नवदेहली

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(नवदेल्ही इत्यस्मात् पुनर्निर्दिष्टम्)
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
New Delhi
—  national capital  —
From top clockwise: Lotus Temple, Humayun's Tomb, Connaught Place, Akshardham Temple, and India Gate
New Delhi
Location of New Delhi
in Delhi
निर्देशाङ्काः

28°36′50″N 77°12′32″E / 28.61389°N 77.20889°E / 28.61389; 77.20889

देशः भारतम्
राज्यम् Delhi
मण्डलानि New Delhi
Established 1911
Lieutenant Governor Tejendra Khanna
Chief Minister Sheila Dikshit
जनसङ्ख्या

सान्द्रता
महानगरम्

२४९ (2012)

५,८५४.७ /km2 ( /sq mi)
१३

साम्प्रदायिकसमूहाः 
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

औन्नत्यम्

१,५०० square kilometres ( sq mi)

२१६ metres ( ft)

जालस्थानम् www.ndmc.gov.in

दिल्ली अथवा देहली भारतस्य राजधानी अस्ति। नवदिल्ली पश्यतु। भारतस्‍य राज्येषु अन्यतमम् अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते । देहली महानगरस्य विस्तीर्णम १५०० चतुरस्र किलोमीटर् अस्ति । अत्र वाताव रणम् अत्यन्तम् विचित्रम् एप्रिल् मे जून् मासेषु अतीवोष्णम् नवम्बर् डिसेम्बर जनवरी मासेषु अतीव शैत्यम् भवति। भारतस्य सर्वराज्यानाम राजधानिभिः वाहनसम्पर्कः धूमशकटयान सम्पर्कः विमान सम्पर्कः च सन्ति ।

अन्तर्विषयाः

[सम्पादयतु] देहली नगरेतिहासः

देहली नगरम् विश्वे एव प्राचीन नगरेष्वेकं अस्ति । पुराणानुसारम् कौरवाः हस्तिनावतिनगरे प्राचीनदिल्लीभागे, पाण्डवाः इन्द्रप्रस्थनगरे प्रशासनम् कृतवन्तः । पूर्वम् हिन्दुराजा अनङ्गपालः क्रिस्ताब्दे १०६० समेय ‘लालकोट्’ निर्मितवान् । पृथ्वीराजचह्वण महोदयः अभिवृद्धि कार्यम् कृतवान् । अनन्तरम् कुतुब्हीन् ऐबक् कुतुब् मीनार शिल्पं कारितवान् । मोगलवंशीयः बाबरः अत्रैव साम्राज्यम् आरब्धवान् । आङ्गलाः क्रिस्ताब्दे १९११ तमे वर्षे देहली नगरम् राजधानीम् कृत्वा प्रशासनम् आरब्धवन्तः । क्रिस्ताब्द १९४७ पर्यन्तम् प्रशासनम् कृतवन्तः ।

स्वातन्त्र्यप्राप्तेः अनन्तरमपिदेहलीदेशस्य राजधनीपदमलङ्करोति ।देहली गङ्गासमतलप्रदेशानाम् महाद्वारयिवास्ति । राजकीयकेन्द्रम् व्यापारीकेन्द्रम् पाशासनिककेन्द्रम् च एतत् अत्र अनेक वास्तुशिल्पानि क्रिस्ताब्दे १९३० समये निर्मितानि सन्ति । सट् एड्विन् लुटिन्स् भव्यशिल्पानाम् रचनाकारः आसीत् ।

[सम्पादयतु] प्रेक्षणीयस्थानानि

यमुनातीरे परिविस्तृता देहली दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । क्रिस्तपूर्वप्रथमशतकस्य मौर्याधिपेन छिलिना छिल्लीति नामाङ्कितेयं नगरी तदनन्तरं दिल्ली बभूव । नगरीयं पुराणनवोपभागाभ्यां द्विधा विभक्ता । देहलीनगर्याः नासिकाभरणमिव चान्दनीचौकस्थानम् अत्र विराजते । पत्तनेऽस्मिन् रक्तदुर्गं, कुतुब् मिनार्, जन्तर्-मन्तर्, इण्डियागेट, लक्ष्मीनारायणमन्दिरं , तीनमूर्तिभवनं, विज्ञानभवनं, मुगलवास्तुशिल्पम् अनुसृत्य विरचितानि भवनानि चेत्यसङ्ख्यानि प्रेक्षणीयस्थानानि सुशोभन्ते ।

[सम्पादयतु] राष्ट्रपतिभवनम्

भारतदेशस्य राष्ट्रपतेः अधिकृतनिवासस्थानं वर्तते ।

[सम्पादयतु] कुतुब् मिनार्(विजयस्मारकम्)

देहली नगरे स्थितः कुतुब् मिनार्-विजयस्तम्भः अत्युन्नतः इति भारतदेशे विख्यातः अस्ति । पूर्वम् एतम् पृथ्वीस्तम्भः इति प्रसिद्धः आसीत् , ‘पृथ्वीराज चौहान् महोदयः एतम् निर्मितवान्’ हिन्दुशिल्पशैल्यामेतत् रचितमस्ति । अनन्तरम् क्रिस्ताब्दे १२०० समये देहलीप्रशासक कुतुब्-दीन्-ऐबक् आफ्घन् शिल्पानुसारं कतिपयांशान् योजयित्वा पूर्णम् कर्तुम प्रयत्नम् कृतवान् । अन्तिमं चतुस्तरं कुतुब्दीन् ऐबकमहोदयस्य जामाता इल्ट-मिष् पूर्णम् कृतवान् ।

इदानीम् गोपुरस्तम्भः एषः १३८ पादोन्नतः सप्त स्तरीयः अस्ति । आरोहणाय ३७९ सोपाननी सन्ति । अस्य परिधिः पादस्तरे ४७ पादमितः , शिखरभागे ९ पादमितः अस्ति । प्रतिस्तरतः अपि वीक्षणम् कर्तुम् साध्यमस्ति । सर्बग सुन्दरतया अलङ्काराः सन्ति । द्वारेषु शासननि सन्ति ।

[सम्पादयतु] रक्तदुर्गम् (लालकिला) Red Fort

देहलीनगरे स्थितम् रक्तदुर्गम् (लालकिला) रक्तवालुकाशिलाभिः निर्मितः शिल्पविशेषः अस्ति। अस्य दीर्घता २ कि.मी. अस्ति । उन्नतिः भिन्ना भिन्ना अस्ति । नद्याः समीपे २८ मीटर् उन्नतम् , नगरभागे ३३ मीटर् उन्नतम् अस्ति । एतं दुर्गम् क्रिस्ताब्दे १६३८ तमे वर्षे निर्मातुं देहली चक्रवर्ती षाहजहान् आरम्भं कृतवान् । क्रिस्ताब्दे १६४८ तमे वर्षे निर्माण कार्यम् समाप्तम् अभवत् । लाहोर् गेट्सः प्रवेशः अस्ति । अत्र दिवान् आम् , दिवानीखाम् , मोति मसजिद् , रङ्गमहल् इत्यादि सन्ति । प्रतिदिनम् सायङ्काले सुन्दरप्रदर्शनम् (Sound and light show‌) आङ्गल हिन्दिभाषयोः व्याख्यानसहितम् भवति। अन्तः आपणानाम् पाङ्क्तिः अस्ति । हस्तशिल्पवस्तूनि अत्र लब्यन्ते । दिवान् ३ खास् स्वकीयम् स्थानमासीत् । खास् महल् चक्रवर्तिनां निवासः रङ्गमहल् राज्ञीनाम् वासस्थानम् दिवानि आम् दर्बार सभाङ्गणमासीत् । अत्र उष्णजल शीतजल स्नानगृहणि सन्ति । शीशमहल् प्रेक्षणी- यमस्ति । मोगल शैली शिल्पदर्शनाय एतदुत्तमम् स्थलमस्ति ।

स्वातन्त्र्यानन्तरम् प्रतिवर्षम् अगस्ट मासस्य १५ दिने प्रातः काले अत्र प्रवेशद्वारस्य उपरिस्थिते विशेषस्थले भारतस्य प्रधानमन्त्रि ध्वजारोहजं कृत्वा जनान् सम्भोधयति । शुभाशयम् च यच्छुति ।

RedFort.jpg

[सम्पादयतु] मेहरालि अयसस्तम्भः

कुतुब् मीनार प्राङ्गणे एकम् ऐतिहासिकम् स्तम्भम् द्रृष्ट्वा यागिकाः विस्मिताः भवन्ति । अयसः एषः चतुर्थ शतमाने राजाचन्द्रवर्मा एतमनिर्मितवान् । स्कन्धगुप्तराजस्य कालिकः एषः शिल्पविशेषः अधुनापि अय- स्किट्ट रहितः सूर्यप्रकाशेन विराजेत । अत्र स्तम्भे संस्कृतश्लोकाः लिखिताः सन्ति । एषः स्तम्भः स्थिरः दृढः गोलिकाप्रहारेणापि यथा पूर्वमवास्ति । स्तम्भनिर्माणकौशलम् द्रृष्ट्वा तात्कालिक लोहकार्य नैपुण्यम् द्रृष्टुम् विवेचितुम् च शक्यते । कन्निङ्गहयाम् एषः स्तम्भः अतीव उत्तमः विस्मयकारी लोहविधा दर्शकः विदानस्यपि कुतूहलकारकः च अस्ति ‘इत्यवदत्’ ।

[सम्पादयतु] फेरिक्वीन् – हेरिटेज् धूमशकटम्

देहली नगरे स्थितः राष्ट्रीय धूमशकटसङ्ग्रहालयः अवश्यम् दर्शनीयः अस्ति । अत्र फेरिक्वीन् धूम- शकटम् १४२ वर्ष प्राचीनः अस्ति । अस्य चालकयन्त्रम् बाष्पेन चालनीयम् अस्ति । अस्य विभागाः वायुनियन्त्रिताः उत्तमासनयुक्ताः सुन्दरतया अलङ्कृताः सन्ति । अत्रत्य प्रकृतिदर्शनम् अतीव सुन्दरम् भवति ।

अस्य वेगः ४० कि.मी. प्रतिघण्टास्ति । अस्य गिन्निस् पुस्तके नाम सम्मिलितः अस्ति । राष्ट्रीयप्र- वास निगमस्य पारितोषकमपि लब्धमस्ति । एकवारम् कर्नाटकम् आगतम् आसीत् । मार्गः मेहरालि, कुतुब् मीनार समीपे ।

[सम्पादयतु] जन्तरमन्तर (ग्रह तारा वीक्षणालयः)

देहलीनगरे जयपूर राजा मिर्जाराजा जयसिंहेन निर्मितम् ग्रहताराचलन-वीक्षणालयः २६ शतमानकाले स्थापितम् अस्ति । अत्र सूर्यचक्रम् अथवा साम्राट् यन्त्रम् अतीव गमनार्हम् अस्ति ।

[सम्पादयतु] इतर दर्शनीयस्थानानि

संसत् भवनम् वृत्ताकारम् श्रेष्ठभवनमस्ति । अत्र भारत सर्वकारस्य लोकसभा राज्यसभेत्यादि प्रशा- सनिक सभा स्थलानि सन्ति । एतत् क्रिस्ताब्दे १९२७ तमे वर्षे निर्मितं अस्ति । अस्य भवनस्य व्यासः १७२ मीट- रस्ति । देहलीनगरे अनेक मुस्लिम् राजानाम् समाधि स्थलानि सन्ति । तत्र मोगलशैलीयम् वास्तुशिल्पानि रचितानि सन्ति । लोदी जनानाम् समाधयः , मोगलवंशीया नाम समाधयः इत्यादि विशाले प्राङ्गणे सन्ति । षेरषहमहोदयेन निर्मितम् पर्वतप्रदेशे अस्ति । अत्र समीपे एकः मृगालयः अस्ति । अत्र धूसरभल्लूकाः, श्वेतव्याघ्रः, श्वेतमयूरः, एमु, प्राणिपरिसङ्कुलानि सन्ति ।

राजघाट् प्रदेशे विशाले उद्याने महात्मागान्धी जवाहर् लालनेहरु लालबहदूरशास्त्री श्रीमति इन्दिरागान्धी इत्यादि श्रेष्ठानाम् समाधयः सन्ति । सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति । अक्षरधामस्थले देवालय सङ्कीर्णम् अतीव सुन्दरम् अस्ति । अत्र सायंकाले जलोत्सः दीपालङ्कारयुक्तः विशेषतया द्रृष्टव्यः अस्ति ।

Edificios ministeriales Delhi.JPG

देहलीनगरे बोटवलब् लोदिउद्यानम् रोषनाराउद्यानम् कुट्टसिया उद्यानम् तलटको उद्यानम् नेहरु उद्यानम् डीरपार्क् बुद्धजयन्ति पार्क् इत्यादि सुन्दराणि उद्याननि सन्ति । देहलीनगरे अनेक वस्तुसङ्ग्रहालयाः सन्ति । तेषु 'क्राफट् म्यूसियम्' , 'न्याशनल् म्यूसियम्' , 'नेहरू स्मारक म्यूसियम्', 'रेड् पोर्ट् म्यूसियम्' इत्यादि प्रसिद्धानि सन्ति ।

सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति ।

देहल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव ।

देहली

[सम्पादयतु] मार्गः

  • अहमदाबादतः ८६ कि.मी. ।
  • आग्रातः २०० कि.मी. ।
  • मुम्बैतः १४००कि.मी.।
  • जयपूरतः ३६१ कि.मी.।
  • सिम्लातः ३६८ कि.मी. ।
  • जम्मूतः ५८६ कि.मी. ।
  • चेन्नैतः १२५७ कि.मी. ।
  • बेङ्गलूरुतः २०१९ कि.मी. ।
  • हैदराबादतः २४५३ कि.मी. ।
  • तिरुवनन्तपुरमतः १७८० कि.मी ।


दर्शनीयस्थानानि केन्द्रतः दूरम् यात्राक्षेत्रम्
कुतुब्मीनार् नगरमध्ये ऐतिहासिकम्
संस्कृतभारती २ कि.मी. देशसेवान्यासः
रक्तदुर्गम् मध्यनगरम् ऐतिहासिकम् ।
संसत्सदनम् नगरकेन्द्रस्थाने राजनीतिभवनम्
भारतमहाद्वारम् मुख्यमार्गे नगरप्रवेशः
अक्षरधाम ३कि.मी. हिन्दुमन्दिरम्
"http://sa.wikipedia.org/w/index.php?title=नवदेहली&oldid=193125" इत्यस्माद् उद्धृतम्
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु