नागाल्याण्डराज्यम्
| Nagaland नागाल्याण्डराज्यम् |
|||
|---|---|---|---|
| — राज्यम् — | |||
|
|||
| भारते नागाल्याण्डराज्यम् | |||
| नागाल्याण्डराज्यस्य भूपटः | |||
| Coordinates (कोहिमा): 25°40′N 94°07′E / 25.67°N 94.12°ECoordinates: 25°40′N 94°07′E / 25.67°N 94.12°E | |||
| राष्ट्रम् | |||
| उद्घोषणम् | १ डिसम्बर् १९६३ | ||
| राजधानि | कोहिमा | ||
| मण्डलम् | ११ | ||
| सर्वकारः | |||
| • राज्यपालः | निखिल कुमारः | ||
| • मुख्यमन्त्री | नेव्यु रै | ||
| विस्तीर्णम् | |||
| • Total | Square km ( Square mile) | ||
| विस्तीर्णतास्तरः | २५तम | ||
| जनसङ्ख्या (२०११) | |||
| • Total | |||
| • श्रेणी | २४तम | ||
| भारतीय कालगणनम् (UTC+05:30) | |||
| साक्षरतापरिमाणम् | ८०.११% (१३तम) | ||
| भाषा | आङ्ग्लम् | ||
| जालस्थानम् | http://nagaland.nic.in/ nagaland.nic.in | ||
नागाल्याण्डराज्यं (Nagaland) भारतस्य ईशान्यदिशि विद्यमानं राज्यम् । अस्य राज्यस्य पश्चिमसीमायाम् असमराज्यम्, अरुणाचलप्रदेशराज्यम्, उत्तरदिशि असमभागः, पूर्वदिशि बर्मा, दक्षिणदिशि मणिपुरराज्यञ्च विद्यते । राज्यस्य राजधानी कोहिमा, बृहत्तमं नगरं दीमापुरम् । अस्य विस्तारः १६,५७९ च कि मी। २०११ तमे वर्षे जातायाः जनगणनायाः अनुसारम् अत्रत्या जनसङ्ख्या अस्ति १९, ८०, ६०१ । सीमायां विद्यमानम् असम-उपत्यकाप्रदेशं विहाय आराज्यं पर्वतप्रदेशैः युक्तमस्ति । इदं राज्यं समभाजकवृत्तस्य पूर्वदिशि ९८० ९६० रेखांशे उत्तरदिशि २६.६० - २७.४० अक्षांशे विद्यते । भारतस्य १६ तमं राज्यं नागाल्याण्ड् १९६३ तमे वर्षे डिसेम्बर्मासस्य १ दिनाङ्के प्रतिष्ठापितं जातम् । इदं ११ मण्डलैः युक्तम् - कोहिमा, फेक्, मोकोक्चङ्ग्, वोख, झन्हेबोटो, त्यून्साङ्ग्, मान्, दीमापुर्, किफिर्, लाङ्ग्लेङ्ग्, पेरेन् च । कृषिकार्यम् अत्रत्यं प्रमुखम् आर्थिकमूलम् । व्रीहिः, धान्यकं, तमाखुः, तैलबीजानि, इक्षुदण्डः, आलूकम् इत्यादयः अत्रत्याः फलोदयाः । सस्यविज्ञानम्, गृहोद्यमः, योगक्षेमयोजना, स्थावरसम्पदा, प्रवासोद्यमः च अन्यानि आर्थिकमूलानि ।
अन्तर्विषयाः |
इतिहासः [सम्पादयतु]
नागावनवासिनां सम्प्रदायाः आर्थिककार्याणि एव अस्य पूर्वतनः इतिहासः । मूलतः बर्मीस्-भाषया एते जनाः आदौ नाकाः इति निर्दिश्यन्ते स्म । अस्य अर्थः विद्धकर्णाः जनाः इति । 'नाग'इति शब्दः ब्रिटिश्जनैः दत्तमिति श्रूयते अर्थः अस्ति 'नग्नः' इति । ब्रिटिश्जनाः मणिपुरस्य वनवासिनः स्थूलतया द्विधा विभक्तवन्तः 'नागाः' 'कुकीजनाः' इति । नागावनवासिनः असमप्रदेशस्य बर्माप्रदेशस्य वनवासिभिः सह सामाजिक-आर्थिक-राजनैतिकसम्पर्कं रक्षितवन्तः आसन् । अद्यत्वे अपि अधिकांशाः नागाः असमप्रदेशे निवसन्ति । १८१६ तमस्य उपप्लवस्य अनन्तरं असमप्रदेशेन सह इदं स्थलं बर्मायाः आधीन्ये अन्तर्भूतम् । १८२६ तमे वर्षे ब्रिटिश्-ईस्ट्-इण्डिया-संस्थया असमप्रदेशः आक्रान्तः । तदा ब्रिटनेन आधुनिक-नागापर्वताः आक्रान्ताः । १८९२ समये यून्सेङ्ग्प्रदेशं विहाय अवशिष्टाः नागापर्वतप्रदेशाः ब्रिटिशसर्वकारस्य अधीनाः आसन् । ते असमप्रदेशेन योजिताः आसन् । क्रिश्चियन्-मतप्रचारकाणां व्यापकप्रयत्नेन नागालेण्डस्य नागावनवासिनः क्रिश्चियन्मतस्थाः जाताः । ततः पूर्वतनः इतिहासः न ज्ञायते ।
राज्यत्वप्राप्तेः मार्गः [सम्पादयतु]
प्रथमजागतिकयुद्धावसरे ब्रिटीश्जनाः नागाजनान् रहस्यकार्याय नियोजितवन्तः फ्रान्स्देशे । ततः तैः चिन्तितं यत् स्वस्य अस्तित्वस्य रक्षणाय अस्माभिः एकता रक्षणीया इति । १९१८ तमे वर्षे मातृभूमिं प्रति प्रत्यागमनानन्तरं ते सङ्घटिताः जाताः । आन्दोलनम् आरब्धवन्तः च। वर्षे स्वातन्त्र्यप्राप्तेः अनन्तरं सः प्रदेशः असमराज्ये अन्तर्भूतः जातः। नागाजनेषु केचन क्रान्तिकारिणः उत्पन्नाः। फिझोनायकत्वयुक्तः नागाराष्ट्रियायोगः मूलजनाः पूर्वजाः च राजनैतिकदृष्ट्या युक्ताः स्युः इति आग्रहम् अकरोत् । सर्वकारः विध्वस्तः, विप्लवः उत्पन्नः । १९५५ तमे वर्षे भारतीयसैन्यम् अत्र प्रेषितं शान्तिस्थापनाय। १९५७ तमे वर्षे सर्वकारेण सन्धानकार्यम् आरब्धम् । असमराज्ये स्थिताः नागापर्वतप्रदेशाः त्यून्सङ्ग्प्रदेशश्च संयोजितः । इदं केन्द्रसर्वकारेण एव शास्यते स्म । इदं नागाजनैः न इष्टम् इत्यतः शीघ्रमेव विरोधः अहिंसा च आरब्धा । १९६० तमे वर्षे भारतस्य प्रधानमन्त्रिणा नागागणस्य नायकैः च गभीरचर्चा कृता। ततः १६ बिन्दु-अङ्गीकारेण सह नागाग्याण्डराज्यस्य उगमः जातः। १९६१ तमे वर्षे विविधसम्प्रदाययुक्तैः वनवासिगणैः ४५ नागाः चिताः ये च अन्तर्गणे योजिताः जाताः । ततः तस्य राज्यत्वं प्राप्तम् । १९६३ तमस्य वर्षस्य नवेम्बर् ३० तमे दिनाङ्के अन्तर्गणस्य विलयनं जातं, विध्युक्तरीत्या राज्यत्वस्य घोषणं जातम् । १९६३ तमे वर्षे डिसेम्बर्मासस्य १ दिनाङ्के कोहिमा राजधानीत्वेन परिगणिता । १९६४ तमे वर्षे जातस्य निर्वाचनस्य अनन्तरं फेब्रवरी ११ दिनाङ्के प्रथमा विधानसभा संरचिता जाता ।
वातावरणम् [सम्पादयतु]
नागाल्याण्ड्राज्यं पर्वतीयराज्यम् । असमप्रदेशे ब्रह्मपुत्रस्य उपत्यकायां नागापर्वताः २००० पादमिताः उन्नताः । आग्नेयदिशी ६००० पादमिताः उन्नताः । १२,५५२ पादमितोन्नतः सारामतिपर्वतः राज्यस्य उन्नततमं स्थानम् । अत्रैव नागापर्वताः बर्मायाः पट्कै-आवल्या सह संयोजिताः भवन्ति । दोयाङ्ग्-दिफूनद्यौ उत्तरे, बारक्नदी नैरुत्ये, बर्मायाः चिन्द्विन्नदी आग्नेये च राज्यं विभजन्ति । राज्यस्य भूप्रदेशे २०% भागः विविधैः सस्यैः प्राणिभिः सह युक्तं घनारण्यं वर्तते । नागाल्याण्ड्राज्यं मान्सून्वातावरणेन युक्तम् आर्द्रताधिक्ययुक्तञ्च । वार्षिकवृष्टिः ७०-१०० इञ्च्मिता भवति आधिक्येन मेतः सेप्टेम्बर्मासं यावत् । तापः २१० से - ४०० सेण्टिग्रेड्मितः । शैत्यकाले तापः ४० से अपेक्षया न्यूनः तु न भवति । ग्रीष्मकाले तापः १६०-३१० सेण्टिग्रेड्मितः भवति । राज्यस्य केषुचित् भागेषु शैत्यस्य शीघ्रागमनं महत् शैत्यं शुष्कवातावरणञ्च अनुभूयते । फेब्रवरि-मार्चमासयोः महान् वातः दृश्यते । =
सस्यसम्पत्तिः प्राणिसम्पत्तिश्च= [सम्पादयतु]
नागाल्याण्ड्राज्यं सस्यसम्पत्या युक्तं वर्तते । राज्यस्य षष्ठांशः घानारण्येन युक्तः वर्तते यत्र तालवृक्षः, वंशवृक्षः, वेतसवृक्षः, दारुवृक्षः च विद्यन्ते । गजाः, चित्रकाः, विविधजातीयाः वानराः, वृषभाः, महिष्यः च अत्र विद्यन्ते । भारतीयः चातकपक्षी अत्र दृश्यमानेषु प्रसिद्धपक्षिषु अन्यतमः। 'ब्रित्स् ट्रगोपन्' इत्येषः पक्षी राज्यपक्षी वर्तते। अयं पक्षी कोहिमामण्डलस्य जप्तु-झुकु-पर्वतयोः उपत्यकासु, जुन्हेबोटोमण्डलस्य् सटोप्रदेशे, फेक्मण्डले फुसेरोप्रदेशे च दृश्यते ।
संस्कृतिः [सम्पादयतु]
नागल्याण्ड्राज्यस्य १६ वनवासिगणाः - अङ्गमि, ओ, छखेसङ्ग्, चाङ्ग्, खियम्नियुङ्गन्, कोन्याक्, लोथा, फोम्, पोचुरि, रेङ्ग्मा, सङ्ग्तम्, सुमि, यिम्चुङ्गर्, कुकि झिलियाङ्ग् च । "वयनम्" अत्रत्यानां साम्प्रदायिकी कला । एकैकस्य वनवासिगणस्य च विशिष्टः विन्यासः वर्णाश्च भवन्ति । तैः राङ्कवः, स्कन्दस्यूतः, उत्पीठिका-आवरणिका, काष्ठकृतिः , वंशिकला , आलङ्कारिकाणि वस्तूनि च निर्मीयन्ते । बहुषु वनवासिगणेषु तैः ध्रियमाणस्य राङ्कवस्य विन्यासः तेषां सामाजिकं स्तरं द्योतयति । जनपदगानं नृत्यञ्च नागासंस्कृतेः प्रमुखः भागः। जनपदकथानां गीतानां च द्वारा मौखिकीपद्धतिः रक्षिता अस्ति । नागाजनपदगीतानि शृङ्गारात्मकानि ऐतिहासिकानि च भवन्ति यत्र पूर्वजानां कथाः जीवनघटनाश्च भवन्ति । युद्धनृत्यानि अन्यानि च नागल्याण्ड्राज्यस्य प्रमुखः कलाप्रकारः । नागाल्याण्ड्वनवासिनः महता आनन्देन उत्साहेन च उत्सवान् आचरन्ति। ६०% जनाः कृषकाः इत्यतः उत्सवाः अपि कृषिसम्बन्धिनः । उत्सवाः पवित्राः अतः अनिवार्यतया एतेषु भागः वोढव्यः इति ते चिन्तयन्ति । एकैकोपि गणः स्वीयान् उत्सवान् श्रद्धया निष्ठया च आचरति इत्यनेन इदम् उत्सवराज्यं मन्यते। अत्र आचर्यमाणाः प्रमुखाः उत्सवाः सन्ति - जनवरिमासे चाकेसाङ्ग्स्जनैः आचर्यमाणः सुखेन्यी, कुकिभिः आचर्यमाणः मिङ्कुत्, कचरिभिः आचर्यमाणः बुषु, अङ्गमिभिः आचर्यमाणः सेकेन्यी, ओलिङ्ग्, मोत्सु, तुलुनि, न्यक्न्य्लुम्, माङ्ग्माङ्ग्, तोखु एमाङ्ग्, येम्शे इत्यादयः।
नागाल्याण्डस्य हार्न् बिल् उत्सवः [सम्पादयतु]
अयम् उत्सवः नागाल्याण्ड्सर्वकारेण डिसेम्बर् २००० तमे वर्षे आरब्धः। वनवासिगणानां परस्परस्नेहसम्बन्धः वर्धनीयः, राज्यस्य सांस्कृतिकी परम्परा रक्षणीया च इति धिया । अयम् उत्सवः डिसेम्बर्मासस्य १ तः ७ दिनाङ्केषु भवति । प्रवासोद्यम-कला-संस्कृतिविभागाः च अस्य आयोजनं कुर्वन्ति । तदा सांस्कृतिकप्रदर्शनानि एकस्मिन् छदि उपस्थाप्यन्ते । सप्ताहात्मकः अयम् उत्सवः कोहिमातः १२ कि मी दूरे स्थिते नागासाम्प्रदायिकग्रामे किसमायां प्रचलति । सर्वे वनवासिगणाः अस्मिन् भागं वहन्ति । उत्सवस्य लक्ष्यमस्ति यत् नागाल्याण्ड्राज्यस्य वैभवयुतसंस्कृतेः प्रदर्शनं रक्षणञ्च । हार्न्बिल्नाम्ना उत्सवः नामाङ्कितः यस्मिन् विषये सर्वेषु वनवासिगणेषु जनपदकथाः श्रूयन्ते । साप्ताहिके अस्मिन् उत्सवे सर्वे एकत्र मिलिताः भवन्ति । कला, क्रीडा, आहारः, मेला, गृहवैद्यम्, पुष्पप्रदर्शनम्, गीतम्, नृत्यम् इत्यादिषु सर्वे विनोदम् अनुभवन्ति । साम्प्रदायिकाः कलाः चित्रकला, काष्ठकृतिः इत्यादयः प्रदर्श्यन्ते । विविधाः साहसस्पर्धाः, साहित्यकूटम्, वाहनस्पर्धाश्च आयोज्यन्ते।
धर्मः [सम्पादयतु]
नागाल्याण्ड्राज्ये क्रिश्चियन्मतम् आधिक्येन विद्यते । जनसङ्ख्यायां ९०.०२% जनाः क्रैस्ताः एव । क्रिस्तमन्दिरगन्तॄणां सङ्ख्या अपि अत्यधिका विद्यते ग्रामेषु नगरेषु च । कोहिमा, दीमापुर, मोकोचङ्ग्प्रदेशेषु महाक्रिस्तमन्दिराणि विद्यन्ते । भारतस्य त्रिषु क्रैस्तजनसङ्ख्याधिकएषु राज्येषु अन्यतमम् वर्तते इदम्।
भाषाः [सम्पादयतु]
नागान्याण्ड्राज्यस्य एकैकस्य वनवासिगणस्य अपि विशिष्टा भाषा विद्यते । सिनो-टिबेटन्कुटुम्बे अन्तर्भूताः ६० विविधाः भाषाः अत्र विद्यन्ते । एतासां भाषाणां लिपिः न विद्यते । रोमन्लिप्या एताः लिख्यन्ते । १९६७ तमे वर्षे राज्यसर्वकारेण आङ्ग्लभाषा अधिकृतभाषात्वेन अङ्गीकृता । अत्रत्य शिक्षणमाध्यमम् अस्ति आङ्ग्लभाषा। "नागमीस्भाषा" आधिक्येन उपयुज्यते । प्रतिवनवासिगणः परस्परं मातृभाषया अन्यगणीयैः सह नागामीस्भाषया च भाषन्ते। किन्तु इयं भाषा कस्यापि गणस्य मातृभाषा न, लिपियुक्ता अपि न।
जनसङ्ख्याशास्त्रम् [सम्पादयतु]
नागाल्याण्ड्राज्यस्य जनसङ्ख्या २० लक्षात्मिका । तेषु अधिकांशाः कृषकाः । ७५% जनाः ग्रामेषु निवसन्ति । एतेषु ग्रामनिवासेषु ३५% जनाः दारिद्र्यरेखातः अधः निर्दिष्टाः । नगरनिवासिषु पञ्चमांशाः परमदरिद्राः ।
शासनम् [सम्पादयतु]
राज्यपालः राष्ट्रपतेः प्रतिनिधिः सन् राज्यस्य नायकः । शासनसम्बद्धैः दायित्वैः सह तस्य अनुष्ठानिकदायित्वानि भवन्ति । विधानसभायां ६० जनाः विद्यन्ते । ते एव कार्यनिर्वाहकाः चिताः सदस्याः । एतेषां प्रमुखः मुख्यमन्त्री । नागाल्याण्ड्राज्याय विशिष्टं स्वातन्त्र्यम् अधिकाराः दत्ताः सन्ति । अत्रत्याः नागावनवासिनः स्वीया न्यायनिर्णयादिव्यवस्थां रक्षितवन्तः । तत्र विभिन्नेषु स्तरेषु स्थानीयाः विवादाः परिह्रीयन्ते ।
मण्डलानि -मण्डलकार्यालयाश्च [सम्पादयतु]
- दीमापुरमण्डलम् - दीमापुरम्-चुम्केडिमा
- किफिरेमण्डलम् - किफिरे
- कोहिमामण्डलम् - ग्रेटर् कोहिमा
- लाङ्ग्लेङ्ग्मण्डलम् - लाङ्ग्लेङ्ग्
- मोकोचुङ्ग्मण्डलम् - मोकोचुङ्ग्
- मान्मण्डलम् - मान्
- पेरेन्मण्डलम् - पेरेन्
- फेक्मण्डलम् - फेक्
- त्युयेन्साङ्मण्डलम् - त्युयेन्साङ्ग्
- वोखामण्डलम् - वोखा
- झुन्हेबोटोमण्डलम् - झुन्हेबोटो
वीथिका [सम्पादयतु]
बाह्यशृङ्खला [सम्पादयतु]
- State Portal of the Government of Nagaland
- Department of IT & Technical Education
- Department of Forest, Ecology, Environment and Wildlife
- Department of Horticulture
- Nagaland - Journey Through The Choir Of Clouds (Documentary)
विकिट्रेवले Nagaland यात्रा मार्गदर्शिका- A photojournalist in Nagaland