परमहंसयोगानन्‍दः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्


परमहंसयोगानन्‍दः (१८९३-१९५२) कश्चन प्रसिद्धः अध्यात्मगुरुः । तस्य जन्म गोरखपुरे अभवत् । तस्य पूर्वाश्रमस्य नाम मुकुन्‍दलालघोषः इति । सः "योगदासत्सङ्गसोसैटि" इत्येतस्याः अध्यात्मसंस्थायाः संस्थापकः अस्ति । तस्याः संस्थायाः केन्द्रकार्यालयःबिहारराज्यस्थेराञ्चिनगरे विद्यते । ततः "आत्मसाक्षात्कारपाठाः" उपलभ्यन्ते । योगानन्दः सहस्राधिकजनान् अध्यात्मपथे अग्रे सरणाय सम्प्रेरितवान् अस्ति । परमप्रेमस्वरूपी सः अध्यात्ममार्गे अतीव सहकारिणं 'क्रियायोग'पद्धतिम् अपाठयत् ।

परमहंसयोगानन्दः
rahmenlos

जीवनम्[सम्पादयतु]

योगानन्दः भारतेउत्तरप्रदेशे गोरखपुरे श्रद्धावति बेङ्गालीकुटुम्बे १८९३ तमे वर्षे जनवरिमासस्य ५ दिनाङ्के जन्म प्राप्नोत् । लघुवयसि एव तदीया अध्यात्मासक्तिः, प्रबुद्धता च असामान्या आसीत् । तस्य पितरौ लाहिरिमहाशयस्य शिष्यौ आस्ताम् । शिशुं योगानन्दम् अङ्के गृहीतवतीं तस्य मातरम् उद्दिश्य लाहिरिमहाशयः अवदत् - 'भवदीयः पुत्रः योगी भविष्यति । अध्यात्मगुरुः सन् सः बहून् आत्मनः देवसाम्राज्यं प्रति नेष्यति' इति ।

यौवने मुकुन्दः भारतस्य विविधसाधुसंन्यासीनां समीपम् अध्यात्ममार्गदर्शनाय गुरुम् अन्विष्य अगच्छत् । अन्ते १९१० तमे वर्षे सप्तदशे वयसि सः स्वामिनं युक्तेश्वरगिरिम् अपश्यत् । तस्य शिष्यः जातः । अग्रिमाणि दश वर्षाणि यावत् सः युक्तेश्वरस्य वात्सल्यपूर्णे कठिने अध्यात्मानुशासने जीवनम् अयापयत् । तयोः प्रथममेलनावसरे अनन्तरदिनेषु च श्री युक्तेश्वरः शिष्यम् अवदत् - 'महावतारबाबाजी विशेषकारणाय भवन्तम् अत्र प्रेषितवान् अस्ति । क्रियायोगस्य अमेरिकादेशे आजगति च प्रचाराय एव भवान् चितः अस्ति ।' इति ।

१९१५ तमे वर्षे जून्मासे कल्कत्तायाः स्काटिश्-चर्च्-महाविद्यालयात् इण्टर्मीडियेट्-परीक्षाम् उत्तीर्णः योगानन्दः पदवीप्राप्त्यै सेराम्पोर्महाविद्यालयं प्राविशत् । युक्तेश्वरस्य आश्रमः अपि सेराम्पुरे आसीत् इत्यतः सः आश्रमे बहु समयं यापयति स्म । १९१५ तमे वर्षे तेन संन्यासदीक्षा गृहीता । 'स्वामी योगानन्दगिरिः' जातः । १९१७ तमे वर्षे पश्चिमवङ्गे दिहिकायां तेन कश्चन बालकविद्यालयः आरब्धः यत्र आधुनिकविद्याभ्यासेन सह योगाभ्यासः अध्यात्मलक्ष्याणि च बोध्यते स्म । वर्षस्य अनन्तरम् अयं विद्यालयः राञ्चिं प्रति स्थानान्तरितं जातम् । अयं विद्यालयः अग्रे भारतस्य योगदसत्सङ्गसोसैटीकेन्द्रं जातम् ।

अमेरिकागमनम्[सम्पादयतु]

१९२० तमे वर्षे बोस्टन्नगरे प्रचलिते अन्ताराष्ट्रिय-काङ्ग्रे आफ् रिलीजियस्-लिबेरल्स्-समावेशे भारतस्य प्रतिनिधित्वेन योगानन्दः अमेरिकादेशम् अगच्छत् । तस्मिन् एव वर्षे सः भारतीययोगशास्त्रस्य ध्यानपरम्परायाः च प्रसाराय 'सेल्फ् रियलैझेषन् फेलोशिप् (SRF) इत्येतां संस्थां स्थापितवान् । ततः कानिचन वर्षाणि सः जगति बहुत्र प्रवासं कुर्वन् सः भाषणं बोधनञ्च अकरोत् । सहस्रशः जनाः तस्य बोधनम् अश्रुण्वन् । बहवः प्रसिद्धाः जनाः तस्य शिष्याः जाताः । अनन्तरवर्षे केलिफोर्नियायाः लासेञ्जलीस्मध्ये अन्ताराष्ट्रियकेन्द्रं संस्थापितवान् यच्च वर्धमानस्य कार्यस्य निर्वहणकेन्द्रं जातम् । अमेरिकादेशे जीवनस्य दीर्घसमयं यापितवत्सु हिन्दुबोधकेषु योगानन्दः प्रथमः । १९२० तः १९५२ वर्षपर्यन्तं (गुरोः दर्शनाय १९३५-३६ अवधौ भारतम् आगतः आसीत् - इमं कालं विहाय) सः तत्र एव न्यवसत् ।

'हिन्दुयिसम् इन्वाड्स् अमेरिका' इत्येतस्मिन् पुस्तके कश्चन अध्यायः[सम्पादयतु]

१९३० तमे वर्षे लेखकः डा वेण्डेल् थामस् 'हिन्दुयिसम् इन्वाड्स् अमेरिका' इति नामकं पुस्तकं प्राकाशयत् । अस्मिन् विवेकानन्दस्य योगानन्दस्य च विषये लिखितमस्ति अधिकतया । योगानन्दस्य विषये तेन एवं लिखितमस्ति - 'परमहंसयोगानन्दस्य समीपे अहम् अगच्छं शिष्यः इव न अपि तु विमर्शकः लेखकः इव । अस्मिन् अहम् अपूर्वं सम्मिलनम् अपश्यम् । प्राचीनपरम्परायां तस्य महती श्रद्धा आसीत्, नूतनस्य परिग्रहणे अपि महदौदार्यम् आसीत् । अतः एव सः भारतीयःहिन्दुः सन् एव अमेरिकीयः क्रैस्तश्च जातः । स्वस्य महत्या अन्तश्शक्त्या श्रद्धया च सः जगति अध्यात्मपिपासून् सर्वान् संयोजयितुम् अशक्नोत् । सः लक्षशः जनेभ्यः आनन्दं शान्तिञ्च आनयत् । अस्मिन् पुस्तके कश्चन अध्यायः अस्मिन् विषये एव अस्ति । आदौ अयम् अध्यायः 'योगानन्दः' इति ततः 'योगदसिस्टम्' इति ततः 'योगदसत्सङ्गसंस्था' इति च निर्दिष्टः अस्ति ।

भारतप्रवासः १९३५-३६[सम्पादयतु]

१९३५ तमे वर्षे सः गुरोः युक्तेश्वरस्य मेलनाय भारतम् आगतः । भारते योगदसत्सङ्गकार्यस्य आरम्भः अपि तस्य उद्देशः आसीत् । अस्मिन् सन्दर्भे तेन महात्मा गान्धिः, वङ्गसाध्वी आनन्दमा, प्रख्यातः भौतशास्त्रज्ञः चन्द्रशेखरवेङ्कटरामन्, युक्तेश्वरस्य गुरोः लाहिरिमहाशयस्य अन्ये शिष्याः च मिलिताः । युक्तेश्वरः योगानन्दाय 'परमहंस'पदवीम् अयच्छत् । इयं पदवी अत्युच्छम् अध्यात्मसिद्धिं द्योतयति । १९३६ तमे वर्षे योगानन्दः कलकत्तायां यदा आसीत् तदा युक्तेश्वरः पुर्यां पञ्चत्वं प्राप्नोत् ।

मरणम्[सम्पादयतु]

अमेरिकां प्रति प्रत्यागमनानन्तरं सः बोधने, लेखने, दक्षिणकेलिफोर्नियायां केन्द्रस्थापनकार्ये च मग्नः जातः । दिवङ्गमनसमयः यदा सन्निहितः तदा सः 'इतः गमनसमयः आगतः' इति बहुधा सङ्केतयति स्म । १९५२ तमस्य वर्षस्य मार्च् ७ दिनाङ्के तेन लासेञ्जलीसस्थे बिल्ट्मोर्-उपाहारगृहे आयोजिते रात्रिभोजनकार्यक्रमे भागम् अवहत् । अयं कार्यक्रमः अमेरिकाम् आगतस्य भारतीयदूतस्य बिनैरञ्जनसेनस्य तत्पत्न्याः गौरवाय आयोजितः आसीत् । अस्मिन् कार्यक्रमे योगानन्दः जगतः शान्त्यै, मानवप्रगत्यै च भारतामेरिकादेशयोः योगदानं, भाविनिकाले तयोः सहकारः इत्यादिषु विषयेषु अवदत् । 'समर्था अमेरिका' 'अध्यत्मिकभारतम्' इत्यनयोः श्रेष्ठगुणैः 'संयुक्तजगत्' निर्मितं स्यात् इति स्वीयं भावं प्राकटयत् । दयामाता या योगानन्दस्य परमशिष्या, १९५५ तः २०१० वर्षपर्यन्तम् एस् आर् एफ् संस्थायाः प्रमुखा आसीत् सा अन्तिमक्षणस्य प्रत्यक्षदर्शी आसीत् । अन्यः साक्षी योगानन्दस्य शिष्यः स्वामी क्रियानन्दः वदति यत् 'अन्ते सः भारतविषये स्वेन रचितं पद्यम् अवदत् । तस्य अन्तिमा पङ्क्तिः आसीत् - 'यत्र गङ्गा, अरण्यं, हिमालयगुहाः, जनाः च भगवत्स्वप्नं पश्यन्ति तन्मूलं मया स्पृष्टम्, पवित्रतां गतश्च' इति । अनुयायिनः वदन्ति यत् सः महासमाधिं प्राविशत् इति । योगानन्दस्य अवशेषः केलिफोर्नियायां ग्लेन्डेल्प्रदेशस्थे फारेस्ट् लान् मेमोरियल् उद्याने संस्थापितमस्ति ।

उपदेशाः[सम्पादयतु]

१९१७ तमे वर्षे परमहंसः योगानन्दः 'कथं जीवनीयम्' बालकविद्यालयस्य स्थापनद्वारा स्वस्य जीवनकार्यम् आरब्धवान् । तस्मिन् विद्यालये आधुनिकविद्याभ्यासेन सह योगशिक्षणम् अध्यात्मबोधनञ्च संयोजितम् आसीत् । १९२० तमे वर्षे बोस्टन्नगरे जाते अन्ताराष्ट्रियधार्मिकसम्मेलने भारतस्य प्रतिनिधित्वेन आहूतः । तत्र तेन बोधितं 'धर्मस्य विज्ञानम्' सर्वैः उत्साहेन अङ्गीकृतम् । ततः बहूनि वर्षाणि तेन अमेरिकादेशे बहुत्र गत्वा भाषणं बोधनञ्च अकरोत् । क्रिस्तस्य मूलबोधनं भगवतः कृष्णस्य मूलयोगज्ञानञ्च इत्यनयोः संयुक्तरूपं भवति तदीयं बोधनम् । १९२० तमे वर्षे एस् आर् एफ् संस्थापितम् । १९२५ तमे वर्षे लासेञ्जलीस्मध्ये अन्ताराष्ट्रियकेन्द्रं संस्थापितम् ।

योगानन्दः योगदसत्सङ्गसंस्थायाः लक्ष्याणि आदर्शान् च एवं निर्दिष्टवान् -

भगवतः साक्षादनुभवप्राप्त्यै अपेक्षितायाः निर्दिष्टवैज्ञानिकपद्धतेः सर्वेषु देशेषु प्रसारः ।
जीवनस्य लक्ष्यम् उद्विकासः । स्वप्रयत्नेन मनुष्यस्य मर्त्यप्रज्ञा दैविकप्रज्ञां प्रति नेतुं शक्या इति बोधनम् । तन्निमित्तं देवसायुज्याय आजगति आत्मसाक्षात्कारकेन्द्राणां, गृहेषु हृदयेषु च व्यक्तिगतदेवमन्दिराणाञ्च निर्माणम् ।
जीसस्क्रैस्तेन बोधितं मूलक्रिश्चियन्मतं, भगवता कृष्णेन बोधितं मूलयोगः इत्यनयोः एकतायाः सामरस्यस्य दर्शनम् । एतानि सत्यतत्त्वानि सर्वेषां धर्माणां सामान्यवैज्ञानिकमूलाधारः इत्येतस्य दर्शनञ्च ।
सर्वे धर्माः यं दैवीकं राजमार्गं प्रति नयन्ति तस्य दर्शनम् । राजमार्गः - प्रतिनित्यं क्रियमाणं वैज्ञानिकं भक्तियुतं देवध्यानम् ।
मनुष्यस्य - शारीरिकरोगः, मानसिकासमञ्जनम्, अध्यात्मिकाज्ञानम् - इत्येतस्मात् तापत्रयात् मोचनम् ।
'सरलजीवनम् उन्नतचिन्तनम्' इत्येतस्य प्रोत्साहनम् । परमात्मनः पुत्राः वयं सर्वे सोदराः इत्येतस्य भावस्य प्रसारः ।
शरीरस्योपरि मनसः श्रेष्ठतायाः, मनसः उपरि आत्मनः श्रेष्ठतायाः च सप्रमाणदर्शनम् ।
पापं पुण्येन, दुःखं सन्तोषेण, क्रौर्यं करुणया, अज्ञानं ज्ञानेन च अतिक्रमणम् ।
विज्ञान-धर्मयोः मूलतत्त्वानाम् एकतायाः अवगमनद्वारा तयोः ऐक्यसाधनम् ।
पूर्वपश्चिमयोः सांस्कृतिक-अध्यात्मिकावगमस्य, उभयोः अत्युत्कृष्टविशिष्टांशानां विनिमयस्य च प्रोत्साहनम् ।
स्वस्य महत्तरात्मरूपेण मनुकुलस्य सेवनम् ।

योगानन्देन सज्जीकृतेषु आत्मसाक्षात्कारपाठेषु दैवसाक्षात्कारस्य प्राप्त्यै अनुसरणीया योगपद्धतिः समीचीनतया विवृता अस्ति । प्राचीनविज्ञानं क्रियायोगनामकैः ध्यानतत्त्वैः विवृता अस्ति । सत्यस्य साक्षादनुभवस्य प्रामुख्यताम् अबोधयत् योगानन्दः । सः अवदत् - 'धर्मस्य वास्तविकमूलं न विश्वासः अपि तु साक्षात्करणम् । दैवावगमाय अन्तर्बोधः आत्मनः काचित् शक्तिः विद्यते । धर्मस्य मूलार्थस्य अवगमनाय देवः अवगन्तव्यः' । पारम्परिकहिन्दुबोधनानुगुणं सः अबोधयत् -'इदं विश्वं देवेन निर्दिश्यमानं ब्रह्माण्डस्य चलच्चित्रम् । व्यक्तयः अत्र अभिनेतामात्रम् । पुनर्जन्मसु तेषां पात्राणि परिवर्त्यन्ते । चलच्चित्रनिर्देशकेन देवेन अनन्यीकरणम् अकुर्वता प्रस्तुतपात्रेण सह अनन्यीकरणमेव मनुकुलस्य महद्दुःखस्य मूलम्' इति । तेन क्रियायोगः अन्ये ध्यानाभ्यासाश्च पाठिताः येषां साहाय्येन आत्मसाक्षात्कारः प्राप्तुं शक्यः ।

भगवतः सर्वव्यापकतायां वयं सर्वदा युक्ताः स्मः इत्येषः अंशः कायेन मनसा आत्मना च अवगमनमेव आत्मसाक्षात्कारः । तद् भवतु इति अस्माभिः प्रार्थनीयं नास्ति, न केवलं सर्वदा वयं तत्समीपे स्मः अपि तु देवस्य सर्वव्यापकता अस्माकं सर्वव्यापकता । वयम् अधुना यावता प्रमाणेन तस्य भागभूताः स्मः तथैव अग्रे सर्वदा अपि । अस्माभिः कर्तव्यं सर्वम् अस्य अवगमनमात्रम् ।

क्रियायोगः[सम्पादयतु]

योगानन्दस्य बोधनस्य मूलं क्रियायोगविज्ञानम् । क्रियायोगः नाम कयाचित् क्रियया अनन्तेन सह योगः एव क्रियायोगः । योगानन्दस्य गुरुपरम्परया क्रियायोगः प्राप्तः । महावतारः बाबाजी क्रियायोगं लाहिरिमहाशयम् अबोधयत् । सः स्वस्य शिष्यं युक्तेश्वरगिरिम् अबोधयत् । सः स्वस्य शिष्यं योगानन्दम् अबोधयत् । क्रियायोगस्य सामान्यविवरणं योगानन्दः आत्मचरित्रे अलिखत् ।

क्रियायोगः मानसिकशक्त्या जीवशक्तिम् उपरि अधः षट्चक्राणि परितः च प्रवाहयति । कशेरुकायाम् अर्धनिमेषात्मकं शक्तिपरिभ्रमणं मानवस्य उद्विकासे सूक्ष्मां प्रगतिं साधयति । अर्धनिमेषात्मिका क्रिया वर्षात्मकस्य सहजाध्यात्मिकप्रगतेः समाना भवति ।

योगानन्दः आत्मचरित्रे उल्लिखति यत् इदं तन्त्रम् योगदसत्सङ्गसंस्थायाः अधिकृतेन क्रियायोगिना (क्रियाबन्) एव ज्ञातव्यम् इति । In 1946, Yogananda published his life story, Autobiography of a Yogi. It has since been translated into twenty-eight languages. In 1999, it was designated one of the "100 Most Important Spiritual Books of the 20th Century" by a panel of spiritual authors convened by Philip Zaleski and HarperCollins publishers.

योगिनः आत्मचरितम् (Autobiography of a Yogi)[सम्पादयतु]

१९४६ तमे वर्षे योगानन्दः स्वस्य जीवनचरितं 'योगिनः आत्मचरितम्' प्राकाशयत् । इदं पुस्तकम् एतावता २८ भाषाभिः अनूदितमस्ति । २० तमस्य शतकस्य १०० अत्युत्कृष्टेषु अध्यात्मपुस्तकेषु इदम् अन्यतमम् इति १९९९ तमे वर्षे समुद्दिष्टमस्ति अध्यात्मलेखकालोचकमण्डल्या ।

अस्मिन् पुस्तके योगानन्दस्य साक्षात्काराय अध्यात्मान्वेषणस्य विवरणमस्ति । एतेन सह तेरेसे न्यूमन्, आनन्दमायिमा, मोहनदासगान्धि इत्येतेषां प्रमुखाध्यात्मसिद्धानां, प्रसिद्धस्य भारतीयविज्ञानिनः सर् जगदीशचन्द्रबोसस्य, प्रमुखस्य सस्यविज्ञानिनः लूथर् बर्बाङ्कस्य (इदं पुस्तकम् अमेरिकासंन्यासिनः लूथर् बर्बाङ्कस्य स्मरणाय समर्पितम्), साहित्ये नोबेल्प्रशस्तिं प्राप्तवतः रवीन्द्रनाथठाकूरस्य, भौतशास्त्रे नोबेल्प्रशस्तिं प्राप्तवतः सर् सि वि रामनस्य च मेलनस्य विवरणम् अत्र वर्तते । अस्य पुस्तकस्य कश्चन मुख्याध्यायः नाम 'विस्मयस्य तत्त्वम्' (The Law of Miracles) । अत्र विस्मयः इव भासमानस्य विवरणं दत्तमस्ति । सः वदति - 'मानवस्य शब्दवारिधौ 'असाध्यम्' इत्येतत् पदम् अमुख्यं भवदस्ति' इति ।

अधुनातनी स्थितिः[सम्पादयतु]

परमहंसयोगानन्दस्य कार्यं संस्थाद्वयोः द्वारा अनुवर्तते - सेल्फ् रियलैझेषन् फेल्लोशिप् (एस् आर् एफ्), योगदसत्सङ्गसोसैटि आफ् इण्डिया (वै एस् एस्) । एस् आर् एफ् संस्थायाः मुख्यकार्यालयः लासेञ्जलीस्नगरे विद्यते । अधुना अस्य ५०० मन्दिराणि केन्द्राणि च आजगति विद्यन्ते । १७५ देशानां जनाः अस्य सदस्याः सन्ति । भारते भारतं परितः च योगानन्दस्य कार्याणि योगदसत्सङ्गसोसैटिद्वारा परिचिताः । अस्य १०० केन्द्राणि आश्रमाश्च विद्यन्ते । योगानन्दस्य साक्षाच्छिष्या प्रमुखाध्यात्मिकनेत्री दयामाता या योगानन्देन एव चिता शिक्षिता च एस् आर् एफ्, वै एस् एस् संस्थयोः नायिका आसीत् १९५५ तः २०१० तमवर्षपर्यन्तम् । अधुना इदं दायित्वं निर्वहति मृणालिनीमाता या च योगानन्देन एव चिता शिक्षिता च । तस्याः साहाय्यार्थं निर्देशकानां गणः कश्चन वर्तते यत्र योगानन्देन शिक्षिताः अन्ये शिष्याः विद्यन्ते ।

आधारः[सम्पादयतु]

  • Bowden, Henry Warner (1993). Dictionary of American Religious Biography. Greenwood Press. ISBN 0-313-27825-3. 
  • Mata, Daya (1990). Finding the Joy Within. Self-Realization Fellowship. ISBN 0-87612-288-8. 
  • Mata, Daya (Spring 2002). Self-Realization Magazine: My Spirit Shall Live On - The Final Days of Paramahansa Yogananda. Los Angeles, CA: Self-Realization Fellowship. ISBN 0037-1564. 
  • Falk, Geoffrey D. (2009). Stripping the Gurus. Million Monkeys Press. ISBN 0-9736203-1-5. 
  • Ghosh, Sananda Lal (1980). Mejda: The Family and the Early Life of Paramahansa Yogananda. Self-Realization Fellowship Publishers. ISBN 978-0-87612-265-5. 
  • Gyanamata, Sister (1984). God Alone: The Life and Letters of a Saint. Self-Realization Fellowship. ISBN 0-87612-200-4. 
  • Kriyananda, Swami (2003). The Essence of Self-Realization: The Wisdom of Paramhansa Yogananda. Crystal Clarity Publishers. ISBN 978-0-916124-29-8. 
  • Kriyananda, Swami (1977). The Path: Autobiography of a Western Yogi. Crystal Clarity Publishers. ISBN 978-0-916124-11-3. 
  • Miller, Timothy (1995). America's Alternative Religions. Borrego Publications; 1st edition (1991). ISBN 0-7914-2397-2. 
  • Mrinalini Mata (2011). Self-Realiztion Magazine: The Blessings of Kriya Yoga in Everyday Life. Los Angeles, CA: Self-Realization Fellowship. ISBN 0037-1564. 
  • Rosser, Brenda Lewis (1991). Treasures Against Time: Paramahansa Yogananda with Doctor and Mrs. Lewis. Borrego Publications. ISBN 0-9629016-0-1. 
  • Self-Realization Fellowship (2001). Paramahansa Yogananda: In Memoriam: Personal Accounts of the Master's Final Days. Los Angeles, CA: Self-Realization Fellowship Publishers. ISBN 978-0-87612-170-2. 
  • Self-Realization Fellowship (1996). Rajarsi Janakananda: A Great Western Yogi. Los Angeles, CA: Self-Realization Fellowship Publishers. ISBN 978-0-87612-019-4. 
  • Yogananda, Paramhansa (2005). Autobiography of a Yogi. Crystal Clarity Publishers. ISBN 978-1-56589-212-5.  Reprint of 1946 first edition published by Philosophical Library, New York.
  • Yogananda, Paramahansa (1997). Autobiography of a Yogi. Los Angeles, CA: Self-Realization Fellowship. ISBN 0-87612-086-9. 
  • Yogananda, Paramahansa (1995). God Talks With Arjuna - The Bhagavad Gita. Los Angeles, CA: Self-Realization Fellowship. ISBN 0-87612-030-3. </ref>
  • Yogananda, Paramahansa (1996). Divine Romance. Los Angeles, CA: Self-Realization Fellowship. ISBN 978-0-87612-241-9. 
  • Yogananda, Paramahansa (1997). Journey to Self-Realization, Discovering the Gifts of the Soul. Los Angeles, CA: Self-Realization Fellowship. ISBN 0-87612-255-1. 
  • Yogananda, Paramahansa (1979). Metaphysical Meditations. Los Angeles, Calif.: Self-Realization Fellowship. ISBN 978-0-87612-041-5. 
  • Yogananda, Paramahansa (2004). The Second Coming of Christ: The Resurrection of the Christ Within You. Los Angeles, CA: Self-Realization Fellowship. ISBN 0-87612-555-0. 


बाह्यशृङ्खला[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=परमहंसयोगानन्‍दः&oldid=275282" इत्यस्माद् पुनः प्राप्तिः