नागलिङ्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

परिचयः[सम्पादयतु]

कुसुमितः नागलिङ्गवृक्षः

नागलिङ्गवृक्षः काचित् आयाता वृक्षजातिः । अस्य मूलं दक्षिणामेरिका केरेबियन् देशौ । अलङ्करणार्थं भारतम् आनीता इयं जातिः । अङ्ग्ल्भाषया Cannon-Ball Tree इति अस्य नाम् । अस्य फलानि तूलकगोलकाः इव भावन्ति अतः एतत् नाम प्राप्तम् । अस्य पुष्पाणि अतीव मनोहरानि बृहन्ति च भवन्ति । शिवलिङ्गस्योपरि फणाप्रसारितः उरगः इव पुष्पं दृश्यते । तमिळुभाषायां शिवलिङ्गपुष्पम् इति, तेलुगुभाषाया मल्लिकार्जुनपुष्पम् इति, कन्नडभाषया, बङ्गलीभाषाया च नागलिङ्गपुष्पम् इति वदन्ति ।

वृक्षे नागलिङ्गफलानि

सस्यशास्त्रीयवर्गीकरणम्[सम्पादयतु]

लेसितिडेसि (Lecythidaceace) कुटुम्बसम्बद्धस्य अस्य वृक्षस्य कौरौपिट जियनेन्सिस् (Couroupita guianensis) इति सस्यशास्त्रीयं नाम ।

सस्यस्य गुणलक्षणानि[सम्पादयतु]

अस्य वृक्षस्य आकारः सामान्यः किन्तु अस्य बाह्यमूलानि आवृक्षं व्याप्तानि भवन्ति । तेषु एव सुन्दराणि नागलिङ्गपुष्पाणि विकसन्ति । कार्पासगोलकाः इव दृश्यमानानि अस्य बृहत्पलानि वृक्षकाण्डसमीपं भवन्ति ।

प्रयोजनानि[सम्पादयतु]

धार्मिके भारतदेशे शिवमन्दिरस्य पुरः प्रारोपिताः नागलिङ्गवृक्षाः । उद्यानेशु मार्गपार्श्वेषु अन्यत्र च सौन्दर्यवर्धनार्थं एते वृक्षाः संवर्धिताः । अस्य फालानि पाश्वाहार्थम् उपयुज्यन्ते ।

"https://sa.wikipedia.org/w/index.php?title=नागलिङ्गम्&oldid=454934" इत्यस्माद् प्रतिप्राप्तम्