धारवाडमण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
धारवाडमण्डलम्
Seal of Karnataka.png
Karnataka Coat-of-arms
राज्यम् कर्णाटकराज्यम्
विभागः बेलगाविमण्डलम्
उपमण्डलानि धारवाड, हुब्लि, कल्घट्गि, नवलागुन्द, कुन्दगोल
मण्डलस्य केन्द्रम् धारवाडनगरम्
District Commissioner समीर शुक्ला
विस्तीर्णता 4265 km²
जनसंख्या (2011) 1,846,993
संज्ञाः
  • दूरवाणि
  • वाहनपञ्जीकरण

+0836
KA-25
कालमानम् भारतीयसामन्यकालमानम् (UTC+5.30)
कर्णाटके धारवाडमण्डलम्

धारवाड उत्तरकर्णाटकस्य प्रसिद्धं शैक्षणिकमण्डलम् अस्ति । हुब्बळ्ळी धरवाडः च यमलनगरे इति प्रसिद्धे । धारवाडमण्डलं पूर्वं मुम्बईराज्यस्य अधीने आसीत् ।

उपमण्डलानि -५[सम्पादयतु]

धारवाड, नवलगुन्द, बङ्कापुर आण्णिगेरि

धारवाडनगर(०८३६)[सम्पादयतु]

धारवाडनगरे अनेक मन्दिराणि सन्ति । प्राणदेवः, लक्ष्मीनारायण, हरीमन्दिरम्, इस्कान्, विठलमन्दिरम् । ६ कि.मी दूरे सोमेश्वरमन्दिरं मुरुघामठः आम्मिनभाविस्थित पार्श्वनाथयबसदि अमरगोळ शङ्करालिङ्गदेवालयः दर्शनीयाः विशेषाः। कवि दत्तात्रयरामचन्द्रबेन्द्रे, डा मल्लिकार्जुनमन्सूरः सङ्गीतसम्राट् आलूरुवेङ्कटरायः श्रीमती गङ्गूबायी हानगल सङ्गीतविदुषी इत्यादीनां जन्मभूमिः धारवाडमण्डलम् अस्ति । कर्णाटकस्य प्रथमः विश्वविद्यालयः कर्णाटकविश्वविद्यालयः अपि अत्रैव कार्यरतः अस्ति ।

मार्ग: -बेङ्गळूरुतः ४८६ कि.मी
बेळगावीतः ७६ कि.मी । बळ्ळारीतः २१९ कि.मी। हुब्बळ्ळी-बेळगावी रेलमार्गे धारवाडनिस्थानम् अस्ति ।

हुब्बळ्ळी[सम्पादयतु]

प्रसिद्धः श्री सिद्धरूढस्वामिमठः मूरुसाविरमठः, मुरुघामठः, नृपतुङ्गबेट्ट, श्रीसाईबाबामन्दिरं, केदारलिङ्गज्योतिनां मन्दिरं, वरुरुप्रदेशे (१६ कि.मी) जैनानां नवग्रहतीर्थक्षेत्रं, भवानीशङ्करदेवालयः (२९ कि.मी दूरे ) दर्शनीयानि सन्ति । शिवरात्रिसमये सिद्धारुढ्मठे उत्सवः प्रचलति । अत्र श्री सिद्धारूढस्वामिनः स्मारकम् अस्ति । हुब्बळ्ळीतः ३५ कि.मी दूरे अण्णिगेरे स्थले श्री अमृतेश्वरदेवालयः अस्ति । शिलादेवालये ७६ स्तम्भाः सन्ति । प्राकारे देवानां पौराणिकविषयानां च चित्रणम् अस्ति । होय्सल-चालुक्य-विजयनगर-आदिलषाहीशासनम् अत्र आसीत् ।

विस्तीर्णता[सम्पादयतु]

  • ४२३० च.कि.मी. मिता।

उपमण्डलानि-५[सम्पादयतु]

धारवाडः, हुब्बळ्ळी, कुन्दगोळ, नवलगुन्द, कलघटगि इति पञ्च उपमण्डलानि अस्मिन् मण्डले अन्तर्गच्छन्ति ।

इतिहासः[सम्पादयतु]

द्वादशशतकपर्यन्तं धारवाडमण्डलं चालुक्यसाम्राज्यस्य भागः एव आसीत् । तदनन्तरं विजयनगरसाम्राज्यस्य प्रधानकेन्द्रम् अभवत् । विजयनगरसाम्राज्यस्य पतनानन्तरं बिजापुरसुल्तानस्य आदिल्शाहीहस्तगतम् । एषः अत्र मण्णकिल्ले (किल्ले=दुर्गम्) इति दुर्गं निर्मितवान् । तस्य काले अस्य नगरस्य नजरताबाद् इति नाम आसीत् । आदिलशाहीसुल्तानस्य अनन्तरं कञ्चित्कालं एतत् मण्डलं मुघल्साम्राज्यस्य अधीनम् आसीत् । आनन्तरं क्रमशः मराठाराजाः हैदराली, टिप्पू सुल्तान् आङ्ग्लाः च शासनं कृतवन्तः । स्वातन्त्र्योत्तरं यदा धारवाडप्रदेशः मुम्बयीसर्वकारस्य प्रशासने आसीत् तदा कर्णाटकस्य एकीकरणान्दोलने अस्य प्रधानं पात्रम् आसीत् ।

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

कर्णाटकस्य कलाक्षेत्रे अत्र सञ्जातानां योगदानं महत् वर्तते । अनेके सङ्गीतज्ञाः, कलाविदः, कवयः अत्रैव उद्भूताः । मुरुघामठस्य लिङ्गैक्यः मृत्युञ्जयस्वामी अत्रत्यः । अस्मिन् मठे स्थित्वा विद्याभ्यासं कृत्वा नैके गण्याः राज्यं देशं च कीर्तिपथे नीतवन्तः ।

सङ्गीतविद्वांसः कलाविदः च[सम्पादयतु]

पण्डितः भीमसेन जोशी , पण्डितः मल्लिकार्जुनमन्सूरः, पण्डितः बसवराजराजगुरुः , श्रीमती गङ्गूबायी हानगल्, कुमारगन्धर्वः, कैवल्यगुडि, माधवगुडि, प्रवीणगोड्किण्डि, श्रीमती गीताजावडेकर्, सुरेशहेब्ळीकर्, श्रीमती दामिनी, लीनाचन्दावर्कर, श्रीमती ममताकुलकर्णी, कुञ्चब्रह्माहालभावि, यशवन्त सर्देशपाण्डे, अविनाशकामत्, एम्.आर्.बालिकायि, सि.डि. जेट्टण्णनवर्, शेखर् बल्लारि, सतीश पूजारि, विजयलक्ष्मी यावगल् इत्यादयः अत्रैव सञ्जाय प्रसिद्धाः अभवन् ।

कवयः लेखकाः च[सम्पादयतु]

डा. द रा बेन्द्रे, श्री वि.कृ.गोकाक, श्री बेटगेरी कृष्णशर्मा, श्री आलूरु वेङ्कटरायः, श्री आर्.सि.हिरेमठ, श्री उत्तङ्गि चन्नप्प, श्री एम्.एम्.कल्बुर्गि, श्री कीर्तिनाथ कुर्तकोटि, श्री गिरीशकार्नाडः, श्री जि.बि.जोशी, श्री पा.वें.आचार्यः, श्री बसवराजकट्टिमनि, श्रीमती मन्दाकिनी पुरोहित, श्री राजशेखर भूसनूरुमठ, श्रीमती वीणा शान्तेश्वरः, श्रीमती शान्तादेवी माळवाड, श्री श्रीरङ्गः श्री श्री [[शं.बा.जोशी, श्रीमती सरोजिनी महिषी, श्री सुदर्शनदेसायी, श्रीमती हेमा पट्टणशेट्टी इत्यादयः प्रसिद्धाः लेखकाः कवयः च अत्रैव सञ्जन्य मण्डलं प्रसिद्धम् अकुर्वन् ।

काश्चन ऐतिहासिकाः घटनाः[सम्पादयतु]

क्रि.श. १८२४ धारवाडमण्डलस्य आङ्गकलेक्टर् थ्याकरे कित्तूरुचेन्नम्मया हतः ।
क्रि.श.१८२६ तमे वर्षे - प्रथमा मरठीशाला अरब्धा ।
क्रि.श.१८३१ तमे वर्षे प्रथमकन्नडपाठशाला आरव्धा ।
क्रि.श. १८२६ तमे वर्षे - बासेल् मिशन् आगमनम् ।
क्रि.श. १८४४ तमे वर्षे - मानसिकारोग्यकेन्द्रस्य संस्थापनम् ।
क्रि.श. १८४८ तमे वर्षे - सर्वकारीयस्य आङ्ग्लशालायाः संस्थापनम् ।
क्रि.श.१८४९ तमे वर्षे– श्रीगुरुनाथराव् पाठकेन प्रथमसंस्कृतपाठशालायाः आरम्भः ।
क्रि.श. १८५६ तमे वर्षे नगरपालिका ऐदम्प्राथम्येन आरब्धा ।
क्रि.श.१८९२ तमे वर्षे परिव्राजकस्य स्वामी विवेकानन्दस्य सन्दर्शनम् ।
क्रि.श. १९०७ तमे वर्षे लोकमान्यबालगङ्गाधरतिलकमहोदयेन सार्वजनिकभाषणम् ।
क्रि.श. १९१४ तमे वर्षे – कर्णाटाकप्राच्यसंशोधनकेन्द्रस्य आरम्भः ।
क्रि.श. १९१७ तमे वर्षे कर्णाटककालेज् शुभारम्भः ।
क्रि.श. १९२० – महात्मागन्धिमहोदयस्य सन्दर्शनम् ।
क्रि.श.१९२७ तमे वर्षे आङ्ग्लानां सैमन् कमिशन् विरुद्धम् अन्दोलनम् आरब्धम् ।
क्रि.श.१९२९ तमे वर्षे – सुभासचन्द्रबोसस्य सन्दर्शनम् ।
क्रि.श. १९४० तमे वर्षे – विनायकदामोदरसावरकर स्य सन्दर्शनम् ।
क्रि.श. १९४२ तमे वर्षे चलेजाव् आन्दोलनस्य अङ्गतया मण्डलकार्यालयस्योपरि त्रिवर्णध्वाजारोहणम् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=धारवाडमण्डलम्&oldid=240400" इत्यस्माद् पुनः प्राप्तिः