पणजी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पणजीम्महानगरम्

पणजी/ पणजे/ पोणजी

Panaji
'land that never floods'
पणजीम्महानगरम्
पणजीमहानगरम्
देशः भारतम्
राज्यम् गोवाराज्यम्
मण्डलम् उत्तरगोवामण्डलम्
महानगरविस्तारः ३६ चतुरस्रकि.मी.
जनसङ्ख्या(२०११) १,१४,४०५
Founded by कदम्बवंशीयः सत्यदेवनामकः राजा
Government
 • Type महापौरपरिषद्-सर्वकारः(Mayor–council government)
 • Body पणजी म्युनिसिपल् कोर्पोरेशन्
 • महापौरः सुरेन्द्र फुर्टाडो
 • उपमहापौरः बेण्टो लोरेना
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
पीनकोड
४०३ ०XX
Area code(s) ०८३२
Vehicle registration जीए-०७
साक्षरता ८५.००%
भाषाः कोङ्कणी, हिन्दी, आङ्ग्लं, पुर्तगाली
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website www.ccpgoa.com

पणजी /ˈpənəɡ/) (हिन्दी: पणजी, आङ्ग्ल: Panaji)नगरं गोवाराज्यस्य उत्तरगोवामण्डलस्य केन्द्रमस्ति । एतत् नगरं माण्डवीनद्याः तीरे विकसितमस्ति । गोवाराज्यस्य तृतीयं बृहत्तममेतन्नगरम् गोवाराज्यस्य राजधानी अस्ति ।

इतिहासः[सम्पादयतु]

पणजी-नगरस्य इतिहासः बहु पुरातनः अस्ति । कदम्बवंशीयः सत्यदेवनामकः राजा (१००७-१०५०) अस्य नगरस्य निर्माणं कारयित्वा अस्य पहजनीखली इति नामकरणं कृतवान् । कोङ्कणी-पुर्तगालीभाषयोः भिन्नोच्चारणत्वात् नगरस्यास्य पोन्नजी, पोङ्गीम इत्येते नामान्तरे स्तः । पणजी इति नाम तु संस्कृतापभ्रंशशब्दः । पहजनी, खली इत्येताभ्यां संस्कृतशब्दाभ्यां व्यत्पुनः पञ्जखली इति मूलशब्दः कदम्बवंशीयस्य त्रिभुवनमल्ल इत्यस्य राज्ञः शासनकाले लिखितताम्रपत्रेषु उल्लिखितः अस्ति । तयोः शब्दयोः अर्थः पहजनी = नौ (Ship), खली = कुल्या (creek) च भवति । पुर्तगालीजनाः गोवाराज्यं यदा स्वाधीनं कृतवन्तः, तदा १८४३ तमस्य वर्षस्य ‘मार्च्’-मासस्य द्वाविंशतितमे (२२) दिनाङ्के नामपरिवर्तने सति अस्य नाम ‘नोवा गोवा’ इति अभूत् । १९६१ तमे वर्षे महाराष्ट्रात् भिन्ने सति अस्य नगरस्य नाम पणजी इति जातम् ।

वीक्षणीयस्थलानि[सम्पादयतु]

  • कला ‘एकेडमी’:- कलाक्षेत्रे अभूतपर्वप्रसिद्धिं प्राप्तवतः ‘दीनानाथ मङ्गेशकर’ इत्यस्य कलाविदः नाम्ना स्थापितं सभागृहम् (Auditorium) अस्ति । तत् सभागृहं ‘बेण्डोगकर’ मार्गे स्थितमस्ति । तस्मिन् सभागृहे अनावृत्तं चलच्चित्रगृहं (Open air Theater), लघुचलचित्रगृहं, गीतमुद्रिकाकक्षः (Recording room), सङ्गीतालयः च अस्ति । ‘फेब्रुआरी’-मासे अत्र POP, BEAT, JAZZ इत्येषां सङ्गीतानाम् उत्सवो भवति । तस्मिन् समये बहवः सङ्गीतरसिकाः तत्र गच्छन्ति ।
  • केसिनो रोयाल् (Casino Royal):- गोवाराज्यस्य बृहत्तमं द्यूतक्रीडाभवनमस्ति एतत् । अत्र धनं जेतुम् ईप्सायां सति भिन्नक्रीडाः क्रीडन्ति जनाः । यथा – Slots, Poker च । अत्र विशालभोजनकक्षः अस्ति ।
  • मीरामर-समुद्रतटः:- माण्डवीनदी-अरबीसमुद्रयोः सङ्गमे स्थितः एषः समुद्रतटः प्रख्यातः अस्ति । मीरामर इति पुर्तगालीशब्दस्यार्थोऽस्ति समुद्रदृश्यम् इति ।
  • दोना पौला:- तत्र अरबी-समुद्रस्य, दोना-पौला-नद्योः च सङ्गमः भवति । तत्र सायंकाले सूर्यास्तस्य दर्शनाय जनाः गच्छन्ति ।

मार्गाः[सम्पादयतु]

विमानमार्गः[सम्पादयतु]

वास्को द गामा इत्यस्मिन् नगरे स्थितं 'डाबोलिम'-विमानस्थानकम् पणजी-तः त्रयोविंशतिः (२३) कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, गोवाराज्याय वायुयानानि सन्ति ।

धूमशकटमार्गः[सम्पादयतु]

भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः पणजी-नगराय धूमशकटयानानि सन्ति । मुख्यतः अहमदाबाद-मुम्बई-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।

भूमार्गः[सम्पादयतु]

भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः पणजी-नगराय 'बस्'यानानि अपि सन्ति । मुख्यतः मडगांव-मुम्बई-वास्को द गामा -आदिनगरेभ्यः 'बस्'यानानि सन्ति ।

बाह्यानुबन्धः[सम्पादयतु]

http://www.ccpgoa.com/ www.ccpgoa.com

"https://sa.wikipedia.org/w/index.php?title=पणजी&oldid=473809" इत्यस्माद् प्रतिप्राप्तम्