नरिमलेपर्वतः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


नरिमलेपर्वतः (Narimale Hill) कर्णाटकराज्यस्य डगुमण्डलस्य ब्रह्मगिरिपर्वतश्रेणिषु एव अस्ति । कर्णाटककेरलयोः सीमाप्रदेशे इर्पुजलपाततः ब्रह्मगिरिगमनमार्गे ४.५ कि.मी.दूरे विराजते अयं पर्वतः । कोडवभाषया नरि इत्युक्ते व्याघ्रः । अस्मिन् प्रदेशे ब्याघ्राणां सङ्ख्या अधिका आसीत् अतः नरिमने (व्याघ्रनिलयः) इति नाम प्राप्तम् । अत्र कर्णाटकसर्वकारस्य वनविभागद्वारा विश्रामगृहं निर्मितम् । इतः ब्रह्मगिरिः ५ कि.मी.दूरे अस्ति। केरलभूप्रदेशे विद्यमानः मुनिकल्गुहा ३.५ कि.मी दूरे अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=नरिमलेपर्वतः&oldid=388786" इत्यस्माद् प्रतिप्राप्तम्