नारदस्मृतिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

द्वितीये तृतीये वा शतके प्रणीता नारदस्मृतिः पुरातनेषु स्मृतिग्रन्थेषु अन्यतमा अस्ति । सामान्यतः स्मृतिग्रन्थाः आचार-व्यवहार-प्रायश्चित्तादीन् विषयान् बोधयन्ति । नारदस्मृतिः विशेषतया व्यवहारविषयमेव बोधयति । अस्मिन् आचारविषये, अपराधव्यवहारविषये, न्यायदानप्रक्रियायाश्च विषयः विद्यते । प्राचीनव्यवहारसंहितायै अस्याः स्मृतेः योगदानं महत्त्वपूर्णम् अस्ति । व्यवहारसंहितायाः विधीनां लिखितरूपम् ऐदम्प्राथम्येन अत्रैव दृश्यते । अस्याः स्मृतेः अन्यः विशेषः अंशः नाम महिलानाम् अधिकारविषये अत्र उदारचिन्तनं दृश्यते ।

परिचयः[सम्पादयतु]

पुरातनधर्मशास्त्रग्रन्थाः हिन्दुविधीन् बोधयन्ति । अत्र विधयः विशालदृष्ट्या परिगण्यन्ते । अत्र उक्ताः नियमाः धार्मिकाचरणम् अनुसरति । विविधवर्णानाम् आश्रमधर्माः अत्र बोध्यन्ते । अतः अत्र समाजस्य सर्वेषु क्षेत्रेषु व्यक्तेः व्यवहारः कथं स्यात् इति बोधयति । अतः अयं सामाजिकनियमश्च भवति । मनुस्मृतौ सर्वविधाः सामाजिकाः धार्मिकाः नियमाः उक्ताः । अत्र नैतिकनियमानां धार्मिकाचरणस्य च महान् भेदः न विद्यते । इदं सकारात्मकनियमः इति कथयितुं शक्यते । याज्ञवल्क्यस्मृतौ भागत्रयं विद्यते - आचारः, व्यवहारः, प्रायश्चित्तश्चेति ।

नारदस्मृतौ आचार-प्रायश्चित्तभागाः न विद्यन्ते । अत्र पूर्णम् अवधानं व्यवहारविषये एव । अस्यां १०२८ श्लोकाः विद्यन्ते । न्यायप्रक्रियायाः विषये नारदेन लिखितः प्रास्ताविकः अध्यायः, व्यवस्थितक्रमेण योजितानि १८ व्यवहारपदानि च अत्यन्तं महत्त्वपूर्णं वर्तते । स्मृतिचन्द्रिका कथयति - 'नारदीयोद्देशक्रमानुसारिणाञ्च वयम्' इति । १०२८ श्लोकेषु सप्तशताधिकाः श्लोकाः स्मृतिग्रन्थानां व्याख्यानकर्तृभिः - मेधातिथि-मिताक्षरादिभिः उल्लिखितम् अस्ति ।

कालः[सम्पादयतु]

नारदस्य कालनिर्देशः कष्टसाध्यः । नारदः मनुस्मृतेः उल्लेखं बहुधा करोति इत्यतः सः अनन्तरकालीनः इति तु स्पष्टम् । मनुस्मृतिम् अनुसृत्य इदं लिखितमिति स्वयं वदति । ५० श्लोकाः मनुस्मृतौ नारदस्मृतौ च समानाः विद्यन्ते । याज्ञवल्क्येन कृतायां धर्मशास्त्रकाराणाम् आवल्यां नारदस्य नाम न विद्यते । नारदेन लिखिताः बहवः नियमाः याज्ञवल्क्येन लिखिताः नियमाः इव एव सन्ति । याज्ञवल्क्येन उक्ताः मूलकल्पनाः नारदेन वर्धिताः दृश्यन्ते । याज्ञवल्क्यः प्रकरणम् इति वदति यत् तत् नारदः व्यवहारपदम् इति निर्दिशति । विषयविस्तारः नारदस्मृतौ विशेषरूपेण दृश्यते । एतैः कारणैः नारदः याज्ञवल्क्यस्य अनन्तरकालीनः इति निर्णीयते । नारदः प्रथम- तृतीयशतकानां मध्ये आसीत् इति भाति ।

विषयाः[सम्पादयतु]

नारदस्मृतौ अष्टादश अध्यायाः- 'व्यवहारपदानि' सन्ति । तेषां निर्वचनञ्च एवं दत्तमस्ति -

ऋणदानम्[सम्पादयतु]

ऋणं देयमदेयं च येन यत्र यथा च यत् ।
दानग्रहणधर्माभ्यामृणादानमिति स्मृतम् ॥

उपानिधिः[सम्पादयतु]

स्वं द्रव्यं यत्र विश्रम्भान्निक्षिपत्यविशङ्किरः ।
निक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैः ॥

सम्भूयसमुत्थानम्[सम्पादयतु]

वणिक्प्रभृतयो यत्र कर्म सम्भूय कुर्वते ।
तत्सम्भूयसमुत्थानं व्यवहारपदं स्मृतम् ॥

दत्ताप्रदानिकम्[सम्पादयतु]

दत्त्वा द्रव्यमसम्यग्यः पुनरादातुमिच्छति ।
दत्ताप्रदानिकं नाम तद्विवादपदं स्मृतम् ॥

अशुश्रूषाभ्युपेत्यम्[सम्पादयतु]

अभ्युपेत्य च शुश्रूषां यस्तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्यैतद्विवादपदमुच्यते ॥

वेतनस्यानपाकर्म[सम्पादयतु]

भूतानां वेतनस्योक्तो दानादानविधिक्रमः ।
वेतनस्यानपाकर्म तद्विवादपदं स्मृतम् ॥

अस्वामिविक्रयः[सम्पादयतु]

निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा ।
विक्रीयतेऽसमक्षं यद्विज्ञेयोऽस्वामिविक्रयः ॥

विक्रीयसम्प्रदानम्[सम्पादयतु]

विक्रीय पण्यं मूल्येन क्रेत्रे यत्र प्रदीयते ।
विक्रीयासम्प्रदानं तद्विवादपदमुच्यते ॥

क्रीतानुशयः[सम्पादयतु]

क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते ।
क्रीतानुशय इत्येतद्विवादपदमुच्यते ॥

समयस्यानपाकर्म[सम्पादयतु]

पाषण्डिनैगमादीनां स्थितिः समय उच्यते ।
समयस्यानपाकर्म तद्विवादपदं स्मृतम् ॥

सीमाबन्धः[सम्पादयतु]

सेतुकेदारमर्यादाविकृष्टाकृष्टनिश्चये ।
क्षेत्राधिकारो यस्तु स्याद्विवादः क्षेत्रजस्तु सः ॥

स्त्रीपुंसयोगः[सम्पादयतु]

विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते ।
स्त्रीपुंसयोगनामैतद्विवादपदमुच्यते ॥

दायभागः[सम्पादयतु]

विभागोऽर्थस्य पित्र्यस्य पुत्रैर्यत्र प्रकल्प्यते ।
दायभाग इति प्रोक्तं तद्विवादपदं बुधैः ॥

साहसम्[सम्पादयतु]

सहसा क्रियते कर्म यत्किञ्चिद्बलदर्पितैः ।
तत्साहसमिति प्रोक्तं सहो बलमिहोच्यते ॥

स्तेयम्[सम्पादयतु]

तस्यैव भेदः स्तेयं स्याद्विशेषस्तत्र दृश्यते ।
आधिः साहसमाक्रम्य स्तेयमाधिश्छलेन तु ॥

वाक्पारुष्यम्[सम्पादयतु]

देशजातिकुलादीनामाक्रोशन्यङ्गसंयुतम् ।
यद्वचः प्रतिकूलार्थं वाक्पारूष्यं तदुच्यते ॥

दण्डपारुष्यम्[सम्पादयतु]

परगात्रेष्वभिद्रोहो हस्तपादायुधादिभिः ।
भस्मादीनामुपक्षेपैर्दण्डपारुष्यमुच्यते ॥

द्यूतसमाह्वयम्[सम्पादयतु]

अक्षब्रध्नशलाकाद्यैर्देवनं जिम्हकारितम् ।
पणक्रीडा वयोभिश्च पदं द्यूतसमाह्वयम् ॥

प्रकीर्णम्[सम्पादयतु]

प्रकीर्णके पुनज्ञेर्यो व्यवहारो नृपाश्रयः ।
राज्ञामाज्ञाप्रतीघातस्तत्कर्मकरणं तथा ॥
"http://sa.wikipedia.org/w/index.php?title=नारदस्मृतिः&oldid=195276" इत्यस्माद् पुनः प्राप्तिः