धुळेमण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
धुळेमण्डलम्
Dhule District
धुळे जिल्हा
—  मण्डलम्  —
'महाराष्ट्रराज्ये धुळेमण्डलम्
देशः  India
जिल्हा धुळेमण्डलम्
उपमण्डलानि १ धुळे उपविभाग: - धुळे, साक्री २ शिरपुर उपविभाग: - शिरपूर, सिन्दखेडा
विस्तारः ८,०६३च.कि.मी.
जनसङ्ख्या(२०११) २०,४८,७८१
सर्वकारः
 • मण्डलसङ्गाहकः
(District Collector)
भारतीयमानसमयः(IST) (UTC+५:३०)
जालस्थानम् http://dhule.nic.in

धुळेमण्डलं (मराठी: धुळे जिल्हा, आङ्ग्ल: Dhule Districtआङ्ग्लः) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं धुळे इत्येतन्नगरम् । महाराष्ट्रराज्यस्य उत्तरदिशि मण्डलमिदं विद्यते । महाराष्ट्रराज्यस्य 'खान्देश'विभागे स्थितेषु मण्डलेषु अन्यतमम् इदं मण्डलम् ।

महामार्गः

भौगोलिकम्[सम्पादयतु]

धुळेमण्डलस्य विस्तारः ८,०६३ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य वायव्यदिशि नन्दुरबारमण्डलं, दक्षिणदिशि नाशिकमण्डलं, पूर्वदिशि जळगावमण्डलम्, उत्तरदिशि मध्यप्रदेशराज्यम् अस्ति । मण्डलेऽस्मिन् तापी, पाञ्झरा, अरुणावती, कान, आरु इत्येताः प्रमुखनद्यः प्रवहन्ति । मण्डलेऽस्मिन् सामान्यतः उष्ण-शुष्कवातावरणं भवति । मण्डलेऽस्मिन् ५९२ मिल्लिमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या[सम्पादयतु]

धुळेमण्डलस्य जनसङ्ख्या(२०११) २०,४८,७८१ अस्ति । अत्र १०,५५,६६९ पुरुषाः ९,९२,११२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे २१० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २१० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९।९६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४१ अस्ति । अत्र साक्षरता ७४.६१% अस्ति ।

ऐतिहासिकं किञ्चित्[सम्पादयतु]

जोर्वे, नेवासे, दायमाबाद्, बहाळ, प्रकाश इत्येतेषु स्थानेषु जातेभ्यः उत्खननेभ्यः ज्ञायते यत् अस्मिन् परिसरे 'ताम्र-पाषाण'कालतः मानवाः निवासं कुर्वन्तः सन्ति । मण्डलेऽस्मिन् सातवाहन-शुङ्ग-आभीर-वाकाटक-राष्ट्र्कूट-यादव-मराठाराजानाम् आधिपत्यमासीत् । १८५७ तमे वर्षे जाते 'स्वातन्त्र्यसङ्रामे' अत्रस्थाः जनाः भागम् ऊढवन्तः ।

कृषिः उद्यमश्च[सम्पादयतु]

यवनालः(ज्वारी), 'बाजरी', तण्डुलः, गोधूमः, किणः(corn), 'तूर', चणकः, द्विदलसस्यानि, कलायः, तिलः, तैलबीजानि, कार्पासः, मरीचिका इत्येतानि मण्डलस्य अस्य प्रमुखसस्योत्पादनानि । कृषिसम्बद्धकार्याणि एव जनानां प्रमुखोपजीविकां कल्पयन्ति । तथापि पशुपालनव्यवसायः, दुग्धव्यवसायः, खाद्यतैलनिर्मितिव्यवसायः, वस्त्रोद्यमाः, कर्गजोद्यमः प्रचलन्ति अत्र । कृषिः अस्य मण्डलस्य अर्थव्यवस्थायाः प्रमुखाङ्गम् अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि विभागद्वये विभक्तानि -

  • धुळे उपविभागः - धुळे, साक्री
  • शिरपुर उपविभागः - शिरपूर, सिन्दखेडा

लोकजीवनम्[सम्पादयतु]

'खानदेश' इति महाराष्ट्रविभागस्य विशिष्टा संस्कृतिः अत्र वर्तते । 'मावची', 'पावरे', 'भिल्ल', 'धनका', 'कातकरी' इत्यादयः आदिवासिजनाः वनेषु पर्वतप्रदेशेषु च निवसन्ति । वृषभाणां व्यवसायिकाः 'वञ्झारी', अजपालकाः 'ठेलारी', मृगयवः 'पारधी' इत्यादयः विमुक्तजनजातिजनाः अपि मण्डलेऽस्मिन् निवसन्ति । 'भाकरी', मरीचिकायाः उपसेचनं, द्विदलसस्यानां सूपाः, मांसाहारः इत्येतान् आदिवासिजनाः भुञ्जन्ते । एतेषां विशिष्टा वेशभूषा वर्तते । आदिवासिपुरुषाः आजानु-वेष्टिं धरन्ति, महिलाः निचोलं, कञ्चुकं च धरन्ति । आदिवासिजनाः कृषिकार्यं कुर्वन्ति, तेन सह अरण्यात् कषायं, फलानि, मधु, चुल्लिका-इन्धनम् इत्येतान् एकत्रीकुर्वन्ति ।
मण्डलेऽस्मिन् 'अहिराणी' इति मराठीभाषाप्रकारं जनाः व्यवहारे उपयुञ्जन्ति । गोकुळाष्ट्मी, 'पोळा', गणेशोत्सवः, 'दसरा', दीपावलिः, मकर-सङ्क्रान्तिः, होलिकोत्सवः, गुढीपाडवा, रामनवमी इत्येताः ग्रामेषु निवसतां जनानां प्रमुखोत्सवाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

  • अहिल्यापुर, शिरपुर
  • सोनगीर इत्यत्र दुर्गः
  • साक्री इत्यत्र 'हेमाडपन्थी' देवालयाः, गह्वराः च
  • बडगाव इत्यत्र देवालयः
  • थाळनेर इत्यत्र भूमिदुर्गः
  • एकवीरादेवी मन्दिरम्
  • गुरुशिष्य-स्मारकम्
  • मुदावाद इत्यत्र कपिलेश्वरमन्दिरम्
  • स्वामिनारायणमन्दिरम्
  • पिम्पळनेर इत्यत्र ताम्रपत्रम्
  • शिरुड इत्यत्र कालिकामन्दिरम्
  • श्री-समर्थ-वाग्देवता-मन्दिरम्

बाह्यसम्पर्कतन्तु:[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=धुळेमण्डलम्&oldid=268844" इत्यस्माद् पुनः प्राप्तिः