नागपञ्चमी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

सनातन-आर्यभारतीय-महर्षिणां सम्प्रदाये विद्यमानेषु पर्वसु नागपञ्चम्या अपि मुख्यं स्थानं प्राप्तमस्ति । एकदेवोपासकाः अपि कुत्रचित् काम्यव्रतरूपेण आचरन्ति नागपञ्चमीम् । सर्पाः अस्मान् न दशन्तु, विषबाधा परिहृता भवतु, सन्तानप्राप्तिः धनप्राप्तिः च भवतु, चर्मरोगनिवृत्तिः भवतु, स्वर्गप्राप्तिः भवतु इत्यादिभिः कामनाभिः एतत् पर्व आचरन्ति । श्रावणमासः पर्वणाम् एव मासः । तत्र आरम्भे एव भवति नागपञ्चमी । श्रावणमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ आचर्यते इदं पर्व ।

श्रावणे मासि पञ्चम्यां शुक्लपक्षे तु पार्वती ।
द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः ॥
सा तु पुण्यतमा प्रोक्ता देवानामपि दुर्लभा ।
कुर्याद्द्वादशवर्षाणि पञ्चम्यां स वरानने ॥
नागपञ्चमीदिने पूज्यमानं नागशिल्पम्
सर्पः

इति भविष्योत्तरपुराणे ३६तमे अध्याये अस्य पर्वणः उल्लेखः कृतः अस्ति । आश्वलायन-परस्कर-गृह्यसूत्रानुसारं “सर्पबलिः” इति कर्म आचर्यते एतद्दिने एव । भारतस्य विभिन्नेषु भागेषु एतस्य पर्वणः आचरणे भेदाः सन्ति चेदपि सर्वत्र पूज्यमाना देवता तु नागदेवता एव ।


दक्षिणभारते तु व्रतम् आचर्यमाणाः तण्डुलपिष्टेन एकां प्रेङ्खां वा पात्रं वा निर्माय तत्र पिष्टनिर्मितम् एकं बृहत् एकं लघु च नागदेवताविग्रहं स्थापयन्ति । तयोः विग्रहयोः एव पूजा भवति तद्दिने । पूजायां तालपुष्पस्य उपयोगं विशेषतया कुर्वन्ति । वल्मीकमृत्तिकायाः पूजाम् अपि कुर्वन्ति । नैवेद्यरूपेण दुग्धं, तण्डुलपिष्टेन निर्मितं मधुरं, लाजाः, कलायः, माषापूपः, मधुरापूपः वा समर्प्यते । नागशिलाः यत्र सन्ति तत्र गत्वा तासां शिलानां क्षीराभिषेकः क्रियते । स्वर्ण-रजत-मृत्तिकानिर्मितानां वा विग्रहाणां पूजा क्रियते । विशेषतया तद्दिने लवणरहितान् एव पदार्थान् नैवेद्यरूपेण समर्पयन्ति । गृहस्य मुख्यद्वारस्य उभयोः पार्श्वयोः अपि गोमयेन नागचित्रं लिखित्वा दधि-दूर्वा-कुश-चन्दन-पुष्पैः पूजां कुर्वन्ति । अस्मिन् पर्वणि विशेषतया भ्रातरः विवाहिताः भगिनीः गृहम् आहूय सत्कारं कुर्वन्ति । तद्दिने पूज्यमानाः अष्टनागाः ।

वासुकिः तक्षकश्चैव कालियो मणिभद्रकः ।
ऎरावतो धृतराष्ट्रः कार्कोटकधनञ्जयौ ॥
एतेऽभयं प्रयच्छन्ति प्राणिनां प्राणजीविनाम् ॥ (भविष्योत्तरपुराणम् – ३२-२-७)

व्रतम् आचर्यमाणाः चतुर्थ्याम् एकभुक्तिम् आचरन्ति । पञ्चम्यां दिनपूर्णम् उपवासं स्थित्वा पूजादिकं समाप्य रात्रौ भोजनं कुर्वन्ति ।

कुत्रचित् नागाः भिन्नाः सर्पाः भिन्नाः इति उल्लेखः दृश्यते ।

१. भगवद्गीतायां श्रीकृष्णः वदति – “सर्पाणां वासुकिश्चास्मि अनन्ताश्चास्मि नागानाम्” इति ।
२. श्रीधरीये उक्तम् अस्ति – “विषयुक्ताः सर्पाः विषरहिताश्च नागाः” इति ।
३. (निघण्टु १९-५३) “फणिनो धवळाङ्गा ये ते नागा इति किर्तिताः । अन्ये रक्तादिवर्णाद्यैः बोध्याः सर्पादिनामभिः” इति ।
४.(रा.मा. ३-१४-३०) “सुरसाऽजनयन्नागान् राम कद्रूस्तु पन्नगान्” इति ।
५. महातले वसन्तः तक्षकादयः सर्पाः, पातालवासिनः वासुक्यादयः नागाः इत्यपि उच्यते – “अधस्तान्महातले काद्रवेयाणां सर्पाणां नैकशिरसां क्रोधवशो नाम गणः कुहक-तक्षक-कालिय-सुषेणादिप्रधानाः महाभोगवन्तः ।
अधस्तात्पाताले नागलोकपतयः वासुकिप्रमुखाः शङ्ख-कुलिक-महाशम्ब-धनञ्जय-ध्रुतराष्ट्र-शम्बचूड-कम्बलाश्चतर-देवदत्तादयो महाभोगिनः ।”(भाग – ५-२४)
६. एकफणायुक्तः सर्पः, अनेकफणयुक्तः नागः इति उक्तम् अस्ति गीताभाष्ये श्रीरामानुजाचार्यैः रामायणव्याख्याने श्रीतीर्थैः च ।
७. “वस्तुतस्तु सर्पसंज्ञा सर्वेषामपि गोनसाजगरादीनामपि सामान्या, यथा चतुष्पदां पशुसंज्ञा । नागसंज्ञा च सटादिमतां सिंहसंज्ञेव सफणानां पद्माद्यङ्कितानां च विशिष्टा ॥“ इति अविगीतायाम् उक्तम् अस्ति ।
"http://sa.wikipedia.org/w/index.php?title=नागपञ्चमी&oldid=234151" इत्यस्माद् पुनः प्राप्तिः