नवरत्नानि

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
नवग्रहयन्त्रे नवरत्नानि

वज्रमणिः, वैडूर्यमणिः, पद्ममणिः, माणिक्यमणिः, मरकतं, गोमेधिकं, विद्रुमः, मुक्ता, नीलं चेति नवरत्नानि सन्ति ।

  1. माणिक्यम् (Ruby) - सूर्यः
  2. मरकतम् (Emerald) - बुधः
  3. वज्रम् (Diamond) - शुक्रः
  4. मुक्ता (Pearl) - चन्द्रः
  5. गोमेधकम् (Hessonite) - राहुः
  6. वैडूर्यम् (Chrysoberyl) - केतुः
  7. प्रवालम् अथवा विद्रुमः (Coral) - मङ्गलः
  8. पद्मरागः अथवा पुष्यरागः अथवा पुष्पराजः अथवा पुष्परागः (Yellow sapphire) - गुरुः
  9. इन्द्रनीलः (Blue Sapphire) - शनिः

माणिक्यं तरणेः सुजात्यममलं मुक्ताफलं शीतगोः

माहेयस्य च विद्रुमं मरकतं सौम्यस्य गारुत्मतम
देवेज्यस्य च पुष्पराजमसुराचार्यस्य वज्रं शनेः

नीलं निर्मलमन्ययोश्च गदिते गोमेद-वैदूर्यके


व्युत्पत्तिः[सम्पादयतु]

अत्र रत्नशब्दस्य अर्थस्तु - रमतेऽत्र - रम्+न+तान्तादेशः इति व्युत्पत्या दर्शितः । भूमेः - रत्नगर्भा, रत्नप्रसूः इति सार्थकसंज्ञा भवत्येव । अत एव अनन्तरत्नप्रभवः हिमालयः इति महाकविना कालिदासेन कुमारसम्भवे प्रयुक्तम् ।
एतत्तत्त्वविचारे ऋग्वेदश्रुतिः यथा - विभक्तारं हवामहे । वसोश्चित्रस्य राधसः । सवितारं नृचक्षुषम् । अस्य भाष्यम् -

वसोः-निवासहेतोः,
चित्रस्य-सुवर्णरजतादिबहुविधस्य,
राधसः-धनस्य,
विभक्तारम्-अस्य यजमानस्य एतावद्धनदानमुचितम् इति विभागकारिणं
नृचक्षुषम्-मनुष्याणां प्रकाशकारिणं सवितारं हवामहे ।

अत्र कैशीतकीब्राह्मणेन प्रतिपादितोऽर्थो यथा - यदेतद्वसोश्चित्रं राधः तदेव सविता विभक्ताभ्यः प्रजाम्यो विभजति इति ।
तत्वार्थस्तु -

वसोः-स्वप्रकाशोत्पादितस्य,
चित्रस्य-नानावर्णयुक्तस्य,
राधसः सुवर्णरजतवज्रवैडूर्यादिखनिजरूपधनस्य
विभक्तारम्-इयद्भिः प्रकाशैः इयता कालेन एतस्मिन् भूतले एतेन वर्णेन एतत्खनिजरूपं धनं भाव्यमिति विभागहेतुकं सवितारं यथा जगत्प्रसवितारं तथा तदन्तर्वर्ति खनिजधनानामपि प्रसवितारम् उत्पत्तिहेतुकं नृचक्षुषम्-नॄणां तत्त्वप्रकाशनम् (अस्मिन् स्थले एतादृशरूपं सुवर्णादिकं भवतीति ज्ञानम् उत्पादयन्तं)
हवामहे आह्वयामः । अथवा - स्तुतिं कुर्मः । इति खनिजतत्त्वविमर्शेन सर्वाणि खनिजानि सूर्यमरीचीनां रसवीर्यपाकादिभिः निष्पद्यन्ते इत्युक्तं भवति । अत्र सूर्यशब्दः अग्निशब्दोऽपि भवति - अग्निसूर्ययोरभेदात् । यथा एक एव तेजःपदार्थः पृथिवीस्थोऽग्निरित्युच्यते, अन्तरीक्षस्थो वायुरिति अथवा विद्युदिति व्यपदिश्यते । दिविस्थस्सूर्य इति विज्ञायते । इति श्रुत्या प्रपञ्चितः । पुष्यरागः अथवा पुष्यरागः-(Topaz) महानीलं, पद्मरागं प्रवालकं वैडूर्यं नीलं चेति एते मणयः ।

नवरत्नशुद्धिः[सम्पादयतु]

माणिक्यम् अम्लेन शुध्यति । मौक्तिकं जयन्त्या । विद्रुमं क्षारवर्गेण, तार्क्ष्यं (गारुडात्मकम्) गोदुग्धैः, पुष्परागं कुलुत्थक्काथसंयुतैस्सन्धानैः, वज्रं तण्डुलीयजलैः, नीलं नीलीरसेन, गोमेधं रोचनाभिः, वैडूर्यं त्रिफलाजलैः ।

नवरत्नस्वरूपगुणादयः[सम्पादयतु]

उपरि नवरत्नानां नामानि केवलं निर्दिष्टानि । अत्र तेषामुत्पत्यादिविशेषाः प्रदर्श्यन्ते -

पुष्यरागम् (Crystal Stones)[सम्पादयतु]

इदं पविच्छायं कान्त्या स्वच्छम् ।

वैडूर्यम् (Lapis lazuli)[सम्पादयतु]

ईषत्कृष्णं सितं चेति द्विविधम् । ===गोमेधकम् (A Gem-occuring in Himalayas) इदं रत्नं मधुबिन्दुसमं गोमूत्रनिभं वा भवति ।

विद्रुमः (Corals)[सम्पादयतु]

विद्रुमाख्या वल्लरी सेतौ सागरमध्ये च जायते । रत्नरूपिणी सा दुर्लभा । प्रयत्नाद्बाधिता सती एषा पाषाणत्वं भजति ।

प्रवालम् (Coral)[सम्पादयतु]

प्रवालं नाम रत्नं वर्णाढ्यम् । मन्दकान्तिकम् । अस्मिन्पद्मरागनीलयोर्दोषा भवन्ति ।

रत्नसामान्यस्य गुणाः[सम्पादयतु]

गौरवं स्वच्छता कान्तिः काठिन्यं चेति चतुर्विधा भवन्ति ।

रत्नपरीक्षा[सम्पादयतु]

वज्रेण वेधयेद्वज्रम् । तत्कृत्रिमं चेद्विभज्यते । मौक्तिकं कृत्रिमं चेत् लवणाम्भसा क्षालितं नश्यति । माणिक्यादीनां शोधनं कर्षणक्वथनाभ्यां कर्तव्यम् । कृत्रिमं चेत् क्वथनात् रागः त्यज्यते । कर्षणात् मार्दवं दृश्यते यदि तत्कृत्रिमम् । इति सङ्ग्रहेण रत्नपरीक्षा । विस्तरस्तु तत्तच्छास्त्रेषु वर्णिता ।

अर्थशास्त्रे चाणक्येन प्रदर्शिता मणिप्रभेदाः[सम्पादयतु]

ताम्रपार्णिकं, पाण्ड्यकवाटकं, पाशिक्यं, कौलेयं, चौर्णेयं, माहेन्द्रं, कार्दमिकं, स्रौतसीयं, ह्रादीयं हैमवतं च मौक्तिकम् । शुक्तिः, शङ्कः, प्रकीर्णकं च योनयः । मसूरकं त्रिपुटकं कूर्मकम् अर्थचन्द्रकं कञ्चुकितं यमकं खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्धं चाप्रशस्तम् । स्थूलं वृत्तं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देशविद्धं च प्रशस्तम् । सौगन्धिकः पद्मरागः अनवद्यरागः पारिजातपुष्पकः बालसूर्यकः । वैडूर्यः उत्पलवर्णः - शिरीषपुष्पकः उदकवर्णः वंशरागः । शुकपत्रवर्णः पुष्यरागः । गोमूत्रकः गोमेदकः । नीलः इन्द्रनीलः कलायपुष्पकः महानीलः जाम्बवाभः जीमूतप्रभः । नन्दकः स्रवन्मध्यः शीतवृष्टिः सूर्यकान्तश्चेति अन्ये मणयः ।

मणिदोषाः[सम्पादयतु]

स्वल्पकान्ताः लेपाकीर्णाः धातुमुक्ताः स्फटिकाः शर्करासंयुक्ताः इति ।

सुवर्णरत्नखचितभूषणानि[सम्पादयतु]

प्राचीनार्याः खलु भूषणप्रियाः । भूषणरचनार्थं सुवर्णादिधातूनां वज्रादिरत्नानाञ्चापेक्षा । तदपेक्षया तदन्वेषणाय तल्लाभाय च भूगर्भशोधनम् इति खनिजान्वेषणे एको हेतुः । विविधविचित्रभूषणानि तु तन्निर्माणकलाकुशलैः रचितानि रच्यमानानि रचयिष्यमाणानि च भवन्ति । तादृशभूषणादिरचनमेव कस्यचित्कुलस्य वृत्तिसाधनं भवति । तादृशकलाकुशलाः रत्नपरीक्षकाश्च भारतभूम्यामनेके वर्तन्ते । तथा निर्मितानि भूषणानि स्त्रीपुंससामान्येन धार्याणि एतानि - एकावली त्रिसरं पञ्चसरं सप्तसरं नवसरम् इति मुक्ताफलाढ्यानि कण्ठभूषणानि । रत्नसहितस्यूतानि तानि तु नीललम्बनिकावर्णसरह् ब्रह्मसूत्रमित्यादयः । नानारत्नखचितं पदकं वक्षस्थलविभूषणम् । केयूरं बाहुभूषणम् । अङ्गदं बाहुसन्धिविभूषणम् । कटकं हस्तभूषणम् । अङ्गुलीयकमष्टवज्रं मणिमण्डलं नन्द्यावर्तं वेष्टकं त्रिहीरकमिति अङ्गुलीयकभेदाः । शुक्तिमुद्रिका-मुद्रिकादयः अङ्गुलीयकभूषणविशेषाः । मुक्ताताटङ्कं द्विराजिकम् त्रिराजिकं वज्रगर्भं मणिमण्डलं कुण्डलमित्यादीनि कर्णभूषणानि । सुवर्णरचिता विविधाः शृङ्खलाः । ताटङ्ककटकानि च सामान्यभूषणानि ।
स्त्रीभिरेव धार्याणि भूषणानि तु - सज्जातिलकं दण्डकं चूडामण्डलं दण्डकोर्ध्वभूषणं तथा चूलिका परभागभूषणं चूलीभूषणं मेखला कर्णभूषणं सारिका लम्बिनी वज्रसङ्करिका बाहुवलयौ बाहुवेष्टनं चूडकम् अर्धचूडकं पादचूडकौ कटकौ मेखलापादपट्टौ पादगर्गरिके एडकाः अन्दुकाः इत्यादीनि ।
पुंभिरेव धार्याणि - अङ्गदाभिधौ बाहुवलयौ यमलाः मुद्रिकाः शेखरं मुकुटं सौवर्णरत्नसंयुक्तपट्टः, सरकयुक्तशिरोवेष्टनं हेमरचितदलकम् इत्यादीनि । एतेषां ज्ञानेन परस्परासम्बन्धवशात् खनिजतत्वावबोधो भवति । सुवर्णरजतादिसन्धानविज्ञानं च भवति । तादृशसन्धानविषये श्रुतिः - (ऐ. ब्रा. अ. ७. ऋ. ३२) यथा श्लेष्मणं चर्मण्यम् अन्यद्वा विश्लिष्टं संश्लेषयेत् । अत्र भाष्यम्-एकेन द्रव्येण द्रव्यान्तरं सन्धीयते । तद्यथा - लवणेन सुवर्णं सन्दध्यात् । सुवर्णेन रजतम् । रजतेन त्रपु । त्रपुणा सीसम् । सीसेन लोहम् । लोहेन दारु । दारुणा चर्मेति । क्षारादीनां सुवर्णादीनां च सन्धानं सुवर्णकाराद्विषु प्रसिद्धमिति ।

"http://sa.wikipedia.org/w/index.php?title=नवरत्नानि&oldid=233529" इत्यस्माद् पुनः प्राप्तिः