कुस्तुम्बरीपर्णम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(धान्याकपत्रम् इत्यस्मात् पुनर्निर्दिष्टम्)
कुस्तुम्बरीपर्णम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Apiales
कुलम् Apiaceae
वंशः Apium
जातिः A. graveolens
विविधता dulce
(Mill.) Pers.
पर्यायपदानि
  • Apium dulce Mill.
  • Apium graveolens subsp. dulce (Mill.) Schübl. & G. Martens
धान्याकपत्रम्

इदं धान्याकपत्रम् अपि भारते वर्धमानं किञ्चित् पत्रविशेषम् । इदं धान्याकपत्रम् अपि सस्यजन्यः आहारपदार्थः एव । यतः एतत् किञ्चित् सस्यम् एव । इदं धान्याकम् आङ्ग्लभाषायां Coriander इति उच्यते । अस्य धान्याकस्य सस्यशास्त्रीयं नाम अस्ति Coriandrum Saticiam इति । अस्य धान्याकपत्रस्य आङ्ग्लनाम अस्ति Celery इति । अस्य धान्याकस्य धान्यकं, धान्यका, धान्यं, धानी, धानेयकः, कुस्तुम्बरुः, अल्रका, छत्रधान्यं, वितन्नकं, कुस्तुम्बरी, सुगन्धी, शाकयोग्यं, सूक्ष्मपत्रं, जनप्रियं, धान्यबीजं, बीजधान्यं, वेधकम् इत्यादीनि अन्यानि अपि नामानि सन्ति । एतत् धान्याकम् अपि भारते सर्वस्य अपि गृहस्य पाकशालायां भवति एव । एतत् यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्य सस्यस्य पत्रं, पुष्पं, काण्डं, मूलं तथा शलाटुः च उपयुज्यते ।

आयुर्वेदस्य अनुसारम् अस्य धान्याकपत्रस्य स्वभावः[सम्पादयतु]

धान्याकपुष्पम्

एतत् धान्याकं यदा अशुष्कं भवति तदा मधुरं, सुगन्धयुक्तं हृद्यं च भवति । यदा शुष्कं भवति तदा कषायं, तिक्तमधुरं च भवति । एतत् धान्याकं स्निग्धं, शीतवीर्यं च ।


“आर्द्रा कुस्तुम्बरुः कुर्यात्स्वादुः सौगन्ध्यहृद्यताम् ।
सा शुष्का मधुरा पाके स्निग्धा तृट्दाहनाशिनी ॥
धान्यकं कासतृट्छर्दिर्ज्वरह्रुच्चक्षुषो हितम् ।
कषायं तिक्तमधुरं हृद्यं रोचनदीपनम् ॥“ (धन्वन्तरिकोषः)
धान्याकसस्यस्य मूलम्
१. इन्द्रलुप्तरोगे (शिरसि निर्दिष्टे कस्मिंश्चित् स्थाने केवलं केशानां विगलनम्) तस्मिन् स्थाने धान्याकपत्रस्य सम्यक् लेपनेन केशाः वर्धन्ते ।
२. एतत् धान्याकपत्रं मधुना सह सेवन्ते चेत् अयसः अंशस्य न्यूनत्वेन जायमाना रक्तहीनता अपगच्छति ।
३. एतत् धान्याकपत्रं मलप्रवृत्तिं कारयति ।
४. अभिष्यन्दरोगे अपि अस्य धान्याकस्य रसं कषायं च उपयुज्यते । (कोळिकण्णुरोगः इति उच्यते कन्नडभाषायाम्, आङ्ग्लभाषायां Red eyes इति उच्यते ।)
५. एतत् धान्याकं शिरोवेदनां, सर्पसुत्तुरोगं च निवारयति ।
६. धान्याकं मुखे जातान् पिटकान् शमयति । अस्य् रसं मुखे संस्थाप्य निष्ठीवनं करणीयम् ।
७. नासिकातः रक्तं स्रवति चेत् अस्य धान्याकस्य रसं नासिकायां स्थापयन्ति ।
८. नेत्रं रक्तवर्णीयं जातं चेत् अपि धान्याकस्य कषायं नेत्रे स्थापयन्ति ।
९. मस्तिष्कसम्बद्धेषु रोगेषु धान्याकस्य त्वक् निष्कास्य क्षीरं योजयित्वा कषायं निर्माय दीयते । अस्य कषायस्य सेवनेन शिरोभ्रमणं, मूर्छारोगः, विस्मरणशीलता च न्यूना भवति ।
आहारे उपयुक्तं धान्याकपत्रम्
१०. अस्य धान्याकस्य कषायम् अरुचौ, वमने, अजीर्णे, अतिसारे, उदरबाधायां, कृमिरोगे च दातुं शक्यते ।
११. धान्याकस्य शीतकषायं ज्वरावसरे जायमानस्य तृष्णायाः, दाहस्य वा शान्त्यर्थं दीयते ।
१२. शिरोवेदनायां धान्याकस्य बीजस्य लेपनम् अपि क्रियते ।
१३. रक्तसहिते अर्शिस्-रोगे अस्य धान्याकस्य कषायं यच्छन्ति ।
१४. बहुकालपः पीड्यमाने पीनसे धान्याकम् उष्णजले योजयित्वा पातुं शक्यते ।
१५. धान्याकस्य शीतकषायं खण्डशर्करया सह प्रातःकाले पिबन्ति चेत् अन्तर्दाहः निवारितः भवति ।
१६. धान्याकं शुण्ठी च योजयित्वा निर्मितं कषायम् अजीर्णम् उदरबाधां च निवारयति ।
१७. बालाः अधिकं कासन्ते चेत्, बालानाम् अस्तमायां च तण्डुलस्य प्राक्षालनजलं, धान्याकस्य चूर्णं, शर्करां च योजयित्वा दातुं शक्यते ।
१८. एतत् धान्याकं त्रिदोषहरम् ।
१९. धान्याकं हृदयस्य नेत्रस्य च हितकरम् ।
२०. एतत् धान्याकं मूत्रलम्, दीपनम्, अवृष्यं, ज्वरघ्नि, रोचकं, च अस्ति ।
२१. धान्याकं काश्यकं, ज्वलनं, शरीरस्य शुष्कत्वं च निवारयति ।
२२. एतत् धान्याकं कफं पित्तं च नाशयति ।
२३. अस्य धान्याकस्य उल्लेखः भावप्रकाशे, राजकोषे अपि कृतः अस्ति ।
२४. अस्य धान्याकस्य अधिकसेवनेन शुक्रधातु क्षीयते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुस्तुम्बरीपर्णम्&oldid=480151" इत्यस्माद् प्रतिप्राप्तम्