पक्षता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सन्दिग्धसाध्यवान् पक्षः इति अण्णम्भट्टस्य ग्रन्थः । अस्य वाक्यस्य अर्थस्तु साध्यप्रकारक-सन्देहविशेष्यत्वम् इति । उदाहरणं तावत् - पर्वतः वह्निमान् न वा इत्याकारक पर्वते (पक्षे) साध्यप्रकारकसन्देहः । तद्विशेष्यत्वं पर्वते इति समन्वयः ।

नवीनन्यायदृष्ट्या[सम्पादयतु]

सिषाधयिषा विरहविशिष्ट सिद्ध्यभावः पक्षता इति भट्टाचार्याः । तत्र प्रमाणं तु

सिषाधयिषया शून्या सिद्धिर्यत्र न तिष्ठति ।
स पक्षस्तत्र वृत्तित्व ज्ञानादनुमितिर्भवेत् ॥ इति मुक्तावलीकारिका ।

सिषाधयिषा नाम साधयितुं इच्छा इत्यर्थः।

"https://sa.wikipedia.org/w/index.php?title=पक्षता&oldid=388801" इत्यस्माद् प्रतिप्राप्तम्