नर्मदानदी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
नर्मदा
River
जबलपुरस्य झान्सीघाट्
Country भारतम्
Tributaries
 - left Burhner, Banjar, Sher, Shakkar, Dudhi, Tawa, Ganjal, Chhota Tawa, Kundi, Goi, Karjan
 - right Hiran, Tendoni, Barna, Kolar, Man, Uri, Hatni, Orsang
Source नर्मदाकुण्डः
 - elevation फलकम्:Unit height
 - coordinates 22°40′0″N 81°45′0″E / 22.666667°N 81.75°E / 22.666667; 81.75
Mouth Gulf of Khambhat (Arabian Sea)
 - elevation फलकम्:Unit height
 - coordinates 21°39′3.77″N 72°48′42.8″E / 21.6510472°N 72.811889°E / 21.6510472; 72.811889
Length १,३१२ km (८१५ mi) approx.
The Narmada originates in Madhya Pradesh in Central India, and drains in Gujarat in West India
Map showing the course of the Narmada, selected tributaries, and the approximate extent of its drainage area

नर्मदानदी (हिन्दी: नर्मदा, आङ्ग्ल: Narmada river) भारतस्य सप्तमहानदीषु अन्यतमा वर्तते । नर्मदा भारतस्य काचित् पवित्रा नदी। इयं नदी मध्यप्रदेशराज्यस्य प्रमुखतमा नदी विद्यते । नर्मदायाः अपरं नाम शिवपुत्री इति । मध्यप्रदेशराज्यस्य अनूपपुरमण्डलस्य अमरकण्टक-नगरम् अस्याः नद्याः उद्गमस्थानं वर्तते । नर्मदानदी विन्ध्याचलपर्वतशृङ्खला-सतपुडापर्वतशृङ्खलयोः विभाजनं करोति । शङ्कराचार्यः अपि नर्मदायाः तीरे एव तस्य गुरुं गोविन्दभगवत्पादम् अमिलत् । द्वादशज्योतिर्लिङ्गेषु अन्यतमम् ओङ्कारेश्वरज्योतिर्लिङ्गं नर्मदायाः तीरे अस्ति ।

पुराणानुसारं नर्मदायाः उत्पत्तिः महत्वं च[सम्पादयतु]

नद्याः उद्गमस्थानं नर्मदाकुण्डः तथा नर्मदामन्दिरम्

पुराणेषु नर्मदायाः कथा अनेकैः प्रकारैः वर्णिता अस्ति । भगवान् शिवः ऋक्षपर्वते ध्यानावस्थायाम् उपविष्टः आसीत् । शिवस्य कण्ठात् नर्मदायाः उत्पत्तिर्जाता । केषाञ्चित् विदुषां मते अमरकण्टक-नगरस्य प्राचीनं नाम अमरकण्ठः आसीत् । इदं नाम भगवतः शङ्करस्य अस्ति । नर्मदा शिवात् उत्पन्ना, अतः तस्याः अपरं नाम शाङ्करी इत्यपि ।

नर्मदायाः उत्पत्तिविषये एका अन्या अपि कथा प्रचलिता अस्ति । यदा सृष्टिकर्तुः चतुर्मुखस्य ब्रह्मणः नेत्राभ्याम् अश्रुद्वयम् अमरकण्टक-नगरे अपतत्, तदा द्वयोः नद्योः उत्पत्तिः अभवत् । एका नर्मदानदी, अपरा सोननदी च । यद्यपि द्वयोः उद्गमस्थानम् एकमेव तथापि विपरीतदिशोः प्रवहतः इति आश्चर्यम् ।

कूर्मपुराणानुसारं नर्मदानदी शतयोजनं लम्बमाना, योजनद्वयं विस्तृता च अस्ति । स्कन्दपुराणानुसारं नर्मदायाः विस्तारः सार्ध-योजनम् अस्ति । किन्तु वास्तविकतया अस्याः विस्तारः एकोत्तर-अष्टशतं (८०१) मील् (mile) अस्ति ।

मत्स्यपुराणे पद्मपुराणे च उक्तम् अस्ति यत् नर्मदायाः तटे दशकोटितीर्थानि सन्ति इति । किन्तु तेषु चतुश्शतानि एव पूज्यन्ते ।

नर्मदानदी पूजनीया अस्ति, अतः नर्मदाष्टकस्य एकः श्लोकः अत्र दत्तः -


सबिन्दुसिन्धुसुस्खलत्तरङ्ग-भड्गरञ्जितं
द्विषत्सुपापजातजातकारिवारिसंयुतम् ।
कृतान्तदूत-कालभूत-भीतिहारि वर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥

नर्मदा-जयन्ती[सम्पादयतु]

ओङ्कारेश्वर-तः दृश्यमानं नर्मदायाः चित्रम्

प्रतिवर्षं जनवरी-मासस्य त्रिंशत्तमः (३०) दिनाङ्कः नर्मदानद्याः जन्मदिवसत्वेन आचर्यते । इदं पर्व अस्याः पवित्रनद्याः श्रद्धायाः प्रतीकः वर्तते । मध्यप्रदेशीयाः नर्मदां मातृत्वेन प्रीणन्ति । यत्र यत्र नर्मदानदी प्रवहति तत्र तत्र ये घट्टाः (घाट) सन्ति तत्रापि जनाः इदं पर्व आचरन्ति । तत्र जनाः पूजाभागत्वेन नद्यां दीपान् प्रज्वालयन्ति । इदं दीपदानम् इति कथ्यते । नर्मदायाः स्पर्शमात्रेण यदा अश्वमेधयज्ञस्य फलं लभ्यते तदा स्नानं तु करणीयमेव ।

नर्मदायाः मार्गः[सम्पादयतु]

नर्मदानदी अमरकण्टक-नगरात् वहन्ती गुजरातराज्ये खम्भात-पत्तनस्य गर्ते अरब-सागरे पतति । नर्मदानदी १३१२ कि. मी. प्रवहति । इयं नदी स्वस्य उद्गमस्थलात् १०७७ कि. मी. पर्यन्तं मध्यप्रदेश-राज्यस्य शहडोलमण्डले, मण्डलामण्डले, जबलपुरमण्डले, नरसिंहपुरमण्डले, होशङ्गाबादमण्डले, खण्डवामण्डले, खरगौनमण्डले च प्रवहति । ततः परं महाराष्ट्र-राज्यं संस्पृश्य पुनः मध्यप्रदेशराज्ये ३४ कि. मी. प्रवहति । ततः परं नर्मदानदी १६१ कि. मी. पर्यन्तं गुजरातराज्ये प्रवहति । अन्ते गुजरातराज्यस्य खम्भात-पत्तनस्य गर्ते पतति । अतः नर्मदानद्याः प्रवाहमार्गे मध्यप्रदेशराज्यं, महाराष्ट्रराज्यं, गुजरातराज्यं च तिष्ठति ।

नर्मदायाः परिक्रमणम्[सम्पादयतु]

नर्मदादेवी वैराग्यस्य अधिष्ठातृदेवी अस्ति । नदीषु गङ्गादेवी ज्ञानस्य, यमुनादेवी भक्त्याः, ब्रह्मपुत्रादेवी तेजसः, गोदावरीदेवी ऐश्वर्यस्य, कृष्णादेवी कामनायाः, सरस्वतीदेवी विवेकस्य च अधिष्ठातृदेवी अस्ति । नर्मदातटवासिनः नर्मदादेव्याः करुणामयं वात्सल्यस्वरूपं सम्यक्तया जानन्ति । जनाः नर्मदानद्याः परिक्रमणं श्रद्धया कुर्वन्ति । नर्मदायाः परिक्रमणे ३ वर्षाणि, ३ मासाः, १३ दिनानि च भवन्ति । इदं परिक्रमणं १३१२ कि. मी. पर्यन्तं अस्ति । नर्मदायाः पूजनं कृत्वा अस्य परिक्रमणस्य प्रारम्भः भवति । अश्वत्थामा इदानीम् अपि नर्मदायाः परिक्रमणं कुर्वन् अस्ति इति मान्यता अस्ति । देवगणाः अपि नर्मदायाः ध्यानं कुर्वन्ति । नर्मदायाः तटे दिव्यतीर्थानि, ज्योतिर्लिङ्गानि, उपलिङ्गानि च सन्ति । नदीषु नर्मदानद्याः एव परिक्रमणं विधिवत् भवति । अस्य परिक्रमणस्य प्रारम्भः अमरकण्टक-नगरात् ओंकारेश्वर-नगरात् वा भवति । प्रतिदिनं नर्मदायाः दर्शनं कृत्वा एव तस्य दिनस्य परिक्रमणस्य आरम्भः करणीयः । यतः परिक्रमणस्य प्रारम्भः क्रियते तत्रैव समापनमपि विधीयते । अस्य परिक्रमणस्य विधिः विस्तारपूर्वकं स्वामिना चैतन्येन कृते नर्मदा-पञ्चाङ्गे, श्री दयाशङ्कर दूबे इत्यनेन कृते नर्मदारहस्ये, श्री प्रभुदत्त ब्रह्मचारी इत्यनेन कृते नर्मदादर्शने, स्वामिना ओंकारानन्द गिरि इत्यनेन कृते श्री नर्मदाप्रदक्षिणायाम् इत्यादिषु पुस्तकेषु लिखिता अस्ति ।

नर्मदायाः भौगोलिकस्थितिः[सम्पादयतु]

नर्मदानद्याः भौगोलिकविशेषता अन्याभ्यः नदीभ्यः विशिष्टा वर्तते । नर्मदानदी पूर्वतः पश्चिमदिशि प्रवहति । नर्मदानदी विन्ध्याचलपर्वतशृङ्खला, सतपुडापर्वतशृङ्खला इत्येतयोः शृङ्खलयोः मध्ये प्रवहति । अनयोः द्वयोः पर्वतशृङ्खलयोः उपलब्धाः औषधयः, लवणं, खनिजानि इत्यादीनि नर्मदाजले मिश्रितानि सन्ति । अस्याः विशेषतायाः कारणादेव नर्मदाजलयुक्ते कृषिक्षेत्रे प्राणिनां सस्यानां च वैविध्यं दृश्यते । नर्मदाक्षेत्रे सर्वाः औषधयः, प्राणिनः, सस्यानि अधिकमात्रायां प्राप्यन्ते । नर्मदाक्षेत्रे ’डायनसॉर’ इत्यस्य प्राणिनः अवशेषाः अपि प्राप्ताः । इमाः विशेषताः सस्यानाम् अपि सन्ति, याभिः विशेषताभिः शोधकर्तारः आकर्षिताः भवन्ति । तैः शोधकर्तृभिः अपि नर्मदायाः समीपे एव स्वस्य निवासाय व्यवस्था कृता । एकम् आश्चर्यमस्ति यत् समुद्रेषु येषां जीवानां जीवाश्माः, खनिजानाम् अंशाः मिलन्ति ते सर्वे नर्मदाजले अपि मिलन्ति । जनाः खनिजानाम्, औषधीनां, रत्नानां च प्राप्त्यर्थं नर्मदानद्याः परिक्रमणं कुर्वन्ति स्म । किन्तु वर्तमाने काले तु इदं परिक्रमणं धर्मेण सह सम्बद्धः अस्ति । इदानीं तु जनाः पापेभ्यः मुक्त्यर्थं, पुण्यप्राप्त्यर्थं च नर्मदानद्याः परिक्रमणं कुर्वन्ति ।

नर्मदायाः सहायकनद्यः[सम्पादयतु]

१ हिरदननदी २ तिन्दोनीनदी ३ बारनानदी ४ कोलारनदी ५ माननदी ६ उरीनदी ७ हथनीनदी ८ ओरसङ्गनदी ९ बरनरनदी १० बञ्जरनदी ।

नर्मदायाः प्रदूषणम्[सम्पादयतु]

अद्यतने काले नर्मदानदी अस्माकं जीवनरेखा अस्ति किन्तु तस्याः स्थितिः समीचिना नास्ति । नर्मदानद्याम् अनेकानि प्रदूषणानि सन्ति । यदि सा स्वयमेव प्रदूषिता भवेत् तर्हि अस्मभ्यं कथं जीवनं दातुं शक्नोति । पुण्यसलिला-नर्मदायाः जलम् अनेकेषु स्थानेषु गम्भीररूपेण प्रदूषितम् अस्ति । अमरकण्टक-नगरं कोटितीर्थम् इति प्रसिद्धम् अस्ति । किन्तु इदानीं तु कोटिव्याधीनां द्वारम् अस्ति अमरकण्टक-नगरम् । नर्मदानद्याः उद्गमकुण्डः एतावान् प्रदूषितः जातः, यस्य स्पर्शं कर्तुम् अपि इच्छा न भवति । कुण्डस्य समीपे अपि मलिनता वर्तते । नर्मदायां शवाः मिलन्ति । जनाः अन्धविश्वासकारणात् पूजानन्तरं बलिरूपेण शवान् पाषाणैः बद्ध्वा नर्मदाजले त्यजन्ति ।

मण्डलामण्डले, जबलपुरमण्डले, होशङ्गाबादमण्डले च जनाः नर्मदाजले शवान् त्यजन्ति । कारणं तत्र काष्ठानाम् अभावः, मूल्यवृद्धिः च अस्ति । जनेषु अन्धविश्वासः, अशिक्षा, अज्ञानता, धर्मान्धता इत्यादीनि कारणानि अपि सन्ति ।

अमरकण्टक-नगरे नर्मदा-कुण्डे स्नानात् जलं प्रदूषितं भवति । तस्य कुण्डस्य समीपे यदि लघुस्नानकुण्डस्य निर्माणं भवेत् तर्हि नर्मदायाः जलं शुद्धं भवितुं शक्नोति । नगराणाम् अशुद्धजलमपि नर्मदायाः जले मिलति । यन्त्रागाराणाम् अशुद्धजलमपि नर्मदायाः जले एव मिलति । नर्मदायां मत्स्योद्योगः अपि प्रचुरमात्रायां भवति । तेन कारणेन अपि नर्मदाजलं प्रदूषितम् अस्ति ।

गुजरातराज्यस्य भरुच-नगरे अपि नर्मदानदी प्रवहति । भरुच-नगरम् औद्योगिकं नगरमस्ति । तत्र बहवः यन्त्रागाराः सन्ति । यन्त्रागाराणाम् अनुपयोगिजलस्य निकासः अपि नर्मदायाः जले कारितः अस्ति । भरुच-नगरस्य समीपे बहूनि तीर्थस्थलानि अपि सन्ति । श्रद्धालवः धार्मिकप्रथानुसारं नर्मदायां स्नानं कुर्वन्ति । तदनन्तरं नर्मदाजले पुष्पाणि, चन्दनं, नारिकेलानि इत्यादीनि वस्तूनि क्षिपन्ति । अतः नर्मदायाः जलं पातुं स्नातुं च योग्यं नास्ति । अस्मिन् जले स्नानात् चर्मरोगः अपि भवितुं शक्नोति ।

नर्मदानद्याः जलसङ्ग्रहणम्[सम्पादयतु]

नर्मदानद्याः जलसङ्ग्रहणक्षेत्रं ९८,७९९ च. कि. मी. अस्ति । तस्मिन् ८०.०२% क्षेत्रं मध्यप्रदेशराज्ये, ३.३१% क्षेत्रं महाराष्ट्रराज्ये, ८.६७% क्षेत्रं गुजरातराज्ये अस्ति । अस्याः नद्याः उपयोगः सिञ्चनकार्ये अपि भवति । अनया नद्या १६० लक्षम् एकड (acre) भूमेः सिञ्चनं भवति, यस्मिन् १४४ लक्षम् एकड भूमिः मध्यप्रदेशराज्ये एव अस्ति । शेषा भूमिः महाराष्ट्रराज्ये, गुजरातराज्ये अस्ति ।

नर्मदायाः जलबन्धाः[सम्पादयतु]

नर्मदानदी अविवाहिता नदी कथ्यते । अस्याः आचरणं लावण्यमयीनवयुवत्याः सदृशम् एव अस्ति । इयं सहसा एव प्रपातानां निर्माणं कारयति । नर्मदानदी रवं कृत्वा प्रवहति । ततः परं गर्ते पतनानन्तरं शान्ता अपि भवति । एतादृक् तस्याः स्वभावः अस्ति । जलबन्धकारणात् नर्मदायाः स्वरूपस्य परिवर्तनं भवति । नर्मदानद्याः विकासाय परियोजनायां पञ्चजलबन्धानां निर्माणस्य प्रस्तावः आसीत् । तेषां विवरणानि अधो लिखितानि सन्ति ।

बरगी-जलबन्धः[सम्पादयतु]

बरगी-जलबन्धः जबलपुर-नगरस्य समीपस्थे बरगी-ग्रामे स्थितः अस्ति । अयं जलबन्धः नर्मदानद्याः प्रथमः जलबन्धः वर्तते । सः ५.३६ कि. मी. लम्बमानः, ६९.८ मी. उन्नतः अस्ति । १९८८ तमे वर्षे अस्य जलबन्धस्य निर्माणम् अभवत् । अयं जलबन्धः विद्युदुत्पादनकेन्द्रम् अपि अस्ति । १९८८-८९ तः विद्युदुत्पादनस्य प्रारम्भः अभवत् । बरगी-जलबन्धात् १००० मेगावाट् विद्युतः उत्पादनं, ४.३७ लक्षं हेक्टेर् क्षेत्रस्य सिञ्चनं च क्रियते । अस्य जलबन्धस्य पृष्ठे एकः जलाशयः अस्ति । तस्य नाम रानी अवन्तीबाई सागर इति ।

इन्दिरासागर-जलबन्धः[सम्पादयतु]

इन्दिरासागर-जलबन्धः खण्डवामण्डलस्य पुनासा-ग्रामस्य समीपे स्थितः अस्ति । सः ६५३ कि. मी. लम्बमानः, ९२ मी. उन्नतः अस्ति । अस्य जलबन्धस्य जलसङ्ग्रहणक्षेत्रं ६१,६४२ च. कि. मी. अस्ति । अस्य जलसङ्ग्रहणस्य क्षमता १२.२२ बी. सी. एम्. अस्ति । भारतस्य जलबन्धेषु अस्य जलबन्धस्य जलसङ्ग्रहणक्षमता सर्वाधिकी वर्तते । अस्मात् जलबन्धात् १.२३ लक्षं हेक्टेर् क्षेत्रे सिञ्चनं, १००० मेगावाट् विद्युतः उत्पादनं च क्रियते ।

ओंकारेश्वर-जलबन्धः[सम्पादयतु]

ओंकारेश्वर-जलबन्धः इन्दिरासागर-जलबन्धात् ४० कि. मी. दूरे स्थितः अस्ति । अस्य जलबन्धस्य निर्माणम् ओंकारेश्वरद्वीपस्य पूर्वभागस्य समीपे अभवत् । तत्र नर्मदानद्याः जलप्रवाहस्य भागद्वयं भवति । अस्य जलबन्धस्य औन्नत्यम् ७३.१२ मी., दैर्घ्यं ९४९ मी. च अस्ति । इन्दिरासागर-जलबन्धात् विद्युदुत्पादनानन्तरं यज्जलं त्यज्यते तस्य उपयोगः ओंकारेश्वर-जलबन्धे ५२० मेगावाट् विद्युदुत्पादने भवति ।

महेश्वर-जलबन्धः[सम्पादयतु]

महेश्वर-जलबन्धः मध्यप्रदेशराज्ये स्थितः नर्मदायाः अन्तिमः जलबन्धः अस्ति । महेश्वर-जलबन्धात् ४०० मेगावाट् विद्युदुत्पादनं भवति । अयं जलबन्धः मण्डलेश्वर-नगरस्य समीपे अस्ति । अस्य परियोजनायाः नाम ’रन ऑफ द रिवर’ इति । नर्मदान्यायाधिकरणानुसारम् अस्य जलबन्धस्य निर्माणानन्तरं गुजरातराज्यस्य सरदारसरोवरजलबन्धाय महेश्वर-जलबन्धस्य जलं त्यक्तम् आसीत् । अन्ते गुजरातराज्ये सरदारसरोवरजलबन्धस्य निर्माणम् अभवत् ।

सरदारसरोवरजलबन्धः[सम्पादयतु]

सरदारसरोवरजलबन्धः गुजरातराज्यस्य बृहत्तमेषु मानवनिर्मितस्थापत्येषु अन्यतमः अस्ति । सरदारसरोवरजलबन्धः न केवलं गुजरातराज्यस्य, अपि तु भारतस्य बृहत्तमेषु मानवनिर्मितस्थापत्येषु अपि अन्यतमः । जलबन्धनिर्माणस्य योजनायाः नाम ’नर्मदायोजना’ इति । एतस्मात् जलबन्धादेव गुजरातराज्यस्य विभिन्नस्थानं प्रति कुल्यायाः (canal) माध्यमेन नर्मदायाः जलं गच्छति । गुजरातराज्यस्य विकासस्य पृष्ठे सरदार-सरोवरजलबन्धस्य निर्माणमपि एकं कारणं विद्यते इति नेतारः वदन्ति । १९६१ तमस्य वर्षस्य 'अप्रैल'-मासस्य पञ्चमे दिनाङ्के (५/४/१९६१) एतस्याः योजनायाः शिलान्यासं प्रधानमन्त्री नेहरू अकरोत्, परन्तु अद्यापि तस्य निर्माणकार्यं चलत् अस्ति । अनेन ज्ञायते यत्, एषः प्रकल्पः कियत् बृहत् अस्ति इति । (भारतदेशस्य राजनीतेः कीदृशी स्थितिः अस्ति इत्यस्यापि अनेन ज्ञानं भवति ।)

सरदार-सरोवरजलबन्धस्य जलसञ्चयक्षमता प्रतिक्षणं ३०.७ घनपादम् (cubic feet per second) अस्ति, या विश्वस्य सर्वाधिका जलसञ्चयक्षमता अस्ति । मुख्यनियामकस्य (Regulator) जलसञ्चयक्षमता प्रतिक्षणं ४०,००० घनपादं, विस्तारश्च ५३२ कि. मी. अस्ति । भारतस्य बृहत्तमेषु जलबन्धेषु तृतीयः जलबन्धः एषः । एतस्य जलबन्धस्य औन्नत्यं १६३ मी. भविष्यति । नर्मदायाः मुख्यकुल्या (main canal) विश्वस्य बृहत्तमा कृषिक्षेत्रसिञ्चनकुल्या अस्ति ।

जलबन्धस्य विस्तारः ३७,००० ‘हेक्टेर्’ अस्ति । सः २.१४ कि. मी. लम्बमानः, १.७७ कि. मी. विस्तृतः अस्ति । जलबन्धस्य सामान्यजलस्तरः १३८.६८ मी. निर्धारितः । अधिकतमः जलस्तरः १४०.२१ मी., न्यूनातिन्यूनः जलस्तरश्च ११०.६४ मी. निर्धारितः । जलबन्धस्य न्यूनातिन्यूनस्तरात् अपि यदि जलस्तरः अधः नेयः, तर्हि २५.९१ मी. जलं तु जलबन्धे अनिवार्येण भवेदेव इति नियमः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.narmada.org/nvdp.dams/index.html#map_links
नर्मदा-खबरदुनिया
M.P. Govt.-Narmada
नर्मदा-हिन्दी वेबदुनिया
नर्मदा-हिन्दी पोर्टल

"http://sa.wikipedia.org/w/index.php?title=नर्मदानदी&oldid=280978" इत्यस्माद् पुनः प्राप्तिः