नामकरणसंस्कारः
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
|
|
|
परम्पराः
|
|
प्रवेशद्वारम्:सनातनधर्मः |
अयं संस्कारः शिशोः जन्मानन्तरदश वा एकादशदिनानन्तरं भवति । गोपनीयं नाम तु जातकर्मसंस्कारे एव भवति । उच्चारणार्हं नाम् एतस्मिन् दिने भवति । शुभमुहूर्ते च नक्षत्रे मघुरध्वनियुतं नामचतुराक्षरैः वा द्वि अक्षरात्मकं भवति । नाम्नः करणं नामकरणम् । शिशोः जन्मनः दशमे एकादशे वा दिवसे पुण्येऽवसरे पिता प्राणानाचम्य “ अस्य पुत्रस्य नामकरणं करिष्ये” इति संकल्प्य “ पुण्याहं कथयित्वा नान्दीश्राध्दं च विधाय ब्राह्मणान् भोजयित्वा कुमारस्य नाम” दद्यात् । ब्राह्मणशिशोः जन्मतः दशमदिवसे, क्षत्रियाणां त्रयोदशे षोडशे वा दिवसे, वैश्यानां षोडशे विंशतितमे वा दिवसे, शुद्राणां द्वाविंशे मासान्ते वा नामकरणसंस्कारः करणीयः ।