धृतराष्ट्रः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
धृतराष्ट्रः
अन्धदृतराष्ट्रं सञ्जयः भारतयुद्धवृत्तान्तं श्रावयति ।
युधिष्ठिरः
पूर्ववर्ती पाण्डुः
उत्तराधिकारी युधिष्ठिरः
Spouse गान्धारी
Issue
१००कौरवाः
राजवंशम् कुरुवंशम्
पिता विचित्रवीर्यः
माता अम्बिका
वृत्तिः महराजः
मतम् हिन्दुक्षत्रियः

महाभारते महाकाव्ये प्रधानभूमिकासु अन्यतमः धृतराष्ट्रः विचित्रवीर्यस्य प्रथमपत्न्याः अम्बिकायाः पुत्रः । हस्तिनापुरस्य अन्धराजस्य पत्नी गान्धारी, अनया शतं सन्तानानि प्राप्तवान् । एते एव अग्रे कौरवाः इति अभिज्ञाताः । एतेषु अपत्येषु एका एव कन्या अजायत । सा एव दुश्शला या अग्रे जयद्रथस्य पत्नी अभवत् । पुत्रेषु दुर्योधनः, दुश्शासनः च कौरवाग्रगण्यौ ।

जन्म बाल्यम्[सम्पादयतु]

विचित्रवीर्यस्य अकालमरणस्य पश्चात् माता सत्यवती स्वस्य प्रथमपुत्रस्य वेदव्यासस्य साहाय्यम् अपृच्छत् । नियोगपद्धत्या सः विचित्रवीर्यस्य पत्निद्वयम् अनुगृहीतवान् । तस्मिन् अवसरे विचित्रवीर्यस्य प्रथमा पत्नी अम्बिका व्यासस्य तेजोमण्डलं दृष्ट्वा भीता नेत्रनिमीलनं कृतवती । अतः अस्याः पुत्रः अन्धः धृतराष्ट्रः । द्वितीया पत्नी व्यासस्य समागमे भीता पाण्डुरा अभवत् । अतः पाण्डुः पुत्रः सञ्जातः । सः एव अग्रजस्य स्थाने राज्यभारम् अकरोत् । पण्डोः रोगात् अकालमरणं गतवान् । तत्पश्चात् अन्धः धृतराष्ट्रः एव राज्यम् अपालयत् ।

कुपुत्रजन्म[सम्पादयतु]

धृतराष्ट्रस्य प्रथमपुत्रस्य दुर्योधनस्य जननावसारे अनेकाः अशुभसङ्केताः दृष्टाःइति कारणेन भीष्मः विदुरः इत्यादयः शिशुं त्यक्तुम् असूचयन् । किन्तु धृतराष्ट्रः पुत्रव्यामोहेन तं वात्सल्येन अपालयत् ।

उत्तराधिकारः[सम्पादयतु]

पितुः पश्चात् अहमेव राजा भविष्यामि इति दुर्योधनस्य दुराशयः आसीत् । पितुः इच्छापि इयमेव चेदपि स्वपुत्रस्यापेक्षया ज्येष्ठं युधिष्ठिरं युवराजपदे अभिषिक्तवान् । अनेन निराशं दुर्योधनं दृष्ट्वा भीष्मः कुरुराज्यं विभक्तुं सूचितवान् । एतत् साधु इति धृतराष्ट्रः भागं कृत्वा एकं भागं पाण्डवेभ्यः दत्तवान् । किन्तु सः खाण्डवप्रस्थभागः शुष्कप्रदेशः अप्रयोजकः आसीत् । सफलं सम्पत्समृद्धं हस्तिनापुरं पुत्रस्य कृते रक्षितवान् ।

द्यूतः[सम्पादयतु]

धृतराष्ट्रस्य उपस्थितौ एव युधिष्ठिरः द्यूते शकुनेः कुतन्त्रेण कौरवैः पराजितवान् । प्रत्येकस्मिन् स्तरे अपजयं प्राप्तवान् युधिष्ठिरः सकलैश्वर्यं सहोदान् पत्नीं द्रौपदीं च नष्टवान् । एतत् सर्वं पश्यन् अपि अपश्यन् इव मूकवत् स्थितः धृतराष्ट्रः द्रौपद्याः वस्त्रापहरणकाले अपि तूष्णीम् एव स्थितवान् ।

कुरुक्षेत्रे भरतयुद्धम्[सम्पादयतु]

कुरुक्षेत्रे यदा युद्धं प्रचलति स्म तदा दिव्यदृष्ठियुतः सारथिः सञ्जयः युद्धस्य सम्पूर्णं विवरणं धृतराष्ट्रगान्धार्योः पुरतः वर्णयति स्म । प्रतिदिनं स्वपुत्राणां मरणवार्तां श्रुण्वतः धृतराष्ट्रस्य दुःखम् अवर्धत । तान् संरक्षितुम् अशक्तस्य स्वान्धत्वस्य निन्दामकरोत् । किन्तु सञ्जयः पाण्डवानां पक्षे एव धर्मः अस्ति इति पुनः पुनः स्मारितवान् ।

भीममूर्तेः आलिङ्गनम्[सम्पादयतु]

कुरुक्षेत्रे महाभारतयुद्धस्य समाप्तेः पश्चात् धृतराष्ट्रः अपारं दुःखं रोषं चानुभूतवान् । पाण्डवान् सन्दृश्यं विजयं प्रशंसितवन् । भीमं प्रीत्या (मनसि रोषेण) आलङ्गितुम् इष्टवान् । अपायं संलक्ष्य श्री कृष्णः भीमस्य पर्यायेन कांस्यप्रतिमां दत्तवान् । स्वपुत्रघातके क्रोधान्वितः धृतराष्ट्रः रोषात् स्वशक्तिं सर्वाम् उपयुजय आलिङ्गितवान् कांस्यमूर्तिः चूर्णिता अभवत् । पश्चान् शन्तः धृतराष्ट्रः पण्डवान् अनुग्रहीतवान् ।

वार्धक्यं मरणं च[सम्पादयतु]

कुरुक्षेत्रयुद्धस्य पश्चात् धृतराष्ट्ः राज्यभारम् अनुवर्तियितुं युधिष्ठिरं प्रार्थितवान् । धृतराष्ट्रः अनेकवर्षाणि हस्तिनापुरं प्रशास्य गान्धर्या कुन्त्या विदुरेण च सह वानप्रस्थम् अगच्छत् । हिमाले सम्भूते दावाग्निना मृताः ।

"http://sa.wikipedia.org/w/index.php?title=धृतराष्ट्रः&oldid=270200" इत्यस्माद् पुनः प्राप्तिः