नैऋत्य-खासि-हिल्स्-मण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

South West Khasi Hills District
मण्डलम्
मेघालयराज्ये नैऋत्य-खासि-हिल्स्-मण्डलम्
मेघालयराज्ये नैऋत्य-खासि-हिल्स्-मण्डलम्
देशः  India
मण्डलम् नैऋत्य-खासि-हिल्स्-मण्डलम्
विस्तारः १,३४१ च.कि.मी.
जनसङ्ख्या(२०११) ६१,०३२
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://mawkyrwat.gov.in/basic.html

नैऋत्य-खासि-हिल्स्-मण्डलं (आङ्ग्ल: South West Khasi Hills District) मेघालयराज्ये स्थितं मण्डलमिदम् । अस्य मण्डलस्य केन्द्रमस्ति मौकरवट् इत्येतन्नगरम् ।

भौगोलिकम्[सम्पादयतु]

नैऋत्य-खासि-हिल्स्-मण्डलस्य विस्तारः १,३४१ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तरदिशि पश्चिम-खासि-हिल्स्-मण्डलं, पश्चिमदिशि दक्षिण-गारो-हिल्स्-मण्डलं, पश्चिम-खासि-हिल्स्-मण्डलं च, दक्षिणदिशि बाङ्ग्लादेशः, पूर्वदिशि पूर्व-खासि-हिल्स्-मण्डलम् अस्ति । अत्र १९७ से.मी.मितः वार्षिकवृष्टिपातः भवति । अस्य प्रदेशस्य अङ्गारं, कर्करं, 'युरेनियम' च प्रमुखखनिजसम्पत्तिः ।

जनसङ्ख्या[सम्पादयतु]

नैऋत्य-खासि-हिल्स्-मण्डलस्य जनसङ्ख्या(२००१) ६१,०३२ अस्ति ।

ऐतिहसिकं किञ्चित्[सम्पादयतु]

मौकरवट् विभागस्य स्थापना २६ जून १९८२ तमे वर्षे कृता । नैकानां संवत्सरानाम् अनन्तरं अस्य उपविभागस्य नैऋत्य-खासि-हिल्स्-मण्डलत्वेन स्थापना कृता । तथा मौकरवट् इत्येतन्नगरम् अस्य मण्डलस्य केन्द्रत्वेन निर्धारितम् ।

अर्थव्यवस्था[सम्पादयतु]

अस्य मण्डलस्य अर्थव्यवस्था कृष्याधारिता, ग्रामीणा च अस्ति । कृषिः एव ९०% जनानाम् उपजीविकां कल्पयन्ति । इदानीं अत्रस्थजनाः 'Cash Crops' अपि उत्पादयन्ति । तण्डुलः, किणः, 'सोयाबीन', आलुकं, आर्द्रकं, हरिद्रा, क्षुज्जनिका, पूगफलं, ताम्बूलवल्ली, नारङ्गफलम्, 'प्लम्', 'पिच', मधुकर्कटी, पनसफलम्, अननसं, कदलीफलं, 'लिची', तिन्त्रिणी च प्रमुखसस्योत्पादनानि सन्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले उपमण्डलद्वयम् अस्ति -

  • मौकरवट्
  • राणिकोर्

लोकजीवनम्[सम्पादयतु]

अत्रस्था प्रमुखजनजातिः अस्ति । अत्रस्थजनाः प्रमुखतया खासि, गारो च भाषाभ्यां वदन्ति । मुख्यत्वेन सर्वकारीयकार्यं, कृषिकार्यं, उद्यमः च जनानाम् उपजीविकां कल्पयन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले कानिचन वीक्षणीयस्थलानि सन्ति । तानि -

  • लौब्लेय्-उम्जारैन्(जाक्रेम्) उष्णजलकुण्डानि
  • रिलैङ्ग (मौरङ्ग्लाङ्ग)प्रेक्षणीयस्थलम्
  • ताय्न्नै स्थलम्
  • नौङ्ग्नाह् स्थलम्
  • बोर्बा सिङ्ग सेतु
  • रानिकोर् तथा मोइलाम् नदीतटे
  • कुबाह् तथा क्युबिट् गह्वरे
  • पर्वतशिखराणि - लौपौ, कोह्थाय्ल्लौ, कैल्लै लोङ्दङुन्, कुबाह्
  • सिम्पर रौक्

बाह्यानुबन्धाः[सम्पादयतु]