नैनितालमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नैनितालमण्डलम्

Nainital District

नैनिताल जिला
Lake district of India
नैनितालमण्डलम्
नैनितालतडागस्य मनोरञ्जकं दृश्यम्
देशः  India
राज्यम् उत्तराखण्डः
उपमण्डलानि नैनिताल, रामनगर, कलधौगी, हल्डवानी, धारी, लालकौन, कोस्य कुतौली, बेटलघाट
विस्तारः ३,८६० च.कि.मी.
जनसङ्ख्या(२०११) ९,५४,६०५
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ८३.८८%
भाषाः कुमाँउनी, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://nainital.nic.in/

नैनितालमण्डलम् ( /ˈnɛɪnɪtɑːləməndələm/) (हिन्दी: नैनिताल जिला, आङ्ग्ल: Nainital District) उत्तराखण्डराज्यस्य कुमाऊंविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति नैनिताल इति नगरम् । नैनितालमण्डलं मन्दिर-पर्यटन-तडाग-प्राकृतिकदृश्यादिभ्यः प्रख्यातमस्ति । आङ्ग्लकालीनप्रासादाः अपि वीक्षणीयाः सन्ति अत्र ।

भौगोलिकम्[सम्पादयतु]

नैनितालमण्डलस्य विस्तारः ३,८६० च.कि.मी.-मितः । उत्तराखण्डराज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि अल्मोडामण्डलं, पूर्वदिशि चम्पावतमण्डलं, दक्षिणदिशि उधमसिॆहनगरमण्डलं, पश्चिमदिशि पौरीगढवालमण्डलम् अस्ति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा - कोसी, गोमती, रामगङ्गा, सवन्नाह, सोनानदी, मण्डल, पलैन

जनसङ्ख्या[सम्पादयतु]

नैनितालमण्डलस्य जनसङ्ख्या(२०११) ९,५४,६०५ अस्ति । अत्र ४,९३,६६६ पुरुषाः, ४,६०८,९३९ स्त्रियः, १,२४,२७२ बालकाः (६५,३३७ बालकाः, ५८,९३५ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २२५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २२५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २५.१३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८३.८८% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८३.८८% स्त्री - ७८.३६% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- १ नैनिताल २ रामनगर ३ कलधौगी ४ हल्डवानी ५ धारी ६ लालकौन ७ कोस्य कुतौली ८ बेटलघाट ।

वीक्षणीयस्थलानि[सम्पादयतु]

भीमताल[सम्पादयतु]

नैनिताल-नगरात् द्वाविंशतिः (२२) कि.मी. दूरे स्थितः एषः नैनितालमण्डलस्य बृहत्तमः तडागः अस्ति । महाभारतस्य प्रख्यातपात्रस्य भीमसेनस्य नाम्ना अस्य तडागस्य नाम भीमताल इति । तडागस्य केन्द्रे लघुद्वीपः अस्ति । तं द्वीपं प्राप्तुं नावा गन्तव्यं भवति । तत्र सुन्दरं मत्स्यगृहमस्ति । नैनितालतडागवत् भीमतालतडागे सम्मर्दः (Crowd) तु न भवति, परन्तु तडागस्थाः हंसाः अतिथीनां मनोरञ्जनं सम्यक् कुर्वन्ति । जनाः कथयन्ति यत्, सम्मर्दस्य (crowd) अभावादेव तडागस्य सौन्दर्यं, स्वच्छता च संरक्षितास्ति । भीमेश्वरनामकं शिवमन्दिरमपि स्थितमस्ति भीमतालतडागस्य तीरे ।

सातताल (सप्ततडागः)[सम्पादयतु]

सप्तानां तडागानां समूहः अस्ति अस्मिन् स्थले, अतः अस्य नाम 'सातताल' इति । निसर्गः तु सर्वदा पवित्रः, निर्दोषः एव भवति । मनुष्यः स्वस्वार्थपूर्त्यर्थं निसर्गस्य कार्ये विघ्नम् उत्पादयति । अतः निसर्गः मनुष्यरूपिणः स्वबालकान् बोधयति यत्, “मम रक्षणं करोतु, भवतः रक्षणं स्वयमेव भविष्यती”ति । अस्य स्थलस्य रमणीयता सतः मनुष्यस्य मनसि एतादृशान् भावान् एव उत्पादयति । अत्रस्थानां सप्तानां तडागानां नामानि – पन्नाताल, नलदमयन्तीताल, पूर्णताल, रामताल, सीताताल, लक्षमणताल, सुखताल ।

बाह्यानुबन्धः[सम्पादयतु]

http://nainital.nic.in/

http://www.euttaranchal.com/uttaranchal/nainital.php

http://dcnai.uk.gov.in/ Archived २०१४-०१-१३ at the Wayback Machine

"https://sa.wikipedia.org/w/index.php?title=नैनितालमण्डलम्&oldid=481639" इत्यस्माद् प्रतिप्राप्तम्