नागानन्दम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

श्रीहर्षेण रचितेषु त्रिषु नाटकेषु अन्यतमं विद्यते नागानन्दम् । रत्नावली प्रियदर्शिका च तेन रचिते अन्ये नाटके । एते द्वे नाटिका इत्येतस्मिन् उपरूपकप्रकारे अन्तर्भूते स्तः । नागानन्दं नाट्यशास्त्रपरिभाषया 'नाटक'प्रकारे अन्तर्भूतम् अस्ति । अस्य नाटकस्य स्वरूपं पृष्ठभूमिका च अन्ययोः नाटिकयोः भिन्नम् एव विद्यते । इदं गम्भीरवातावरणयुक्तं नाटकम् । अस्मिन् पञ्च अङ्काः सन्ति । अस्य कथावस्तु बौद्धमूलकथातः स्वीकृतमस्ति । जीमूतवाहननामकस्य बोधिसत्त्वस्य आत्माहुतिः एव अस्य विषयः । इयं कथा बृहत्कथायां दृश्यते । नाटकस्य प्रथमाङ्कत्रये जीमूतवाहन-मलयवत्योः प्रेमवृत्तान्तः चित्रितः अस्ति । अन्तिमाङ्कद्वये नायकस्य स्वार्थत्यागस्य अतिशयता चित्रिता अस्ति । आदिमाङ्कत्रये शृङ्गाररसः, अन्तिमाङ्कद्वये त्यागवीररसयोः पोषणं दृश्यते ।

कथावस्तु[सम्पादयतु]

’नागानन्दम्’ नाटकस्य प्रस्तावनायां कथावस्तोः मूलस्य विषये वदन् श्रीहर्षः अपूर्ववस्तुरचनालङ्कृतं विद्याधरजातकप्रतिनिबद्धं नागानन्दं नाम नाटकं कृतम् इत्युक्त्वा एतस्य मूलं विद्याधरजातकम् इति स्पष्टतया सूचितवान् अस्ति ।
पैशाचीभाषाया रचिता गुणाढ्यस्य बृहत्कथा इत्यस्याः कथासङ्ग्रहेऽपि जीमूतवाहनस्य कथा स्यात् । बृहत्कथा इदानीं न लभ्यते चेदपि क्षेमेन्द्रस्य बृहत्कथामञ्जर्यां जीमूतवाहनस्य कथा लभ्यते । इदानीम् अध्ययनदृष्ट्या कथासरित्सागरस्य, बृहत्कथामञ्जर्याः जीमूतवाहनस्य कथा एव मूलम् इति गृहीत्वा साम्यतायाः भिन्नतायाः च विचारः कृतः अस्ति ।

मूलकथायाः नाटकस्य च समानांशाः[सम्पादयतु]

१. मित्रावसुः स्वस्य अनुजां मलयवतीं जीमूतवाहनाय प्रददाति ।
२. गरुडः परितापेन अग्निप्रवेशकरणार्थं निश्चयं करोति ।
३.गरुडः जीमूतवाहनस्य पुनरुज्जीवनात् पूर्वं गच्छति ।
४. अमृतवर्षणेन नागानां पुनरुज्जीवनम् ।
५. मातङ्गनामकस्य शत्रोः उल्लेखः ।

मूलकथायाः, नाटकस्य च भेदाः[सम्पादयतु]

नाटकस्य प्रथमाङ्कद्वयस्य कथा मूले नास्ति । जीमूतवाहनः स्वस्य मित्रेण आत्रेयेन सह आश्रमं संस्थापयितुं प्रशस्तस्थानस्य अन्वेषणं करोति । मलयपर्वते स्थानस्य चयनं भवति । गौरीमन्दिरात् मधुरसङ्गीतध्वनिः श्रूयते । एताः प्रथमाङ्कस्य घटनाः । द्वितीये दृश्ये गौरीमन्दिरे मलयवत्याः, तस्याः सखीनाञ्च सम्भाषणद्वारा जीमूतवाहनः ज्ञातवान् यत् मलयवत्याः पतिः विद्याधरचक्रवर्तिः भविष्यति इति स्वप्ने गौरीदेव्या वरदानं कृतम् इति । आत्रेयस्य अनुरोधेन जीमूतवाहनः मन्दिरं प्रविश्य मलयवत्याः सख्या सह सम्भाषणं करोति । तदा मलयवतीम् आह्वातुं कश्चन तपस्वी तत्र आगच्छति । सः जीमूतवाहनं दृष्ट्वा एषः विद्याधरचक्रवर्तिः भविष्यति इति भविष्यं वदति । मूलकथायाम् एताः घटनाः न सन्ति ।
द्वितीयाङ्कस्य द्वितीये दृश्ये जीमूतवाहनः स्वप्ने मलयवत्याः उपवेशनस्य स्थानं दृष्ट्वा स्थानस्य अन्वेषणं कृत्वा अप्राप्य चित्रे स्वप्नं रचयन् भवति । तावता मलयवत्याः अग्रजः आगत्य पितुः आज्ञानुसारम् अनुजायाः विवाहस्य प्रस्तावं विज्ञापयति । सा स्वस्य प्रिया मलयवती इति अज्ञात्वा सः निराकरणं करोति । इदं रहस्येन ज्ञातवती मलयवती आत्महत्यायाः यत्नं करोति । सख्याः चीत्कारेण तत्र नायकः आगत्य तस्याः रक्षणं करोति । विवाहः निश्चितः भवति ।
तृतीयाङ्के सम्पूर्णतया नाटककर्त्रोः प्रतिभायाः कल्पना । मूलकथायां विद्यमाना विनुता-कद्रूसोदर्योः कथा अत्र नास्ति ।
चतुर्थाङ्कस्य प्रथमदृश्ये विद्यमानः रक्तवस्त्रस्य वृत्तान्तः मूले नास्ति । नाटके मित्रावसोः द्वारा गरुड- वासुक्योः सन्धानस्य विषयः नायकेन ज्ञायते । पितुः आह्वानकारणात् नायकम् एकाकिनं समुद्रतीरे त्यक्त्वा शङ्खचूडस्य आगमनात् पूर्वं मित्रावसुः गच्छति ।
पञ्चमे अङ्के जीमूतवाहनस्य चूडारत्नम् आकाशात् तस्य पितुः चरणौ पतति । मूलावृत्तिषु एतद् मलयवत्याः पार्श्वे पतति । अनन्तरं सा तद् श्वश्रू-श्वशुरयोः कृते दर्शयति । नाटके नायकस्य पिता शङ्खचूडेन पुत्रस्य दुरवस्थां श्रृत्वा तम् अनुसृत्य मलयपर्वतस्य शिखरं गच्छति । अत्र स्वस्य मरणात् पूर्वं नायकः गरुडाय उपदेशं ददाति ।
आहत्य नाटकस्य प्रथमाङ्कत्रयस्य विशेषसंयोजनस्य उद्देशः श्रृङ्गारहास्यसन्निवेशानाम् आनयनमेव । सर्वत्र जीमूतवाहनस्य स्वार्थत्यागः दृश्यते । मलयवत्याः विषये अगाधप्रीतिः, मातापित्रोः विषये गौरवादरश्च यद्यपि आसन् तथापि परोपकरणावसरे अन्ये विषयाः तं न बाधन्ते स्म । आत्मार्पणं स्वार्थत्यागश्च तस्य सहजस्वभावः आसीत् ।

वस्तुविन्यासः[सम्पादयतु]

नागानन्दनाटके स्तरद्वयं द्रष्टुं शक्यते । आदिमाङ्कत्रये शृङ्गाररसस्य पोषणम्, जीमूतवाहनस्य निःस्वार्थता, सेवायाः च दर्शनं भवति । अन्ते अङ्कद्वये गरुड-नागयोः सन्धिः, जीमूतवाहनः गरुडस्य आहाराय भवति इत्यत्र त्यागवीररसयोः पोषणमस्ति ।

निवेशनस्य अन्वेषणम्[सम्पादयतु]

मातापित्रोः वानप्रस्थस्वीकरणसमये जीमूतवाहनः अपि राज्यभारं मन्त्रिभ्यः दत्त्वा वनम् आगच्छति । आत्रेयेन सह जीमूतवाहनः मलयपर्वतम् आरुह्य तत्रत्यं सुन्दरं परिसरं दृष्ट्वा तदेव निवेशनाय प्रशस्तस्थानम् इति निर्णयति ।

प्रथममिलनम्[सम्पादयतु]

प्रथामाङ्कस्य द्वितीये दृश्ये गौरीमन्दिरतः श्रूयमाणात् मनोहरगीतात् आकृष्टौ आत्रेय-जीमूतवाहनौ तत्र गत्वा रहस्येन पश्यतः । सुन्दरी काचित् सख्या सह सम्भाषणं करोति स्म । तेन तस्याः स्वप्नवृत्तान्तः एताभ्यां ज्ञायते यद् तस्याः स्वप्ने गौरीदेवी दर्शनं दत्त्वा 'विद्याधरचक्रवर्ती भवत्याः पाणीग्रहणं करिष्यति' इति उक्तवती आसीत् इति । तदा आत्रेयः अनुक्षणं तस्याः पुरतः गत्वा ‘एषः एव सः वरः’ इति जीमूतवाहनं दर्शयति । एवं तयोः प्रथममिलनं भवति ।

विरहाभिव्यक्तिः[सम्पादयतु]

द्वितीयाङ्कस्य आरम्भे चतुरिका, मनोहरिका इति मलयवत्याः सखीद्वयस्य सम्भाषणाद्वारा ज्ञायते यद् अनुजायाः विवाहस्य प्रस्तावनां कर्तुं यः विश्वावसुः जीमूतवाहनस्य समीपे गतवान् सः इतोऽपि न प्रत्यागतवान् । मलयवती विरहपीडिता अस्ति इति ।
अग्रिमे दृश्ये जीमूतवाहनस्यापि विरहवेदना द्रष्टुं शक्यते । एतन्मध्ये एव मित्रावसु-जीमूतवाहनयोः सम्भाषणं प्रचलति । स्वस्य प्रिया तस्य अनुजा एव इति अज्ञात्वा जीमूतवाहनः ‘न शक्यते अन्यत्र प्रवृत्तं चित्तम् अत्र प्रवर्तयितुम्’ इति वदति । इदं वचनं रहस्येन श्रुतवती मलयवती निराशतया आत्महत्यायाः यत्नं करोति ।

आत्महत्याप्रयत्नः रक्षणञ्च[सम्पादयतु]

दुःखं सोढुम् अशक्ता मलयवती आत्महत्यायाः यत्नं यदा करोति तदा तस्याः सखी चतुरिका रक्षणार्थं चीत्कारं करोति । तदा जीमूतवाहनः एव आगत्य कण्ठे विद्यमानं लतापाशं क्षिप्त्वा तस्याः हस्तं गृह्णाति । चतुरिकाद्वारा सर्वं ज्ञात्वा आत्रेयः जीमूतवाहनेन लिखितं चित्रं दर्शयति । द्वयोः अपि भ्रमः निर्गच्छति । ज्येष्ठानाम् अङ्गीकारं स्वीकृत्य विवाहः निर्वर्त्यते ।

दम्पत्योः मधुचन्द्रः[सम्पादयतु]

तृतीयाङ्कस्य द्वितीये दृश्ये परिवारजनैः सह नवविवाहितौ दम्पती सन्तोषेण भवतः । ततः केनापि कारणेन आत्रेय-चतुरिकादयः सर्वे ततः गच्छन्ति । तदा दम्पत्योः एकान्तः लभ्यते । जीमूतवाहनः मलयवतीम् उद्दिश्य अयि मुखमिदं मुग्धे सत्यं समं कमलेन ते, मधु मधुकरः किं वैतस्मिन् पिबन्न विभाव्यते इति यदा वदति तदा सा लज्जया अन्यत्र पश्यति ।

एकान्तभङ्गः नूतनः आयामः च[सम्पादयतु]

मित्रावसोः आगमनेन तयोः एकान्तभङ्गः भवति । जीमूतवाहनस्य राज्यं मतङ्गः वशीकृतवान् अस्ति इति विषयं मित्रावसुः उक्त्वा तदर्थं प्रतिकारः करणीयः इत्यपि सूचयति । किन्तु जीमूतवाहनः तस्य कोपशमनाय तं लतागृहं नीत्वा स्वस्य परोपकारभावस्य दर्शनं कारयति । अग्रिमस्य आत्मत्यागस्य सम्बन्धः एवं कल्प्यते ।

गरुड-नागयोः सन्धेः वृत्तान्तः[सम्पादयतु]

जीमूतवाहनः मित्रावसुना सह समुद्रतीरं प्रति विहारार्थं यदा आगच्छति तदा तत्र नागानाम् अस्थिराशिं दृष्ट्वा किम् एतद् इति पृच्छति । तदा मित्रावसुः गरुड-नागयोः सन्धेः वृत्तान्तं वदति । गरुडः पाताळात् यथेष्टनागान् स्वीकृत्य खादति स्म । अतः नागानां राजा वासुकिः सन्धिं कृतवान् यद् प्रतिदिनमपि एकैकः नागः समुद्रतीरम् आगत्य गरुडस्य आहारः भवेत् इति । अतः एषः अस्थिराशिः वर्धमानः अस्ति इति वृत्तान्तं श्रृत्वा जीवदयासागरस्य जीमूतवाहनस्य मनसि आघातः भवति । मम प्राणत्यागेन कस्यचित् नागस्य रक्षणं करणीयम् इति सः चिन्तयन् भवति ।

जीमूतवाहनस्य आत्मसमर्पणम्[सम्पादयतु]

एतस्य चिन्तनानुसारमेव तेन अवसरः प्राप्यते । मित्रावसोः गमनानन्तरं ‘हे पुत्र ! अद्य भवतः मरणं कथं पश्यामि ?’ इति चीत्कारं श्रुत्वा जीमूतवाहनः तत्र द्रष्टुं गच्छति । तदा ज्ञायते यद् तस्मिन् दिने वृद्धायाः कस्याश्चित् नागिन्याः एकमात्रपुत्रेण शङ्खचूडेन गरूडस्य आहारत्वेन गन्तव्यमास्ति इति । वध्यशिलां गच्छन्तं पुत्रं दृष्ट्वा माता मूर्छिता जाता । शङ्खचूडस्य स्थाने स्वयम् आत्मार्पणं कर्तुम् इष्ट्वा जीमूतवाहनः यदा शङ्खचूडः पूजार्थं गतवान् भवति तदा स्वयं रक्तवस्त्रं धृत्वा वधास्थाने उपविश्य गरुडस्य आहारः भवति ।

जीमूतवाहनस्य मरणवार्ता[सम्पादयतु]

पञ्चमाङ्कस्य आरम्भे जीमूतवाहनः समुद्रतीरतः नागतवान् इति मित्रावसोः गृहजनानां च आतङ्कः भवति । तावता आर्द्रमांसलेपितचूडामणिः कश्चित् आकाशात् जीमूतकेतोः पादे पतति । ततः जीमूतवाहनस्य मरणवार्ता श्रुता । तस्य मातापितरौ मलयवती सर्वे अग्निप्रवेशार्थं सज्जाः भवन्ति ।

जीमूतवाहनस्य पुनरुज्जीवनं, नागानाम् आनन्दः च[सम्पादयतु]

भक्षणसमयेऽपि आनन्देन स्थितवन्तं व्यक्तिं दृष्ट्वा गरुडः आश्चर्यम् अनुभवति । शङ्खचूडेन सः विद्याधरचक्रवर्ती जीमूतवाहनः इति ज्ञात्वा सः लज्जया आत्मत्यागं कर्तुं सज्जः भवति । किन्तु इतोऽपि जीववान् जीमूतवाहनः तं निवारयति ।
तावता जीमूतवाहनस्य गृहजनाः सर्वे तत्र मिलिताः भवन्ति । तस्य मातापितरौ अपि यदा अग्निप्रवेशार्थं सज्जाः भवन्ति तदा मलयवती गौरीदेवीं पृच्छति दौर्भाग्यवत्याः मम कारणतः भवती अपि असत्यम् उक्तवती इव अभवत् किल ? इति । तदा माता प्रत्यक्षा भूत्वा अहं कथम् असत्यं वदेयम् ? इत्युक्त्वा जीमूतवाहनं स्पृष्ट्वा, जलं सम्प्रोक्ष्य, आशीर्वादं करोति । सः उत्थाय उपविशति । विद्याधरचक्रवर्ती इत्येतां पदवीम् अपि दयपालयति । गरुडः अमृतवर्षणेन सर्वान् नागान् पुनः उज्जीवयति ।

रसपरिपोषणम्[सम्पादयतु]

अत्र प्रारम्भाङ्कत्रये श्रृङ्गाररसः प्रधानः अस्ति । अन्तिमे अङ्कद्वये करुणरसः प्रधानः अस्ति । तथापि एतौ उभौ रसौ अपि अस्मिन् नाटके प्रधानौ न स्तः । नाटकस्य अन्ते लभ्यमाना वीररसस्य पोषणार्थम् एतौ रसौ स्तः ।
केवलं युद्धकरणेन वीररसस्य उत्पत्तिः भवति इति नास्ति । दयया, दाने, त्यागे यः पराकाष्ठतां दर्शयति सः अपि वीरः एव इति दशरूपकेन अङ्गीकृतमस्ति । अन्यजीवस्य रक्षणार्थं स्वस्य देहस्य बलिदानं तु त्यागस्य उत्कृष्टस्थितिः । गरुडः चञ्चूद्वारा वारं वारं विध्यति चेदपि प्रसन्नभावेन जीवत्यागः त्यागस्य भव्यतां दर्शयति ।

पात्ररचना[सम्पादयतु]

अस्मिन् नाटके १९ पात्राणि सन्ति । तेषु १२ पुरुषपात्राणि, ७ स्त्रीपात्राणि ।
जीमूतवाहनः : एषः नाटकस्य नायकः, विद्याधरराजकुमारः, शास्त्रज्ञः, चित्रकलाविदः, मातापितृभक्तः, त्यागशीलः च । कस्यचित् नागस्य रक्षणार्थं स्वस्य जीवस्य एव बलिदानं कृतवान् । एतस्य व्यक्तित्वं सर्वादर्शसम्पन्नम् ।
मलयवती : एषा नागानन्दनाटकस्य नायिका । अप्रतिमरूपसम्पन्ना, वीणावादिका च । जीमूतवाहने तस्याः अगाधा प्रीतिः । नाटककारः एतां मुग्धनायिका इव चित्रितवान् अस्ति ।
शङ्खचूडः : एषः कश्चित् नागः, आदर्शवादिपौरः च । राजाज्ञां शिरसा वहति । गरुडाय स्वम् अर्पयितुं सज्जः भवति । जीमूतवाहनः तं रक्षितुम् इच्छति चेदपि एषः कुलस्य कलङ्कः न भवामि, कर्तव्यं पूर्णं करोमि इत्येव चिन्तयति । अन्ते जीमूतवाहनस्य मरणानन्तरमपि एषः स्वयम् आत्मार्पणं कर्तुं सिद्धः भवति इति शङ्खचूडस्य पात्रस्य उदात्तचित्रमस्ति ।
आत्रेयः (विदूषकः) : सामान्यः विदूषकः इव विकृताकृतिः, विकृतवेषभूषः, मूर्खत्वम् अस्ति चेदपि एषः मित्रप्रेमविषये निष्कापट्यं दर्शयति । जीमूतवाहनस्य विश्वासार्हः जनः ।
मित्रावसुः : मलयवत्याः अग्रजः एषः । प्रापञ्चिकजनः अयम् । अतः अनुजां जीमूतवाहनाय दातुमपि एतस्य मनसि द्वन्द्वं भवति । परोपकारार्थं स्वस्य जीवदानं एतस्य महते आश्चर्याय भवति । अनुजायाः पत्युः कष्टं न भवेत् इति भावः सर्वत्र दृश्यते ।
गरुडः : नाटके गरुडस्य पात्रं बहुक्रूरतया चित्रितमस्ति । कठोरस्वभाववान् एषः स्वस्य आहाररूपेण आगतस्य जीमूतवाहनस्य आनन्दं दृष्ट्वा आश्चर्यम् अन्वभवत् । सः कः इति ज्ञातवतः तस्य स्वदोषः अवगम्यते । बोधिसत्त्वं मारितवता मया अग्निप्रवेशः एव करणीयः इति निश्चित्य, जीमूतवाहनस्य उपदेशं श्रुत्वा तदनुगुणम् आचरामि इति प्रतिज्ञां करोति । अमृतवर्षणेन मृतान् सर्पान् उज्जीवयति ।
चेटिचतुरिका : एषा मलयवत्याः विश्वासार्हा सखी । अन्वर्थनामा इयं बहु चतुरा अपि । मलयवत्याः खिन्नतां, निराशां दृष्ट्वा तस्याः आत्महत्यासम्भवम् एषा स्वयम् ऊहयति । ताम् अनुसृत्य गत्वा तस्याः रक्षणं करोति ।
नायकस्य पितरौ : जीमूतकेतुः जीमूतवाहनस्य पिता । कनकवती माता । विद्याधरराजा जीमूतकेतुः प्रजापालनं व्रतमिव आचर्य अन्ते वानप्रस्थाश्रमं स्वीकृत्य मलयपर्वते निवसति । पुत्रस्य मरणवार्तां श्रुत्वा उभौ अपि अग्निप्रवेशं कर्तुम् उद्युक्तौ ।

अन्यानि पात्राणि[सम्पादयतु]

१. विटः शेखरकः, चेटी नवमालिका : एतौ तृतीयाङ्कस्य विवाहोत्तरस्य विनोदसन्दर्भेषु परिहासं कुर्वन्तौ हास्यरसं पोषयतः ।
२. वसुभद्रः : एषः मलयवत्याः पितुः विश्वावसोः कञ्चुकिः । आत्मदानसमये जीमूतवाहनाय रक्तवर्णस्य वस्त्राणि आनीय ददाति ।
३. सुनन्दः : मित्रावसोः द्वारपालकः एषः ।
४. चेटः : एषः विटशेखरस्य सेवकः । विदूषकस्य हास्यकरणे सहकरोति ।
५. वासुकेः सेवकः : एषः शङ्खचूडाय वासुकेः आज्ञां निवेद्य वध्यशिलां गन्तुं तस्मै रक्तवस्त्रं ददाति । ६. शाण्डिल्यः एषः कश्चन तपस्वी । जीमूतवाहने भविष्यतः विद्याधरचक्रवर्तिनं दृष्टवान् । जीमूतवाहन-मलयवत्योः आदर्शदाम्पत्यं भवतु इति आशीर्वादं करोति ।
७. शङ्खचूडस्य माता : मातृवात्सल्यस्य अपरं रूपम् ।
८. मनोहरिका : मलयवत्याः अन्या सखी ।
९. गौरी : नाटकस्य अन्ते दर्शनं ददाति । नाटकस्य सुखान्ते एषा साहाय्यं करोति । जीमूतवाहनाय पुनर्जीवं दत्त्वा तं विद्याधरचक्रवर्तिनं करोति ।
एवम् एतस्मिन् नाटके पात्रवैविध्यता दृश्यते । आहत्य श्रीहर्षः प्रधानपात्राणां पोषणे कृतकृत्यः चेदपि अन्यपात्राणां पोषणे तावद् अवधानं न दत्तवान् स्यात् इति भासते । नायकस्य उदात्तजीवनस्य आदर्शपोषणे एव एते स्वेषां धन्यताभावं प्राप्नुवन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=नागानन्दम्&oldid=253261" इत्यस्माद् पुनः प्राप्तिः