नीलगिरि एक्स्प्रेस् ( ब्ल्यू मौण्टन् एक्स्प्रेस्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


एतत् धूमशकटवाहनस्य नाम अस्ति । मेटुपाळ्यं स्थानकतः ऊटी पर्यन्तं धूमशकटमार्गः विशिष्टः अस्ति । घट्टप्रदेशे धूमशकटयानं सावधानेन तन्नाम प्रतिघण्टं ३३ कि.मी वेगेन आरोहणावरोहणं करोति । अन्त्ये १८०० मीटरोन्नतप्रदेशं गच्छति । मार्गमध्ये १२ निस्थानानि सन्ति । हिलग्रौव्, सन्निमिडे इत्यादि निस्थाननामानि सन्ति । उटकमण्डलम् अथवा ऊटी अन्तिमम् निस्थानम् अस्ति । मार्गे ३६ सुरङ्गमार्गाः, १९ सेतवः च भवन्ति । सर्वत्र भव्यं वनसौन्दर्यम् , उत्तमम् अनुभवं सन्तोषं च जनाः प्राप्नुवन्ति । पर्वतशिखराणां दर्शनं मेघानां विलासः च अत्र द्रष्टुं शक्यते । विशेषसमये मार्च-एप्रिल्-मेमासेषु विशेषधूमशकटयानानां व्यवस्था भवति । धूमशकटयानानि मेट्टुपाळ्य़तः चेन्नैतः च सन्ति ।

निस्थानकानि तथा अन्तरम्[सम्पादयतु]

चेन्नै सेन्ट्रल् (० कि.मी)
अरक्कोणम् (६९कि.मी)
सेलम् (३३४कि.मी)
ईरोड् (३९६कि.मी)
तिरुप्पुर् (४४६कि.मी)
कोयम्बत्तूर् (उत्तरम्)(४९४कि.मी)
कोयम्बत्तूर् (४९७कि.मी)
मेट्टुपाळ्यम् (५३२कि.मीkm)