषु स्थलेषु अन्यतमं मुख्यं क्षेत्रम् अस्ति नेत्रावतीनदीतीरे स्थितम् इदं क्षेत्रम् । श्रीमञ्जुनाथस्वामिदेवालयः सोदे वादिराजस्वामिनः काले निर्मितः इति इतिहासेन ज्ञातुं शक्यम् । अधुनापि श्रीमञ्जुनाथस्वामिनः पूजा माध्वमतार्चकैः क्रियते । किन्तु अस्य क्षेत्रस्य व्यवस्थापकाः हेग्गडेवंशीयाः जैनजनाः इति तु विशेषः। श्रीमञ्जुनाथेश्वरस्य सन्निधाने विष्णुप्रतीकभूतः नरसिंहशालिग्रामः अस्ति । प्रतिदिनम् अन्नदानं विद्यादानम् औषधदानं च अत्र प्रचलति । सहस्रशः यात्रिकाः प्रतिदिनम् अत्र दर्शनाय आगच्छन्ति ।

मञ्जूषा वस्तुसङ्ग्रहालयः[सम्पादयतु]

धर्मस्थलक्षेत्रं भारतदेशे एव प्रसिद्धम् अस्ति । अत्र आराध्यः श्रीमञ्जुनाथेश्वरः । लघुपर्वते अण्णप्पास्वामीदेवालयः अस्ति । अन्यस्मिन् पर्वतशिखरे भगवतः बाहुबलेः मूर्तिः स्थापिता अस्ति । पर्वतारोहणाय सोपानानि निर्मितानि सन्ति । धर्मस्थलक्षेत्रे यात्रिकाणां वसतिभोजनव्यवस्थाः कल्पिताः । अत्र दर्शनीयं विशिष्टं स्थानं नाम मञ्जूषावस्तुसङ्ग्रहालयः । सर्वे अवश्यं पश्यन्ति एतत् । अस्य सङ्ग्रहालयस्य निर्माणे धर्मदर्शी श्री वीरेन्द्र हेग्गडेमहोदयः एव स्फूर्तिमान् । अत्र अतिविशिष्टानि वस्तूनि सन्ति । सुव्यवस्थितः सङ्ग्रहालयः एषः देवालयसमीपे अस्ति ।

पूर्वदेशीयानि पश्चिमदेशीयानि इतिहाससम्बद्धानि वस्तूनि अत्र सन्ति । टेरि टेल्ला अर्थोसेरास् अस्थीनि (४०० मिलियन् वर्षपुरातनम् ), जैनतीर्थङ्कराणां विग्रहाः हस्तिदन्ते चित्रितानि वस्तूनि, लोहवस्तूनि, मोहञ्जोदारोप्रदेशीयाः अलङ्कारसामग्र्यः, विविधानि नाणकानि मोगलमौर्यग्रीकविजयनगरवंशीयानां प्रशासनकालीनानि वस्तूनि सम्यक् प्रदर्शितानि सन्ति ।

विविधानाम् आयुधानां सङ्ग्रहः अत्र अस्ति । विशिष्टानि घटीयन्त्राणि, सङ्गीतवाद्यानि यथा स्याक्सोफोन्, स्प्यानिष् गिटार, प्राचीनम-मैक्रोफोन्, टेलिफोन्, टेलिग्राफयन्त्रम् इत्यादीनि अपूर्वाणि वस्तूनि सन्ति । विशेषतः वस्तुसङ्ग्रहालयस्य दर्शनेन इतिहासज्ञानस्य स्मरणं भवति । प्रातःकाले ९ वादनतः सायं षड्वादनपर्यन्तम् अत्र प्रवेशः अनुमतः । धर्मस्थलगमनाय राज्ये सर्वनगरेभ्यः अपि वाहनव्यवस्था अस्ति ।

धर्मस्थलप्रदेशे कार्तिकमासे लक्षदीपोत्सवः प्रचलति । प्रतिवर्षं धर्मसम्मेलनम् अपि प्रचलति । समीपे (२ कि.मी) नेत्रावतीनदी अस्ति । सुन्दरम् उद्यानवनम् अस्ति ।

गोमटेश्वरस्य एकशिलाप्रतिमा

देवालयव्यवस्थापकैः आवास-भोजन-दर्शन-पूजादिव्यवस्थाः कल्पिताः सन्ति । एकत्र धनधान्यव्यवहारः, यात्रिकाणाम् आगमनम् साहित्य-सङ्गीतनृत्योत्सवाः, कायकसेवा, दानम् इत्यादिभिः कारणैः‘अभिनवतिरुपति’, इति धर्मस्थलस्य नाम आगतम् अस्ति । कार्तिकमासे लक्षदीपोत्सवः वैभवेन प्रचलति । तदा लक्षाधिकजनाः अत्र आगच्छन्ति ।

धर्मस्थळक्षेत्रस्य रक्षकः अण्णप्पस्वामी लघुपर्वतप्रदेशे स्थितः अस्ति । रत्नगिरिपर्वते गोमटेश्वरस्य मूर्तिः (१९७३) प्रतिष्ठापिता अस्ति । मञ्जूषाकार्-यानसंग्रहालयः, मत्स्यागारः नेत्रावतीनद्यां स्नानम् इतरविशेषाः । सर्वधर्मसम्मेलनं सामूहिकविवाहसमारम्भाः अत्र प्रचलन्ति ।

मार्गः[सम्पादयतु]

धूमशकटमार्गः[सम्पादयतु]

मङ्गळूरुनिस्थानतः ७५ कि.मी ।

वाहनमार्गः[सम्पादयतु]

मङ्गळूरुतः ७५ कि.मी । बेङ्गळूरुतः ३८० कि.मी

विमानमार्गः[सम्पादयतु]

मङ्गळूरुविमाननिस्थानकं (७५ कि.मी ) समीपे अस्ति ।

बाह्यानुबन्धाः[सम्पादयतु]



"http://sa.wikipedia.org/w/index.php?title=धर्मस्थलम्&oldid=270195" इत्यस्माद् पुनः प्राप्तिः