नौकायानक्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नौकायानक्रीडा(Rowing) जलक्रीडा वर्तते ।

नौकायानक्रीडा(Rowing)

विश्वक्रीडामहोत्सवस्य महत्त्वपूर्णासु प्रतियोगितासु नौकाचालनक्रीडा अपि एका विद्यते । यतः ओलम्पिक्-उत्सवस्य अष्टौ श्रेणयः विश्वक्रीडाप्रतियोगितासु चापि मान्याः सन्ति । नौकाम् अष्टसदस्यानां दलं चालयति ।

अधिकृतरूपेण नैकायानं १९०० तथा १९७४ ई० वर्षयोः ओलम्पिक्-क्रीडोत्सवयोः सम्मेलितम् अभूत् । १९०८ तमेशवीयवर्षे अधिकृतरूपेण अस्यै क्रीडायै स्थानं प्राप्तम् । अस्याः प्रतियोगिताक्रीडासु हैनलेस्थाने प्रथमम् आयोजिता अभवत् । प्रारम्भे दलीयस्पर्धायाः एव प्रवेशाद वैयक्तिकी स्पर्धा कीर्तिमानं न प्राप्तवती । दलीयस्पर्धासु -अमेरिका-इङ्ग्लेण्डदेशः-जर्मनी -स्विट्झर्ल्याण्ड् -प्रभृतिभिः तथा वैयक्तिकस्पर्धासु आस्ट्रेलियादेशस्य पियर्सेन सोवियत्-सङ्घस्य च इवानोवमहोदयेन साफल्यम् अधिगत्य स्वर्णपदकं विजितम् । आक्स्फोर्डस्य वार्षिकी प्रतियोगिता नौकायानसम्बन्धिनी प्रसिद्धाऽस्ति । अस्यां महिलाः अपि विश्वक्रीडानेतृपदाय स्पर्धन्ते ।

आधारः[सम्पादयतु]

अभिनवक्रीडातरंगिणी

"https://sa.wikipedia.org/w/index.php?title=नौकायानक्रीडा&oldid=346967" इत्यस्माद् प्रतिप्राप्तम्