मदनमोहन मालवीय

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(पन्डितमदनमोहनमालवीयः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
पण्डितः मदनमोहन मालवीयः

Madan Mohan Malviya

Portrait of Madan Mohan Malviya unveiled by Dr. Rajendra Prasad on 19 December 1957.
President of the Indian National Congress
कार्यालये
1909–10; 1918–19; 1932 and 1933
इदानीन्तन Sonia Gandhi
व्यक्तिगत विचाराः
जननम् 25 December 1861(1861-12-25)
Allahabad, India
मरणम् 12 November 1946(1946-11-12) (aged 84)
Benares
राष्ट्रीयता Indian
राजनैतिकपक्षः Indian National Congress
मुख्यशिक्षणम् Allahabad University
University of Calcutta
धर्मः Hinduism
बनरस् हिन्दू विश्वविद्यालयस्य पुरतः संस्थापकस्य मालवीयस्य मूर्तिः

मदनमोहनमालवीयः एतस्य विश्वस्य भाग्यवशात् एकः महोन्नतः पुरुषः अस्मिन् देशे जातः । स एव मदनमोहनमालवीयः । श्रीमालवीयः अत्यन्तप्रज्ञावान् । मेधाविनः, प्रतिभावतः तस्य जन्मना न केवलं पितरः देशोऽपि भाग्यशाली अभवत् । उत्तरभारते झान्सीपट्ट्णस्य समीपे मालवा इति प्रदेशः अस्ति । मालवीयस्य पूर्वजाः तत्र आसन् । नाम्नः अन्ते निवासप्रदेशस्य योजनम् एकः सम्प्रदायः । मालवीयस्य पितामहः प्रेमधरः उत्तमां ख्यातिम् आर्जितवान् आसीत् । १८५७ तमे वर्षे आङ्ग्लेयान् एतस्मात् देशात् प्रेषयितुं झान्सीराज्ञी लक्ष्मीबाई,नानासाहेबः, तात्याटोपे इत्यादयः वीराः अत्यन्तं साहसं प्रदर्श्य युद्धं कृतवन्तः । तेषां प्रयत्नाः सफलाः न जाताः । आङ्ग्लसाम्राज्ये भारतदेशः कश्चन भागः जातः । एतेन भारतीयजीवने महान् परिणामः जातः । धनिनः, मध्यमवर्गीयाः जनाः आङ्ग्लेयान् अनुकुर्वन्ति स्म । वेषभाषासु, जीवनविधाने च एते परिणामाः स्पष्टं दृष्टाः । आङ्ग्लभाषाभाषणम्, आङ्ग्लेयवस्त्रधारणं, तत्पद्धतीनाम् अनुसरणम् अत्यन्तं गौरवास्पदमिति भावयन्तः आसन् जनाः । किन्तु स्वीयपूर्वजानां सम्प्रदायानां, सिद्धान्तानां विषये मालवीयानाम् अत्यन्तगौरवभावना, विश्वासश्च आसीत् । देशे उच्चलतां पाश्चात्यसमुत्तुङ्गतरङ्गाणाम् अभिमुखं गच्छन्तः आसन् ते । मदनमोहनस्य पिता व्रजनाथः श्रीमद्भागवतं (कृष्णलीलाः - कृष्णभक्तानां गाथाः) पठित्वा विवृण्वन् जीवनं यापयति स्म । एतेन एव ज्ञायते ते कियता कष्टेन जीवनं यापयन्ति स्म इति । विश्वासतः प्रार्थयमानान् जनान् भगवान् कदापि न त्यजति इति गाढः विश्वासः तस्यासीत् । एषः निर्धनब्राह्मणः स्वजीवनभाग्यं सर्वं भगवतः हस्ते न्यस्तवान् आसीत् । मदनमोहनस्य पितामहः पण्डितः प्रेमधरः स्वर्गस्थः अभवत् । सम्प्रदायानुगुण्येन पितुः अपरकर्माणि पवित्रे गयाक्षेत्रे समापितवान् पण्डितः व्रजनाथः । तदा व्रजनाथं गुरवः उक्त्वन्तः "किमपि प्रार्थयतु, भगवान् ददाति, वयमपि आशिषः दद्मः" इति । हस्तद्वयेन अञ्जलिं बद्धवा प्राङमुखः पण्डितः व्रजनाथः प्रार्थितवान् "भगवान् ! महयम् एकं पुत्रम् अनुगृह्णातु । तत्सदृशः अन्यः न स्यात् न भवेत् च" इति । पण्डितस्य व्रजनाथस्य प्रार्थनाः सफलाः । १८६१ संवत्सरे, डिसेम्बर् १५ दिनाङ्के आहियापुरे पण्डितमदनमोहनमालवीयः जातः (आहियापुरम् ग्रामः इदानीं मालवीयनगरम् इति प्रसिद्धम्) । मोहनस्य माता मूनादेवी । सः सन्ध्यासमयः । सर्वगृहेषु दीपज्वालनसमयः । हठाद् घण्टानादः श्रुतः । पण्डितस्य व्रजनाथस्य पुत्रोदयः अभवत् इति जनैः ज्ञातम् । निष्कलङ्कजीवनेन, प्रज्ञापाटवेन, सत्प्रवर्तनेन च सः ग्रामजनानां गौरवपात्रतां गतः आसीत् । सर्वे तं साभिमानं पश्यन्ति स्म । पवित्रग्रन्थानां ज्ञानपरिमलेन पूर्णस्य व्रजनाथगृहस्य पुरतः जनानाम् आनन्दकोलाहलः आसीत् । मृत्कुड्यैः निर्मितं लघुगृहं तत् । आगताः सर्वे अभिमानिनः तत्र स्थातुं स्थलं न आसीत् । तेभ्यः सर्वेभ्यः मधुराणि वितरितुं शक्तिरपि नासीत् व्रजनाथस्य । मुकुलितकराभ्याम् एव सः आगतान् स्त्कृतवान् । ते सर्वे तम् अभिनन्द्य, आमन्त्र्य गतवन्तः । बालस्य नामकारणोत्सवः अभवत् । प्रथमाक्षरं मकारः भवेदिति, तेन सौभाग्यं भविष्यतीति उक्तवन्तः ज्येष्ठाः । मदनमोहन इति नाम निश्चितम् । मदनमोहनः सर्वदा हसन् उत्साही सन् अवर्धत ।

विद्याभ्यासः[सम्पादयतु]

पञ्चमे वर्षे तस्य विद्याभ्यासः आरब्धः । आहियापुरे पाठशालाः नासन् । हरदेवः नाम पण्डितः 'धर्मज्ञानोपदेशपाठशाला’नाम्नीम् एकां पाठशालां निर्वहति स्म । मदनमोहनं पिता हरदेवसमीपं नीतवान्। 'बालकः श्लोकान् कानपि जानाति वा ?’ इति पृष्टवान् हरदेवः । 'आम्, जानामि’ इत्युक्तवान् बालः । "उत्तमम्, एकं श्लोकं वदतु’ इति प्रृष्टवान् हरदेवः । बालकः अध्यापकस्य पादस्पर्शनं कृतवान् । पितरं दृष्टवान् । हस्तौ बद्धवा एकं श्लोकम् उत्तमशैल्या पठितवान् । सन्तृप्तः पण्डितः हरदेवः अन्यम् एकं श्लोकं पठ इत्युक्तवान् । मधुरेण स्वरेण अन्यत्पद्यं श्रावितवान् मदनमोहनः । उपाध्यायः अत्यन्तं सन्तुष्टः । बालस्य शिरसि हस्तं निधाय अत्यन्तानन्दपूर्णः हरदेवः व्रजनाथमुक्तवान् - "भवान् सत्यमेव भाग्यशाली । भवतः वंशस्य शाश्वतीं कीर्तिम् एतस्य कारणतः प्रतिष्ठापयिष्यति भवान्" इति । पण्डितहरदेवस्य अन्तिके मदनमोहनस्य विद्याभ्यासः आरब्धः । हरदेवः लधुकौमुदीं पाठितवान् । भगवद्गीतां, नीतिश्लोकान्, मनुस्मृतिम्, अनेकविधाः विद्याश्च गुरोः सकाशात् अधीतवान् मदनमोहनः । मदनमोहनस्य अष्टमे वर्षे उपनयनम् अभवत् । गायत्रीमन्त्रम् उपदिष्टवान् व्रजनाथः । (निष्ठया, नियमैश्च जीवनं यापयितुं, वेदविद्याम् अभ्यसितुञ्च गायत्रीमन्त्रम् उपदिशन्ति पितरः गुरवः ।) नित्यं प्रातः सायम् उभयसन्ध्ययोः अनुष्ठानं करोति स्म मेधावी मदनमोहनः । कुमारस्य अनुष्ठानादिकं दृष्ट्वा माता स्वपुत्रः संन्यासी भविष्यति वा इति आशङ्कते स्म । भीता माता पुत्रस्य दुर्दृष्टिनिवाराणाय उपचारान् कारयति स्म । मदनमोहनः अत्यन्तं चपलः आसीत् । क्रीडाः तस्य अतीव प्रियाः । काष्ठैः गोलिकाभिः क्रीडने क्षुत्-निद्रादिकमपि विस्मरति स्म सः । प्रतिदिनम् अवश्यं व्यायामं करोति स्म । प्रातः ६ वादने धर्मज्ञानोपदेशपाठशालायाः आरम्भः भवति स्म । ९.३० वादने पाठशालायाः घण्टानादानन्तरं छात्राः सर्वे मिलन्ति स्म । उन्न्तकक्ष्याच्छात्रद्वारा श्लोकान् उच्चैः रटयति स्म उपाध्यायः । निम्नकक्ष्याविद्यार्थिनः सर्वे उच्चैः अनुरटेयुः । मनुस्मृतिं,भगवाद्गीताञ्च एवमेव वाचयन्ति स्म शिक्षकाः । पुनः पुनः वाचनेन ते कण्ठस्थीकुर्वन्ति स्म श्लोकान् । स्वीयं भोजनम् अधिकृत्य मदनमोहनेन एवम् उक्तम् - "मया क्रियमाणं भोजनं प्रायः राजानः अपि न कुर्वन्ति । पाचकैः पक्तं भोज्यं स्वीकुर्वन्ति राजकुमाराः । पाचकाः तु प्रेम्णा पाकं न कुर्वन्ति । वेतनार्थम् एव ते पाकं कुर्वन्ति । एवम् भृत्यैः साधितं पाकम् अहं न कदापि कृतवान् । मम मात्रा कृतं प्रेमानुरागपुरस्कृतं सुपक्वम् आहारमेव स्वीकृतवान् अहम् । रोचकान् एव पदार्थान् पक्त्वा माता मह्यं यच्छति स्म । माम् एवमेव बाल्ये यौवनेऽपि वर्धितवती सा । अस्मिन् विषये अहम् अत्यन्तं भाग्यवान् च ।" इति । मदनमोहनेन सह पठन्तः केचन छात्राः आङ्ग्लपाठशालासु प्राविशन् । आङ्ग्लभाषां ज्ञातुमैच्छत् मदनमोहनः अपि । अधिकं शुल्कं स्वीकुर्वन्ति स्म आङ्ग्लशालापालकाः । एकः निर्धनः अधिकशुल्कवत्यां पाठशालायां स्वबालं प्रेषयितुं न शक्नोति । तथापि सङ्कल्पः अस्ति चेत् मार्गः लभ्यते एव । पुत्रस्य इच्छां ज्ञातवान् पिता । कटकानि गयाप्रसादनाम्नः कस्यचन निकटे न्यासीकृत्य धनमानीतवती माता । पुत्रम् आङ्ग्लपाठशालायां प्रवेशितवन्तौ पितरौ । गोर्धनसाहेबः आङ्ग्लपाठशालायाम् अध्यापकः । सेनशिक्षक इव अत्यन्तं कठिनं व्यवहरति स्म सः । समये पाठशालायां भवेयुः छात्राः । अश्रद्धावतः भृशं दण्डयति स्म गोर्धनः । पर्युषितम् अन्नं खादित्वा पाठशालां प्रति धावति स्म मदनमोहनः । कुटुम्बं महत्यां दिनावस्थायाम् आसीत् । कदापि मदनमोहनः निराशतां न प्राप्तवान् । अल्पदिनेष्वेव लेखने उच्चारणे च कक्ष्यायां प्रथमं स्थानं प्राप्तवान् । उपाध्यायस्य अनुग्रहपात्रम् अभवत् एषः । सुखेन पठितुं किञ्चिदपि स्थानं गृहे नासीत् । दूरे गङगाप्रसादनाम्नः सहचरस्य गृहमासीत् । सूर्यास्तमनानन्तरं तैलदीपं स्वीकृत्य मित्रस्य गृहे पठति स्म सः । तेषु दिनेषु तस्य दिनचर्या एवं प्रचलति स्म ।

विवाहः[सम्पादयतु]

पञ्चदशवर्षे वयसि कदाचित् मदनमोहनः स्वस्य पितृव्येण सह मिरजापुरम् अगच्छत् । तत्र बहवः पण्डिताः अमिलन् । मेधाविनः स्वयं ज्ञातान् विषयान् अधिकृत्य तत्र भाषणं कृतवन्तः । तेषां भाषणानि श्रुतवतः तस्य बालकस्य विवक्षा उत्पन्ना । द्वित्रवारम् उत्थितश्च । अन्ते अवसरः लब्धः । सः मेधाविनां समूहम् एकवारं विलोक्य सविनयं स्वभाषणम् आरब्धवान् । मृदुमधुरस्वरेण हेतुबद्धेन तस्य संस्कृतभाषणेन, मेधाशक्त्या च ज्येष्ठाः चकिताः अभवन् प्रशंसाः वर्षितवन्तश्च । पण्डितनन्दरामः स्वयं मेधावी । सः एव समावेशं निरूढवान् । मदनमोहनस्य रूपं, मेधा, विनयः च तम् आकर्षन् । मुखतः स्वरः न निर्गतः । स्वस्य तृतीयां पुत्रीं कुन्दनादेवीं तस्मै नवयुवकाय दत्त्वा परिणयः करणीयः इति निर्णीतवान् सः । १५ वर्षीयस्य मदनमोहनस्य विवाहं कुन्दनादेव्या सह सवैभवं कारितवन्तः ज्येष्ठाः । तस्य योग्या पत्नी आसीत् कुन्दनादेवी । कुन्दनादेवी सम्पन्नकुटुम्बादागता युवतिः । श्वशुरगृहे दुर्भरदारिद्य्रम् आसीत् । तस्याः इच्छानुसारं भोजनं न भवति स्म । धर्तुम् उत्तमवस्त्राणि नासन् । दाक्षिण्यहृदया सा कदापि स्वभर्तारं, पितरौ वा एतं विषयम् अधिकृत्य न उक्तवती एव । पत्न्याः सहनशीलताम्, औदार्यं, दयां च दृष्ट्वा विचलितः मदनमोहनः तां पृष्टवान् - 'अस्माकं निर्धनत्वमधिकृत्य कदापि एकं वाक्यमपि नोक्तवती भवती, भवत्याः मातापितरौ प्रत्यपि कुतः न सूचितवती ?’ इति । "सूचयित्वा किं प्रयोजनम् ? मम मातापितरौ बाधाम् अनुभवतः । अश्रूणि स्रावयतः । तेन मम किं प्रयोजनम् ? एतदेव मम मातापित्रोः निवासप्रदेशः । भवानेव मे देवः । एतद् गृहमेव मम स्वर्गः । भवन्तः सर्वे मां सादरं पश्यन्ति । अस्मिन् विश्वे मम इतोऽपि आवश्यकं किम् अस्ति ?" इति समाहित्तवती कुन्दनादेवी । पितृपितामहैः अनुसृते एव पथि भागवतस्य व्याख्यानानि लिखित्वा कीर्तिप्रतिष्ठाः प्राप्तव्याः इति मदनमोहनस्य इच्छा आसीत् । एतमेव विषयं मातरं निवेदितवान् । पुत्रस्य इच्छां श्रुत्वा मूनादेवी 'अस्माकं स्थितिं भवान् जानात्येव । भवान् यद् योग्यम् इति भावयति तत् करोतु’ इत्युक्तवती । मातुः हृदयं ज्ञातवान् मदनमोहनः कस्याञ्चित् पाठशालायाम् उपाध्यायरूपेण प्रविष्टः । तत्र तस्य वेतनम् आसीत् चत्वारिंशद् रूप्यकाणि । पाठशालातः आगमनानुपदमेव व्यायामं करोति स्म सः । सङ्गीतसाधनेऽपि अङ्कितः जातः सः । मुरल्याः, सितारावाद्यस्य च वादनं ज्ञातवान् । प्रभातसमये, सायं च व्रजनाथः पुत्रं मीरायाः, सूरदासस्य च भक्तिगीतानि शिक्षयति स्म । अकिञ्चनत्वेऽपि दिनानि आनन्देन यापयति स्म सः । १८८१तमे संवत्सरे एफ् ए परीक्षाम् उत्तीर्णः अभवत् मदनमोहनः । मैर् सेंट्रल् कलाशालायां पठितवान् सः । ज्ञानसमुपार्जनापिपासया सः आगरायां बि ए कक्ष्यां प्रविष्टः । कार्यान्तरेषु व्यस्ततायाः कारणतः बि ए परीक्षाम् अनुत्तीर्णः । १८८४तमे वर्षे कलकत्ताकलाशालातः स्नातकः जातः सः स्नातकोत्तरपदवीं साधयितुमैच्छत् । तथापि कुटुम्बं क्लिष्टस्थितौ अस्तीति ज्ञात्वा मदनमोहनः उद्योगं प्राप्य मातापित्रोः साहाय्यं कर्तुं निश्चितवान् ।

बहुमुखप्रतिभावान्[सम्पादयतु]

जन्मतः मदनमोहनः कविः । षोडशवयसि एव सः कवितारनाम् आरब्धवान् । अत्यल्पे एव समये सः उत्तमकविः इति प्रसिद्धिं प्राप्तवान् । तस्य कवितानां संग्रहस्य नाम 'मकरन्दः’ इति, प्रथमा कविता च 'राधिकाराणी’ इति आसीत् । भारतराष्ट्रियमहासभायाः द्वितीयसमावेशः कलकत्तायाम् अभवत् । प्रख्यातः दादाभाई नवरोजी तस्य समावेशस्य अध्यक्षः आसीत् । तस्मिन् महति समावेशे एकः युवकः गुरुदेवस्य आदेशानुसारं वेदिकाम् आगतवान् । सः भाषणम् आरब्धवान् । देशभ्क्त्या पूर्णानि तस्य वचनानि गभीरगङ्गाप्रवाहवत् प्रसरन्ति स्म श्रोतृश्रवणकुहरेषु । श्रोतारः आनन्दसागरे मग्नाः इवासन् । भाषाणं सम्पूर्णं श्रुत्वा परवशाः जाताः ते । महासभायाः संस्थापकः ए ओ ह्यूम् महोदयः 'मदनमोहनमालवीयस्य अद्यतनं भाषणं कदापि न विस्मरणीयम्’ इति उक्तवान् । तस्मिन् समये श्रीरामपालसिंहः मालवीयं मिलितवान् । 'हिन्दुस्थान’पत्रिकायाः सम्पादकः सः । स्वपत्रिकायाः सम्पादकत्वदायित्वं स्वीकरोतु इति मालवीयम् अभ्यर्थितवान् । पत्रिकायाः सर्वमपि दायित्वं तस्मै एव दत्तवान् च ।

न्यायवादी[सम्पादयतु]

सामाजिकजीवने असाधारणभारेण पीडितोऽपि १८९२तमे संवत्सरे अलहाबादस्य उन्नतन्यायालये न्यायवादिरूपेण स्थानं प्राप्तवान् मदनमोहनः । अल्पसमये एव सः उत्त्मन्यायवादी इति ख्यातिम् अपि अर्जितवान् । उत्तेजकराणि भाषणानि, अत्यन्तसाधारणाः, सरलाः, विश्लेषणात्मकाः च तस्य वादाः न्यायालये सभासु समावेशेषु च बहून् प्रभावितान् अकुर्वन् । अत्यल्पकाले एव प्रजासु विशिष्टं स्थानं प्राप्तवान् मदनमोहनः । असामान्या मेधासम्पद्, अनर्गला वाक्, सहनशीलता, श्रमं कर्तुं सामर्थ्यं च तं जन्मतः एव प्राप्ताः गुणाः । न्यायवादिरूपेण अधिकं धनार्जनं कृतवान् । स्वजीवने न कदापि अपराधिनाम् अभियोगान् स स्वीकृतवान् । निर्धनानाम्, असहायकानां कृते एव स्वीयं समयं रक्षति स्म सः । भारतीयस्वातन्त्र्यसङ्ग्रामोद्यमे महात्मागान्धिः,सुभाषचन्द्रबोसः इत्यादयः इव मान्यः जातः मदन्मोहनमालवीयः । गान्धिमहोदयः यथा राष्ट्रपिता, तथा मालवीयः राष्ट्रस्य अध्यापकः इति गण्यते स्म । मालवीयः इति वंशनाम्नैव तं सम्मानयन्ति स्म जनाः । १८५७ तमे वर्षे भारतसर्वकारेण कोलकत्ता, मुम्बई, चेत्रै नगरेषु विश्वविद्यालयाः स्थापिताः । एते सर्वे आङ्ग्लविश्वविद्यालयसमाः एवेति घोषिताः ।

विश्वविद्यालयस्वप्नः[सम्पादयतु]

आङ्ग्लभाषाभाषणं, तेषां सम्प्रदायानाम् अनुसरणं व्यवहरणं च अत्युन्नतमिति भावयन्ति स्म तदा केचन भारतीयाः । अत्यन्तमेधावी देशभक्तः मालवीयः भारतीयसंस्कृत्याः पूर्ववैभवं, गौरवं च पुनः साधनीयमिति दृढचिन्तनं कृतवान् । सुशिक्षिताः सर्वेऽपि एतस्याः संस्कृत्याः मौल्यम् अवगच्छेयुः इति आशां प्रकटितवान् । काश्यां हिन्दू विश्वविद्यालयः स्थापनीयः इति निश्चितवान् सः । विश्वविद्यालयस्य स्थापनं सुकरं वा ? एकस्य विद्यालयस्य चालनमेव कष्टकरम् । तथा सति विश्वविद्यालयचालनं कियत्कष्टकार्यम् ? तत्रापि एकेनैव एतत् साहसं करणीयमिति चिन्तितवान् सः । २१ तममहासभा वारणस्यां निरुढा । गौरवाध्यक्षस्थानमलङ्कर्तुं गोपालकृष्णगोखले महोदयम् आहूतवन्तः । मालवीयः एतस्मिन् अवसरे काङ्ग्रेस्-पक्षस्य ज्येष्ठैः नायकैः अमिलत् । हिन्दूविश्वविद्यालयस्य स्थापनविषये स्वीयां तीव्राम् इच्छां प्रकटितवान् । तस्य आशयं श्रुत्वा सर्वे तम् अभिनन्दितवन्तः । काङ्ग्रेस्-पक्षस्य प्रमुखः सुरेन्द्रनाथबेनर्जीमहोदयः उत्तमानाम् अध्यापकानां प्राप्तिपर्यन्तं विश्वविद्यालये आङ्ग्लप्राचार्यरूपेण विना वेतनं कार्यं करोमि इति वचनं दत्तवान् । काशीहिन्दुविश्वविद्यालयस्य कृते स्थानं प्राप्तुं मालवीयः महान्तं प्रयत्नं कृतवान् । तत् स्थलं काशीमहाराजस्य आसीत् । राजा मालवीयं 'यावत् धनम् आवश्यकं तावद् दातुं शक्नोमि किन्तु तत् स्थलं तु मा पृच्छतु । तेन स्थलेन सह मम अनुबन्धः तादृशः अस्ति’ इत्युक्तवान् । किन्तु भगवतः दयया मकरसङ्क्रान्तेः पर्वदिने मालवीयः उपायनरूपेण तदेव स्थलं राज्ञः द्वारा सम्पादितवान् । आर्थिकसमस्या उद्भूता । धनसंग्रहणाय समग्रे देशे पर्यटनं करणीयमिति चिन्तितवान् । प्रत्यहं कथञ्चित् कोशः पूर्णः भवति स्म । अस्मिन्नेव सन्दर्भे सः भाग्यनगरम् (हैदराबाद्) आगतवान् । तस्मिन् काले निजामपदवाच्यः तं प्रदेशं पालयति स्म । हिन्दुविश्वविद्यालयाय धनं दातुं तस्य महम्मदीयमनः नाङ्ग्यकरोत् । तं विषयमेव मालवीयं स्पष्टं सूचितवान् सः । रिक्तहस्तः सन् ततः निर्गन्तुं मालवीयः सुतरां नेच्छति स्म । तस्मिन्नेव दिने हिन्दुः कश्चन मृतः । तस्य शवयात्रायाम् अनुयायिनः नाणकानि विकिरन्तः चलन्ति स्म । मालवीयः भूमौ पतितानि तानि नाणकानि चित्वा स्यूते स्थापयन्नासीत् । तस्य कार्यं दृष्ट्वा केचन आश्चर्यमनुभूतवन्तः । ते अपि नाणकानि चित्वा तस्य स्यूते स्थापितवन्तः । स्यूतः नाणकैः पूर्णः । निजामः एतां घटनां ज्ञातवान् । सः लज्जितः जातः । मालवीयाय अधिकं धनं दत्त्वा अभिनन्दितवान् । हिमालयतःकन्याकुमारिपर्यन्तं, पेशावारतः, ब्रह्मदेश (म्यान्मार्) पर्यन्तम् अनेकवारं देशं समग्रं पर्यटितवान् पण्डितमालवीयः । यत्र कुत्रापि गत्वा उदात्ताय स्वाशयाय धनं याचते स्म धनिकान् । एकस्मिन् पर्याये दरभङ्गायां भागवतमधिकृत्य भाषणं कृतवान् मालवीयः । दरभङ्गामहाराजः अन्तिमदिने कार्यक्रमे उपस्थितः आसीत् । मालवीयस्य अद्भुतं भाषणं श्रुत्वा चकितः महाराजः २५ लक्षरूप्यकाणि उपायनरूपेण दत्तवान् । न केवलं तत् स्वीयं शेषजीवनं मालवीयस्य उदात्ताशयसाधनाय समर्पयामि इति प्रतिज्ञातवान् । तस्य वचनं श्रुतवतः मालवीयस्य नेत्रे आनन्दाश्रुणा पूर्णे जाते । उक्तवचनानुसारं दरभङ्गमहाराजः मालवीयेन सह बहुत्र अटितवान् । देशस्य चतसृषु दिक्षु पर्यटन् मालवीयः एककोटि चतुस्त्रिंशत् लक्षरूप्यकाणि संगृहीतवान् । भिक्षुकाणाम् अधिपतिरिति बिरुदमपि प्राप्तवान् । कदाचित् 'मालवीयतः धनार्जनोपायः ज्ञातव्यः’ इति गान्धिमहाशयः साश्चर्यम् उक्तवान् ।

काशीहिन्दुविश्वविद्यालयः[सम्पादयतु]

१९१६ फेब्रवरीमासस्य चतुर्थदिनांकः शुभप्रदा वसन्तपञ्चमीतिथिः । वाराणस्यां सर्वत्र उत्सववातावरणं दृश्यते स्म । गङ्गानद्याः तीरे तदानीन्तनः वैसराय्-गवर्नर्-जनरल् हरटिञ्च महाशयः हिन्दुविश्चविद्यालयस्य शिलास्थापनम् अकरोत् । बहवः प्रमुखाः राष्ट्रनायकाः, विविधमतनेतारः च तस्मिन् महोत्सवे भागं गृहीतवन्तः । तस्मिन् कार्यक्रमे भाषमाणः मालवीयः वेदाः,उपनिषदः, भगवद्गीता,महाभारतं,रामायणम् इत्यादीनां पवित्रग्रन्थानां पठनस्य आवश्यकता, भारतीयसंस्कृतेः, संस्कृतभाषायाश्च श्रेष्ठता इत्यादिषु विषयेषु अबोधयत् । तेषां साधनायै एव अयं विश्वविद्यालयः संस्थापितः इति अवदत् । सः एव तस्य जीवनश्वासः जातः । "स्वदेशीयाः निर्धनाः न भवेयुः इत्येतदर्थं प्रयत्नः सर्वेणाऽपि कर्तव्यः । कृषिक्षेत्रमात्रे अभिवृद्धिः सर्वतोमुखाभिवृद्धिः न भवति । आर्थिकाभिवृद्धेः अपेक्षया व्यक्तिविकासः शीलनिर्माणं च अत्यन्तं प्रमु्खम् । सर्वोऽपि देशजनः स्वीयधर्मं रक्षेत् । युवानः हिन्दुधर्मस्य रक्षकाः भवेयुः । ते यदि तम् अंशं विस्मरेयुः तर्हि संस्कारहीनाः भवेयुः । प्राप्ता विद्या व्यर्था भवेत् । धर्मग्लानिः स्म्भवेत् । धर्मस्य ज्ञानार्थं विशालं लक्ष्यम् आवश्यकम् । हिन्दुधर्मं ये सम्यक् जानन्ति तेषां सः धर्मः जीवनमार्गदर्शकः दीपः इव भवति । अद्यतनयुवजनाः अस्माकं संस्कृतिं सम्यग् अवगच्छेयुः" एवम् आसीत् मालवीयस्य विचारसरणिः । हिन्दुधर्मेण प्राप्तानाम् जीवनमौलिकांशानां संरक्षणं, तदर्थं योग्यायाः विद्यायाः बोधनमिति लक्ष्यं स्वीकृतं काशीहिन्दुविश्वविद्यालयेन । 'यूनां कृते विशाललक्ष्यप्रदः हिन्दुविद्यासुगन्धः दातव्यः । तेन सह अन्यधर्माणाम् अवगमनस्य आवश्यकता अपि बोधनीया’ इत्येतस्य मदनमोहनमालवीयस्य सदाशयस्य सचेतनरूपम् एव 'काशीहिन्दुविश्वविद्यालयः’ इत्युक्ते अतिशयोक्तिः न ।

आदर्शपुरुषः[सम्पादयतु]

वैविध्यरूपेण मातृभूमेः सेवां कृतवान् मालवीयः । विद्याविषये कृता सेवा तु तदीया अतुला शाश्वतकीर्तिप्रदा जाता । पत्रिकाविषये तेन कृता सेवा अपि अविस्मरणीया । 'पत्रिकायाः सम्पादकत्वस्य निर्वहणे अन्येषां हस्तक्षेपम् अत्यल्पप्रमाणेन अपि न सहे, तत्र मम सम्पूर्णं स्वातन्त्रम् आवश्यकी’ इत्युक्तवान् आसीत् मालवीयः । एतं नियमम् अङ्गीकृत्यैव राजा रामपालसिंहः तस्मै पत्रिकायाः स्वामित्वं समर्पितवान् । तेषु दिनेषु पण्डितप्रतापनारायणः, श्रीबालमुकुन्दगुप्तश्च पत्रिकाप्रकाशने असाधारणौ पुरुषौ । ताभ्यां द्वाभ्यां सह अविभाज्यम् अनुबन्धं रक्षितवान् मालवीयः । अनेकासां लघुपत्रिकाणां कृते एतस्य सहकारः आसीत् । देहलीतः मुद्राप्यमाणायाः 'कोपाल’साप्ताहिकपत्रिकायाः प्रकाशने एतस्य साहाय्यम् आसीत् । बाबू पुरुषोत्तमदासटाण्डन्-महोदयेन चाल्यमानायाः 'अभ्युदय' पत्रिकायाः प्रकाशने च सम्पूर्णसहकारं यच्छति स्म मालवीयः । विश्वपत्रिकाप्रकाशकेषु पत्रिकाकाररूपेण अत्यधिकां ख्यातिं प्राप्तवान् मालवीयः । स्वीयं पत्रिकाप्रकाशनकौशलं देशाय समर्पितवान् च । भारतीयपत्रिकाप्रकाशनसंस्था एतेनैव कारणेन प्रख्यातिं प्राप्तवती । पत्रिकाकारस्य लक्षणं भवेत् आत्मगौरवं, दृढता, स्वाभिमानः च । उन्नतधर्मं नीतिम् ॠजुवर्तनं च न विस्मरेत् सः इति वदति स्म मालवीयः । देहलीस्थां 'दि हिन्दुस्थान् टाइम्स्’ पत्रिकासंस्थां क्रीत्वा कानिचन वर्षाणि तां सम्यक् चालितवान् । कार्यभारस्य कारणतः अनन्तरदिनेषु तां पत्रिकाम् अन्यस्यै संस्थायै दत्तवान् ।

वर्तुलोप्तीठिका सभा[सम्पादयतु]

तेषु दिनेषु भारतदेशः आङ्ग्लजनैः पाल्यते स्म । भारताय स्वतन्त्र्यं दातव्यम् उत न वा इत्येतस्मिन् विषये चिन्तयति स्म आङ्ग्लसर्वकारः । १९३१ तमे वर्षे लण्ड्न्-नगरे द्वितीयवर्तुलोप्तीठिका सभा आयोजिता । तस्यां सभायां भाषणं कर्तुं मालवीयं निश्चिनोत् गान्धिमहोदयः । वर्तुलोप्तीठिकासभायां मालवीयस्य भाषणम् अविस्मरणीयम् आसीत् । 'इण्डियन् डायरी’ इति स्वीये पुस्तके माण्टेङ्गः मालवीयस्य भाषणं बहुधा प्रशंसितवान् । तेजबहदूरः सप्रू अपि तस्य भाषणम् अभिनन्दितवान् । स्वीयैः प्रज्ञासमेतैः भाषणैः खण्डान्तरेषु अपि राजनीतिज्ञानाम् आदरपात्रम् अभवत् सः । स्वीयदैनन्दिननियमान् विदेशे अपि नोल्लङ्घितवान् श्रीमालवीयः । प्रातः निद्रातः उत्थाय नियमेन व्यायामं करोति स्म सः । स्नानाय भारतदेशीयं सुफेनकमेव उपयुङ्क्ते स्म सः । पूजां कृत्वा फाले तिलकं धरति स्म सः । अनन्तरम् उष्णं दुग्धं पीत्वा श्वेतवस्त्राणि, उष्णीषं च धरति स्म । मध्याह्ने घण्टाद्वयम् आगतैः सह सम्भाषणञ्च करोति स्म । मालवीयः मितमेव आहारं स्वीकरोति स्म । भोज्नानन्तरं विश्रान्तिं स्वीकरोति स्म । शय्याप्रर्कोष्ठे तस्य मातापित्रोः तैलवर्णचित्रम् आसीत् । मातापित्रोः, भगवतः च प्रार्थनां कृत्वा एव निद्रां करोति स्म सः । एवं तस्य दिनचर्या आसीत् । 'वसन्तपञ्चमीम्’ अत्यन्तं शुभदिनं भावयति स्म सः । तस्मिन् दिने बहवः तं मिलन्ति स्म । तस्मिन् एव पर्वणि काशीहिन्दुविश्वविद्यालयस्य स्थापनमभूत् । तस्य भाषणं श्रोतुं सहस्रशः छात्राः, उपाध्यायाः आगच्छन्ति स्म तस्मिन् दिने । सरलभाषायां भारतीयसंस्कृतिं, धर्मम् उद्दिश्य, काशीहिन्दुविश्वविद्यालयस्य लक्ष्यं चोद्दिश्य स्पष्टं विशदयति स्म सः तदा अन्यदाऽपि ।

बहुभाषाकोविदः[सम्पादयतु]

आङ्ग्ल-संस्कृत-हिन्दी-उर्दूभाषासु कोविदः आसीत् मालवीयः । आङ्ग्लभाषया भाषणावसरे अन्यभाषापदानि न कदापि उपयुङ्क्ते स्म । संस्कृतभाषया भाषणसमये तु विद्यानां माता सरस्वती एव तस्य जिह्वायां नृत्यति स्म । भाषणानि इव तस्य लिखाः अपि पठितॄणां हृदयानि हरति स्म । वचनानि मौक्तिकानि लेखनानि रत्नानि इवासन् तस्य ।

क्रान्तिकारी[सम्पादयतु]

मालवीयः यद्यपि प्राचीनसम्प्रदायानुसारी तथापि क्रान्तिकारीमनोभाववान् अपि आसीत् । १९१९ तमे वर्षे एप्रिलमासस्य त्रयोदशदिनाङ्के अमृतसरनगरस्थे जलियन्-वालाबाग् स्थाने अत्यन्तं विषादकरी घटना प्रवृत्ता । सभायां भागिनः निस्सहायाः श्रोतारः विदेशीयानां गोलकास्रैः निहताः । स्त्रियः पुरुषाः बालाः वृद्धाः इति भेदं विना क्षयं गताः शतशः । एतस्य प्रधानकारणम् आसीत् जनरल् डय्यरः । भारतजनता चकिता जाता । सर्वकारीयप्रतिनिधयः सिमलायां समाविष्टाः । समावेशे श्रीमालवीयः अत्यन्तम् उद्वेगभरस्वरेण षड्घण्टां यावत् नरवधमधिकृत्य भाषितवान् । प्रेरणायुतायाः तस्य भाषणस्य कारणतः समाविष्टाः आङ्ग्लेयाः अपि प्रभाविताः । १९४७तमे वर्षे भारतदेशः स्वतन्त्रतां प्राप्तवान् । स्वतन्त्रतायाः एकवर्षात् पूर्वम् अतिविषादकराः घटनाः अभवन् । भारतीयजनतया कदापि न विस्मरणीयाः घटनाः ताः । तासां स्थानमासीत् वङ्गप्रदेशः । अत्यधिकसङ्खायां हिन्दवः पीडिताः । [नवकाली|नवकालीपट्ट्णे]] दीनमारणम् अभवत् । निस्सहायाः जनाः बहूनि कष्टानि अनुभूतवन्तः । सर्वकारः तूष्णीं पश्यन् आसीत् । घटनाः ज्ञात्वा मालवीयः स्थाणुः अभवत् । महम्मदीयमते परिवर्तितानां हिन्दूनां पुनः स्वधर्मे आनयनाय 'रामनाम-पवित्रगङ्गाजलं च पर्याप्तम्’ इति हिन्दून् प्रति उक्तवान् सः । हिन्दून् सर्वान् एकसूत्रे संयोक्तुं महान्तम् अविश्रान्तं च प्रयत्नं कृतवान् सः । हिन्दु- महम्म्दीयसख्यस्य कृते अपि अधिकं प्रयत्नं कृतवान् । 'हरिजनोद्धरणेनैव हिन्दुदेशः अभिवृद्धिं प्राप्नोति’ इति वदन् आसीत् श्रीमालवीयः । दलितसहोदराणां, निर्धनानां महिलानाम्, अक्षरज्ञानशून्यानां जनानाम् च सेवां कुर्वन् आसीत् सः । सर्वथा भारतदेशः पुरोगामी भवेदिति मालवीयस्य काङ्क्षा आसीत् ।

अन्तिमयात्रा[सम्पादयतु]

शतं वर्षाणि पूर्णजीवनं यापनीयमिति मालवीयस्य आशयः आसीत् । भगवतः निर्णयः अन्यथा आसीत् । नवकाल्याः दारुणघटनानि तस्य हृदयं मनः च पीडयन्ति स्म । असाधारणीं वेदनां जनयन्ति स्म च । तथैव वेदनया १९४६ तमे वर्षे नवम्बर् मासस्य १२ दिनाङ्के पण्डितमदनमोहनमालवीयः अन्तिमश्वासं त्यक्तवान् । तेन भारतवासिनः सर्वे अपि दुःखसागरे निमग्नाः अभवन् ।

मालवीयस्य विचारधारा[सम्पादयतु]

परमेश्वरे विश्वासी भव । पशुपक्षिणां विषये अनुरागं दर्शय । निर्धनेषु, दुर्बलेषु च कृपां दर्शय । महिलाः मानय । आपन्नेषु साहाय्यं कुरु । कस्मिन्नपि क्रूरतां मा प्रदर्शय । स्वच्छं जीवनं यापय । पवित्रां गोमातरं रक्ष । अन्येषां सम्पदं मा हर । उत्तमकार्याणि सत्फलदानि । दुष्कार्याणि दुष्फलदानि । आत्मस्थैर्यं विश्वासश्च सर्वेषां भवेत् । अन्येषां विषये दुर्वचनानि मा वद । अभिप्रायभेदेऽपि प्रतिवादिनां वचनं शृणु । कस्मादपि मा भैषीः । अन्येषु भीतिं मा जनय । भारतदेशः अस्माकं मातृभूमिः । अस्माभिः भगवतः अनुग्रहेण लब्धा एषा भूमिः अतिपवित्रा । ऋजुवर्तनेन एतस्याः भूमेः सेवां कुरु । भारतं नाम इण्डिया नाम हिन्दुस्थानम् । भगवतः आशिषः प्राप्तवन्तः एव अत्र भारते जायन्ते । हैन्दवधर्मः महोन्नतः । भारतीया आध्यात्मिकजीवनपद्धतिः एव श्रेष्ठा विश्वे । 'सन्मार्गे चर, सत्कर्माणि कुरु, मुक्तिं प्राप्नुहि’ इति भगवतः निर्देशं प्रकटयति सा । तत् लक्ष्यं प्राप्तुं भगवान् धर्मक्रमम् अनुगृहीतवान् । ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-संन्यासाश्रमधर्मान् क्रमेण आचरन् मानवः स्वयं धन्यो भवति; नैतिकधर्मान् शाश्वतं रक्षितुञ्च शक्नोति मानवः । केवलं स्वसुखाय जीवन् मानवः पशुसमानः भवति । सर्वोऽपि स्वदेशार्थं, धर्मार्थं, परार्थं च जीवेत् । विश्वे अत्यन्तपुरातनग्रन्थाः वेदाः एव । पाश्चात्यविज्ञाः अपि एतं विषयम् अङ्गीकृतवन्तः । सृष्टेः पूर्वं विश्वः सर्वोऽपि गाढान्धकारमयः । स्वदिव्यतेजसा भगवान् विश्वस्य कृते प्रकाशं दत्तवान् । भगवान् सर्वदा प्रकाशानुरागी । मानवः अस्मिन् ज्योतिर्मयमार्गे एव व्रजेत् । तदर्थं साधनमपि कुर्यात् । श्रीमालवीयेन अस्मभ्यं प्रदत्तः चिरस्मरणीयः सन्देशः एषः एव ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=मदनमोहन_मालवीय&oldid=284035" इत्यस्माद् पुनः प्राप्तिः