नल्गोण्डामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Nalgonda, Andhra Pradesh
'Nilagiri'
—  city  —
View of Nalgonda, Andhra Pradesh, India
Nalgonda, Andhra Pradesh
Location of Nalgonda, Andhra Pradesh
in तेलङ्गाणाराज्यम्
निर्देशाङ्काः

१७°०३′उत्तरदिक् ७९°१६′पूर्वदिक् / 17.05°उत्तरदिक् 79.27°पूर्वदिक् / १७.०५; ७९.२७

देशः भारतम्
भूप्रदेशः तेलङ्गाणः
राज्यम् तेलङ्गाणाराज्यम्
मण्डलम् नल्गोण्डामण्डलम्
MLA कोमतिरेड्डि वेङ्कटरेड्डि
MP गुतसिकन्दर् रेड्डि
सांसदक्षेत्रम् नल्गोण्डालोकसभा
जनसङ्ख्या १३५,१६३ (2011)
व्यावहारिकभाषा(ः) तेलुगु, उर्दू
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्


421 मीटर (1,381 फ़ुट)

नल्गोण्डामण्डलम् (Nalgonda district) दक्षिणभरतदेशस्य आन्ध्रप्रदेशराज्ये स्थितमेकमण्डलं अस्ति। अस्य मण्डलस्य केन्द्रं नल्गोण्डा नगरम्।

इतिहासः[सम्पादयतु]

बहुभिः राजवंशीयैः पालितमिदं नीलगिरिः इति व्यवहृतं मण्डलं नल्गोण्डा । काकतीयराजाः, शातवाहनाः, कदम्बवंशजाः, चालक्याः , मोघल् राजाः च पालकेषु प्रमुखाः । १९०५ तमवर्षपर्यन्तं वरङ्गल्, मेदक् इति मण्डलयोः मध्ये सम्मिलितम् आसीत् । निजांविरोधिकरणोद्यमे सप्रश्रयं भागः स्वीकृतः अस्य मण्डलस्य सामाजिकैः । भौगोलिकम् अस्य मण्डलस्य प्राग्दिशि खम्मं, कृष्णा च मण्डले, पश्चिमायां रङ्गारेड्डि, भाग्यनगरमण्डले, दक्षिणे महबूब् नगरमण्डलं च सीमायां वर्तन्ते । राज्यवैशाल्ये ५.१७% भूम्याम् इदं मण्डलं विस्तृतम् । अरण्यं ५.८३% वर्तते । ७५% कृषिभूमिः अस्ति । नागार्जुनसागर् वामकुल्याभ्यः सस्यभूमये जलं प्रेष्यते ।

कृषिः वाणिज्यं च[सम्पादयतु]

कार्पासः, मरीचिकाः, कलायः, इत्यादीनां विरलतया सेद्यं क्रियते । मण्डलं पारिश्रामिकक्षेत्रे प्रकृतं न प्रवर्तते । सिमेण्ट् कर्मागाराणि, दोण्डपाडु, वाडपल्ली, केहपल्लीप्रान्तेषु वर्तन्ते । पोयम्पल्ली हस्तकलाशाटिकाः प्रसिध्दाः ।

वीक्षणीयस्थलानि[सम्पादयतु]

यादगिरि लक्ष्मीनरसिंहस्वामी देवालयः, भुवनगिरिदुर्गम्, मिट्टपल्लि नृसिंहस्वामी देवालयः, नागार्जुनसागरवारधिः, जनगामसमीपस्थाः बौध्दस्तूपाः इत्यादीनि पर्याटकस्थलानि विराजन्तेऽस्मिन् मण्डले । मण्डलमिदं पञ्चनारसिंहक्षेत्रम् इति प्रसिद्धम् ।

तालूकाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नल्गोण्डामण्डलम्&oldid=485161" इत्यस्माद् प्रतिप्राप्तम्