पञ्चतन्त्रम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

फलकम्:Underlinked

पञ्चतन्त्रस्य किञ्चन चित्रम्

पञ्चतन्त्रं (Panchatantra) कश्चन कथाग्रन्थः विद्यते । अस्य ग्रन्थस्य कर्ता अस्ति विष्णुशर्मा । महिलारोप्यस्य राज्ञः अमरशक्तेः बहुशक्तिः रुद्रशक्तिः अनन्तशक्तिः इत्येतान् त्रीन् पुत्रान् षड्भिः मासैः राजनीतिनिपुणान् कर्तुं विष्णुशर्मा पञ्चतन्त्रग्रन्थं रचितवान् इति श्रूयते । पञ्चतन्त्रे गद्यं पद्यं चापि अस्ति । प्रायः कथाभागं निरूपयति गद्यम् । पद्यं च नीतिं निरूपयति ।

पञ्चतन्त्रस्य शाखाभेदः[सम्पादयतु]

दक्षिणापथप्रथिते नेपालदेशीये च पञ्चतन्त्रे पञ्चतन्त्रमिति नाम समानम् । अतो मूलभूतं पुस्तकं पञ्चतन्त्रनामकमासीदिति वक्तुं सुशकम् । तन्त्रपदेन अध्याया उच्यन्ते, 'तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् इति स्मरणात् ।

पञ्चतन्त्रं नाम नैकं पुस्तकमपि तु शास्त्रमिदम् । अत्र शास्त्रे समानाभिधेयाः समानोद्देश्याः समान बहुलांशाश्च बहवो ग्रन्थाः सन्ति । पञ्चतन्त्रस्य शाखा बहुविस्ताराः । तत्र अर्धाधिको भागो विदेशेषु प्रसिध्दः । ११०० तमे ख्रीष्टाब्दे हिब्रू – भाषायामस्यानुवादो जातोऽनन्तरमन्यान्यासु वैदेशिकभाषासु जातैरनुवादैरयं ग्रन्थः पाश्चात्त्यब्शान् व्याप्य तिष्ठति । सम्प्रति 'यावा’ द्वीपादारभ्य 'आइसलैण्ड' पर्यन्तमस्य प्रचारो दृश्यते

पञ्चतन्त्रस्य शाखाः[सम्पादयतु]

सर्वासामपि शाखानामेकं समानं मूलम् । शाखास्तु – (१) नेपालीयं पञ्चतन्त्रम् (२) दक्षिणापथीयं पञ्चतन्त्रम्, (३) हितोपदेशः, (४) बृहत्कथान्तर्गतं पञ्चतन्त्रं यत् क्षेमेन्द्रेण सोमदेवेन च वर्णितम्, (५) तन्त्राख्यायिका, (६) सरलग्रन्थः (७) पूर्णभद्रप्रणीतः, पञ्चतन्त्रग्रन्थश्च ।

  1. नेपालीयं पञ्चतन्त्रम्- नेपालीयपञ्चतन्त्रस्य अनेकानि हस्तलिखितपुस्तकानि अधिगतानि । एषां मध्ये एकस्मिन् पद्यभागमात्रं विद्यते, अपरस्मिन् पद्यभागेन समं गद्य भागोऽपि । अत्र कालिदासीयमेकं पद्यमुद्घृतमिति कालिदासादर्वाग्भवत्वमस्य प्रतीयते । इतोऽधिकमस्य रचनाकालसम्बद्न्धे कथयितुं न शक्यते
  2. दक्षिणापथीयं पञ्चतन्त्रम्- अत्रापि कालिदासीयमेकं पद्यमुदधृतमिति ततोऽर्वाग्भवत्वमस्य सिद्ध्यति । अस्मिन् यावान् मौलिकपञ्चतन्त्रांशः न तावान् सरलग्रन्थे तन्त्राख्यायिकायां वा । अस्मिन् बहवः कथाः प्रक्षिप्ता अपि सन्ति ।
  3. हितोपदेशः – नारायणनामकेन केनापि पण्डितेनायं सङ्ग्रहः कृतः । अत्र स्वयमुक्तं –‘पञ्चतन्त्रात्तयान्यस्माद् ग्रन्थादाकृष्य लिख्यते ’ इति । तेनास्य पञ्चतन्त्ररुपान्तरत्वमुक्त भवति । आचारशिक्षाऽस्य ग्रन्थस्य मुख्यमुद्देश्यम् । अत्रत्याः कथा नानाग्रन्थेभ्यो गृहीताः, यथा- मुनिमूषिककथा महाभारताद् गृहीता, चतुरमतिस्त्रीकथा शुकसप्ततितो गृहीता, वीरवरकथा वेतालपंचविंशतिकातो गृहीता ।
  • नेपाले हितोपदेशस्यैकं १३७३ ख्रीष्टलिखितं पुस्तकं प्राप्तम् ।
  • भट्टारकवारशब्दप्रयोगात् ९०० ख्रिष्टतोऽर्वाऽवग्भवमायाति ।
  • माघात् कामन्दकीयनितिसाराच्च । बहुविषयादानात्ततोऽर्वाग्भवत्वमायति । तदेवं सकलवस्तु पर्यालोचनयाऽस्य कालः १००० ख्रीष्टमितः प्रत्ययो भवति ।
  1. वृहत्कथान्तर्गतं पञ्चत्तरम् –बृहत्कथायांतं पञ्चतन्त्रस्य यद्र्व्पमासीत्तदेव काश्मीरेषु समुपचितं सद् बृहत्वथामञ्जर्यां कथासरित्सागरे चावर्ण्यत क्षेमेन्द्रेणा मञ्जर्यां सोमदेवेन कथासरित्सागरे चास्वैव पञ्चतन्त्रस्य कथाभागो वर्णित इति विदुषामाशयः । अत्र क्वचित् संक्षिप्तत्वं क्वचिद् रुपान्तरितत्वमपि दृश्यते ।
  2. तन्त्राख्यायिका –पञ्चतन्त्रस्यैव रुपविशेषः तन्त्राख्यायिकानाम्ना प्रसिध्दः । काश्मीरदेशे शार्दालप्यामस्यैकमेव पुस्तकमधुनावधि प्राप्तम् । तन्त्राख्यायिकायामाद्यपञ्चतन्त्रस्य यावानंशः सुरक्षितो विद्यते तावानंशो नान्यत्र । अत्र बहवः कथा प्रक्षिप्ता अपि सन्ति, यथा- नीलशृगालस्य, चतुरजम्बुकस्य, सोमिलकतन्तुवायस्य, कुटिलकुट्टिन्याः, नृपशिवेः,वृध्दहंसस्य लशुनचौरस्य,वीरवेषधारिणश्च कथाः । अस्य रचनाकालो निश्चित्य वक्तुमशक्यः ।
  3. सरलग्रन्थः – अयमपि पञ्चतनत्राधारकस्तद्रुपान्तरभूतो वा ग्रन्थः । अस्य तन्त्राख्यायिकया सह महत्साम्यं वर्त्तते । अत्र वैदिकमुनीनां नामानि नोपलभ्यन्ते, जैनमतप्रसिध्दानां दिगम्बरनग्नकक्षपणकधर्मं देशनानप्रभृतीनां शब्दानां प्रयोगस्य दर्शनेन "जैनः कश्चिदस्य ग्रन्थस्य रचयिते ति तर्कयन्ति कतिपये । अत्रमाधकाव्यात् पद्यानि उध्दृतानि पूर्णभद्रश्चामुं स्मरति, तदयं ग्रन्थः ख्रीष्टियैकादशशतकसम्भवः स्यादिति विश्वसन्ति ।
  4. पूर्णभद्रस्य पञ्चतन्त्रम् (पञ्चाख्यानकम्)- पंचाख्यानकनाम्ना प्रसिध्दः पूर्णभद्रकृतोऽयं ग्रन्थः तन्त्राख्यायिकान् अन्यानपि च तद्विष्यकग्रन्थान् विलोक्य कृतः प्रतीयते । सोमाख्यस्य कस्यचिन्मन्त्रिणः प्रसन्नतायै पूर्णभद्रेणा ११९९ तमे ख्रोष्टीये ग्रन्थोऽयं लिखितः ।

मूलपञ्चतन्त्रप्रणेता[सम्पादयतु]

विष्णुशर्मा अमरशक्तिनामकस्य नृपस्य त्रीन पुत्रान् षटभिर्मासैः राजनीतिं शिक्षयितुं ग्रन्थमिमं प्रणीतवानिति पञ्चतन्त्रस्य भूमिकातः प्रतीयते । हस्त्यश्वादियानसाधनं विहायात्रोष्ट्राऽसकृद्वर्णित इति काश्मीरदेश्योऽयं विष्णुशर्मा सम्भाव्यते ।

रचनाकालः[सम्पादयतु]

आद्य पञ्चतन्त्रान्तर्गतत्वेन सम्भाविते एकत्र पद्ये दीनार-शब्दो विद्यते । दीनारो नाम मुद्राविशेषः स हि रोमनमुद्राविशेषः ग्रीसदेश-मार्गेण प्राच्यभारतादिदेशेषु प्रचारमासादितवान् । ५५० तमे क्रिस्तशताब्दे वरजोई महाब्शयेनास्य पञ्चतन्त्रग्रन्थस्य पहलवी भाषायामनुवादः कृतः । एतेन सर्वेण विचार्यमाणेन तृतीये द्वितीये वा ख्रीष्टशतके पञ्चतन्त्रस्य रचना जातेति बाढं प्रत्येतुं शक्यते ।

विवरणम्[सम्पादयतु]

एतस्मिन् ग्रन्थे पञ्च तन्त्राणि सन्ति ।

  1. मित्रभेदः
  2. मित्रप्राप्तिः
  3. काकोलूकीयः
  4. लब्धप्रणाशः
  5. अपरीक्षकारिका

प्रतितन्त्रम् एका प्रधानकथा भवति । नीतिबोधनार्थं पुनः तत्र बह्व्यः उपकथाः भवन्ति । पञ्चतन्त्रस्य शैली अतीव सरला । कासुचित् कथासु लधुहास्यम् अपि दृश्यते । भारतीयसंस्कृतिः सर्वासु कथासु स्फुटतया दृश्यते । इयं ग्रन्थः काश्मीरलिप्या लिखितः अस्ति । अस्य प्राचीनप्रतिकृतिषु 'तत्राख्यायिका' इति नाम दृश्यते । इदं गुप्तशासनकाले लिखितमिति श्रूयते । अयं ग्रन्थः नवरसैः युक्तः चमत्कारगर्भितः लोकानुभवपूर्णश्च अस्ति ।

विभिन्नभाषासु अनुवादः[सम्पादयतु]

पञ्चतन्त्रग्रन्थेन विश्वपर्यटनम् एव कृतम् इति वक्तुं शक्यते । एतस्य ५० भाषाभिः रचितानि २०० रुपान्तराणि सन्ति इति हर्टेलनामकः जर्मनपण्डितः उल्लिखितवान् अस्ति ।
प्रथमभागस्य मुख्यपात्रभूतौ जम्बूकौ करटक-दमनकौ प्राचीनसिरियक्भाषया 'कलिलाग्' 'डमनाग्' इति, अरेबिया भाषया 'कलीलह' डिम्नह' इति च प्रसिद्धौ स्तः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=पञ्चतन्त्रम्&oldid=262476" इत्यस्माद् पुनः प्राप्तिः