पर्यावरणशिक्षा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

पर्यावरणशिक्षाया: आवश्यकता[सम्पादयतु]

अध्यायस्यास्याध्ययनेन एवं स्पष्टं भवति यत् प्राचीने काले अस्माकं पर्यावरणं संरक्षितं,संतुलितञ्चासीत् । यदि काचन पर्यावरणीय समस्या आयाति स्म तर्हि तेषां समाधानं सर्वे ॠषय: अनौपचारिक-रुपेण एव कुर्वन्ति स्म ।परं सम्प्रति जनसख्यावृध्द्या, औद्यागीकरणेन अन्यकारणेन च अस्माकं पर्यावरनं पूर्ण-रुपेण प्रदूषितमस्ति । प्रक्रुतौ एतत् सामर्थ्यं नास्ति येन पर्यावरणं पुन: सन्तुलितं भविष्यति । सम्प्रिति जीवनं जगति दुष्करं प्रतिभाति ।सर्वकारेण संस्थाभिक्ष्च ये उपाया: क्रियन्ते तेषां क्रियान्वयनं पूर्णरुपेण न भवितुमर्हति । यत:नागरिका: पूणजगरुका: न सन्ति । एतदर्थं पर्यावरणशिक्षा साम्प्रतिके युगे अतीव महत्त्वपूर्ण अस्ति । अस्या: आवश्वकता विषये यदि विचारयामो वयं तर्हि एकं स्वतन्त्रं पुस्तकं भविष्यति । अत: संक्षिप्ते एव दृक्पात: क्रियते ।

१.सौरमण्डले मात्रं " पृथ्वी " एवस एक: ग्रह: अस्ति यत्र जीवनं भवति ,भवितुमहर्ति वा । यदि इयं हि नष्टा भविष्यति, जीवाय अनुपयुक्ता भविष्यति , तर्हि जगति जीवनाऽभाव: भविष्यति । अत: अस्या: पर्यावरणशिक्षाया: आवश्यकतावलोक्यते यत् पृथिव्या: संरक्षणं पृथ्वीवासिनेभ्य: सुखप्रदजीवनप्रदानम् ।

२.समेषां पर्यावरणीयसमस्यानां मूलं भवति जनसंख्यावृध्दि: । जनसंख्यावृध्द्या एव प्रकृतौ असन्तुलनं जातमस्ति । सम्प्रति जनसंख्यावृध्दि: इत्थं भवति येन अस्माकं शृङ्खलितं प्रकृतिचक्रं विशृङ् लितं जातम् । प्रकृति-चक्रं व्यवस्थापनाय,भविष्यति सुरक्षितं, संरक्षितञ्च वातावरणं हस्तान्तरयितुं जनसंख्या-वृध्द्यवरोधनमावश्यकं भससवति ।अतस्तदर्थं जनजागरणाय अस्या: शिक्षाया: आवश्यकता वर्तते ।

३. अस्माकं प्रकृतौ संसाधनस्याभाव: न विद्यते । परं तेषां संसाधनानां ज्ञानं नास्ति अस्माकं पार्श्वे । फलत: वयं कष्टमनुभवम: । येषां संसाधनानां ज्ञानमस्ति तेषामुपयोग: सम्यक् न क्रियतेऽस्माभि: । तत्र ज्ञनाभाव: एव कारणम् । अत: प्राकृतिकसंसाधनानां विषये पूर्णज्ञानप्रदानाय शिक्षेयमावश्यकीति ।

४.प्रकृतौ मात्रं पादपा: वनस्पतय: एव सन्ति ये कार्बनडाइ-आक्साइड (co2)इति नामकं गैसम्, आँक्सिजन (o2) प्राणवायु: इति नामके गैसे परिवर्तयन्ति ।अपि च जीवानां कृते आँक्सीजननामकं गैसं महदावश्यकं भवति । यद्यस्य परिवर्तनमवरुध्दं भवति तर्हि प्रकृतौ असन्तुलंन भवति । अत एतदर्थं किं करणीयं किं न करणीयमित्येतदर्थमावश्यकीयं शिक्षा ।

५. सम्प्रति जगति औद्योगिक-क्रान्तिरागता, वैज्ञानिकसंसाधनानां बाहुल्यं जातम् । परमनेन प्रकृतौ कञ्चन प्रदूषणं जातम् । अत: प्रदूषणानि निवारणाय, पर्यावरणीयसमस्यां समाधानमन्वेष्टुमावश्यकीयं शिक्षा ।

पर्यावरणशिक्षाया:उद्देश्यानि[सम्पादयतु]

पर्यावरणशिक्षया: उद्देश्यानां निर्धारणं प्रारम्भत: एवम् ।(IEEP. International Environmental Education Plan.) अन्ताराष्ट्रिय-पर्यावरण-शिक्षा योजनामाध्यमेन जातम् । अस्या: प्रथमा सगोष्टी ( International workshop On Environmental Education ) १३-२२ अक्तूबर १९७५ वर्षे बेलग्रेड (यूगोस्लाविया) नगरे जाता । अस्यां कार्यशालायां बेलग्रेडघोषणापत्रस्य निर्माणं जातम् ।अस्मिन्नेव घोषणापत्रे बेलग्रेडघोषणापत्रस्य निर्माणजातम् अस्मिन्नेव घोषणापत्रे पर्यावरणीयशिक्षाया: उद्देश्यानां यथा- १.जागृति - सम्पूर्णपर्यावरणं प्रति तत्सम्बन्धिसमस्यां प्रति च जागृति: आनयनं , संवेदनशीलत्व-प्रदानञ्च । Awareness- To help individuals and social groups aquir an awareness of , and sensitivity to the total environmental and its allied problems. )

२.ज्ञानम्-सम्पूर्णपर्यावरणस्य तेषां समस्यानाञ्च सम्बन्धितसम-स्यानाञ्चाधारभूतज्ञानप्राप्ति: । Knowledge :- To help individuals and social groups acquire basic understanding of the total enviornment , its associated problems and humanity's crilially responsible presence and role in it .

३.अभिवृत्ति:- पर्यावरणसंरक्षणाय क्रियमाणं चिन्तनं प्रति, सामाजिकदायित्वनिर्वाहं प्रति तेषां , सुरक्षायै सुधारार्थं च क्रियमाणं कार्यं प्रति चाभिप्रेरणम्। Attitude- To help individuals and social groups acquire social values, strong feelings of concern for the enviornment and the motivation for activity participation in its protection and improvement.

४.कौशलसम्प्राप्ति:- शिक्षेयं पर्यावरणीयसमस्यानां समाधा-नान्वेषणार्थं कौशलप्राप्तौ सहायिका भवति । Skill.-To help individuals and social groups acquire the skills for solving environmental problems.

५.मूल्यांकनकौशलम्- शिक्षेयं पर्यावरणीयोपायस्य शैक्षिक-कार्य-क्रमस्य च पारिस्थितिक-सामाजिक-सौन्दर्यपरक-शैक्षिकपरिप्रेक्ष्ये च मूल्यांकनार्थं सहायिका भवति । Evaluation Ability-To help individuals and social groups evaluate environmental measures and education programmes in terms of ecological,political, economic, social,esthetic and educational factors.

६.सम्भागिता-शिक्षेयं पर्यावरणायसमस्यां प्रति, समस्यानामुचितं निश्चितञ्च समाधानान्वेषणं प्रति च महत्वभावनां, दायित्वभावनाञ्च विकासयति । Participation-To help individuals and social group develop a sence of responsibility and urgency regarding environmental problems so as to ensure appropriate action to solve those problems.

एतेषामुद्देश्यानां विभाजनं त्रिधा कर्तुं शक्यते[सम्पादयतु]

१. भावात्मकम् - रुच्याधारितम्अभिवृत्याधारितं ,मूल्य-परिवर्त्अनाधारितञ्च ।
२. संज्ञानात्मकलम्-स्मरणं, समस्यासमाधानम्,अवधारणानिर्माणञ्च ।
३. क्रियात्मकम्- शरीरिकाभ्यास:, योग:, व्यायामश्च ।

संज्ञानात्मकमुद्देश्यम्[सम्पादयतु]

१. तत्कालीनपर्यावरणस्य ज्ञानप्रादानाय सहाय्यप्रदानम् ।
२. जैविकाजैविकापर्यावरणयोरवबोधे सहाय्यप्रदानम् ।
३. भविष्यज्जगति अनियन्त्रितजनसंख्यावृध्दे:दुष्प्रभावस्य ज्ञानप्रदानम् ।

भावात्मकमुद्देश्यम्[सम्पादयतु]

१. समीपस्थ-दूरस्थपर्याश्च वानस्पतिकं, जैविकञ्च प्रति अभिरुच्युत्पादनम् ।
२. विविध-जातिं प्रति, प्रजाति प्रति, धर्म प्रति, संस्कृतिं प्रति च सहिष्णुता-प्रदर्श्नम् ।
३. स्वकीयस्य पर्यावरणस्य स्वच्छतां प्रति शुध्दतां प्रति चावधानं प्रदानम् ।

क्रियात्मकमुद्देश्यम्[सम्पादयतु]

१. वायु-जल-ध्वनि-मृत्तिकादिप्रदूषणकार्यक्रमे सक्रियत्वेन भागग्रहणम् ।
२. परित: स्वच्छताकार्यक्रमे भागग्रहणम् ।
३. नगरीय-नियोजने, ग्रामीण-नियोजने च भगग्रहणम् ।
४. खाद्यसामग्रीषु अनावश्यकतत्वानां, हानिप्रदतत्वानाञ्च मिश्रण-नियन्त्रणकार्यक्रमे भागग्रहणम् ।
५. अधिकांशभूमौ वृक्षारोपणकार्यक्रमस्यायोजनं ।
६. जलप्रदूषणसमस्यानिवारणार्थं , जलस्य महत्वविषये च ज्ञानप्रदानम्।
७. ध्वनिप्रदूषणे जायमानानां रोगाणां विषये ज्ञान-प्रदानम् ।
८. वृक्षाणाम्( वनानाम् ) अनावश्यककर्तनस्यावरोधनम् । परिपक्व वृक्षस्य स्थाने नूतनानां वृक्षाणामारोपणम् ।
९. वन्यजीवानां संरक्षणम् ।
१०. अनावश्यकमृत्तिकाकर्तनस्यावरोधनम् ।

एवं प्रकारेण बेलग्रेडचार्टरस्यानुसारेण- पर्यावरणं सम्पूर्णरुपेण पश्यतु, यदि तत् प्राकृतिकं, पारिस्थितिकं, राजनैतिकम्, आथिकम्, औद्योगिकं,वैधानिकं, सास्कृतिकं, सौन्दर्यपरकञ्च भवतु । Consider the enviornment in its totally- Natural or manmade, ecological, political , economic , tecnological, social legislative, cultural and aesthetic .

पर्यावरणशिक्षाया: महत्वम्:[सम्पादयतु]

पर्यावरणीयसमस्याया: पर्यावरणसंरक्षणस्य वा विचार: यदा मानवमनस्सु समायात: तदैव जगति पत्यावरणशिक्षाया:महत्व-विषये चिन्तनं समारब्धम् । स्टाँकहोम( १९७२ ) नगरे समायोजिते मानवपर्यावरण्म् इति अन्ताराष्ट्रिये सम्मेलनेऽपि विषयेऽस्मिन् चिन्तनं जातम् ।अत: परं बेलग्रेडचार्टर (१९७५) इत्यस्याधारे तिबलिसी-अन्तर्देशीय -सम्मेलने (१९७७ ) पर्यावरण-शिक्षाया: कार्यक्रमस्य उपादेयत्वं स्पष्टं जातम् । अस्यानुसरेण पर्यावरण-शिक्षाया: महत्वमेवं भिवितुमर्हति ।

१. पर्यावरणस्य सत्यं , तथ्यात्मकञ्च ज्ञानं जनेभ्य: प्रदानम् ।
२. ज्ञानस्याधारे पर्यावरणस्यासन्तुलनस्य सम्भावितकारणान्वेषणम् ।
३. सन्निकटे भविष्ये आगम्यमानानां समस्यानां जीवाय विपत्ति -कराणां समस्यानाञ्च विषये पूर्वमेव ज्ञानप्रदानम् ।
४. समस्याअनां समाधानान्वेषणं , ज्ञापनम्, अवबोधनञ्च् ।
५. समस्यामवगन्तुं समाधानमन्वेष्टुञ्च जनानामन्तर्निहितश्क्तीनां विकास: ।
६. पर्यावरणसंरक्षणं प्रति, सुरक्षां प्रति, सम्बोधनं प्रति, जनान् अभिप्रेरणम् ।
७. सर्वमवगत्य जना: एवं कार्यं कुर्यु: इति विषयकं ज्ञानं जनेभ्य: ,नूतनेभ्य:सामाजकेभ्यश्च प्रदानम् ।
८. स्वयं सौविध्येन जिवेम्, अन्ये च सौविध्येन जीवेरन् इति भावना जनेषु जागरणम् ।

फलत: ज्ञातव्यं यत् शिक्षेयमद्यतनीया आवश्यकता वर्तते,अस्या: उपादेयत्वं स्वीकरणीयम् । अस्य कार्यक्रमस्य सफलतायै प्रयत्नीय: । अनया पर्यावरणस्य गुणवत्ता जीवनस्य गुणवत्ता चायाति ।

पर्यावरणशिक्षाया: पाठ्यक्रम:[सम्पादयतु]

पर्यावरणशिक्षानाम समेषां जीवजन्तूनां , वनस्पतीनां ,जैविकाजैविक -वस्तूनां , परिस्थितीनां ,वातावरणस्य चाध्ययनम् । फलत: अस्या: अध्ययनं मात्रम् औपचरिकरूपेण भावितुं नार्हति इति विचार्य एव तिबलिसीसंगूठ्या: इत्यस्या: शिक्षाया: विषयवस्तूनां निर्धारणंकृत: । यथा आङ्ग्लभाषायाम् -

1.The general public at every age at all levels of formal education for pupils studentsand teachers and in the various non formal educationa activities for young people and adults.
2. Specific occupational or social groups with a focus on those whose activity and influense have an importent bearing on the enviornment for instance , ingineers , architects , administrators and planners ,industrialists,trade unionists, policy -makers and agriculturalists,verious levels in formaland non-formal education should contribute to this training. It is importent ,moreover ,that the training of certain professionals and scientists involve with problems of the enviornment , such as biologist hydrologist sanitary engineers etc. include an interdiciplinary enviornmental component.

फलत: पर्यावरणईयशिक्षाया: व्यवस्था यदि एकात्मिका भवति तर्हि सर्वे लाभप्रदा: नभवितुमर्हन्ति । अत: भवतु विषयवस्तुन: सैध्दान्तिक: पक्ष: एकात्मक: ,परं तस्य वर्गीकरणं विविधरूपेण करणीयमपेक्षते । एवं प्रकारकंविचारं स्वीकृत्य एव अस्याअ; शिक्षाया: पाठ्यक्रम: औपचारिका-र्ध्दौपचारिकानौपचारिकश्चेति त्रिध स्वीकृत: ।

१.औपचारिकी-पर्यावरणशिक्षा-पाठ्यक्रम :- Formal Enviornmental Education Curriculum - श्रेण्यामस्यां समाजस्य राष्ट्रास्य च प्रधानसमूह: छात्रसमूह: आगच्छति । स: छात्रसमूह: चतुर्षु स्तरेषु अध्दयनं करोति । यथा - प्राथमीकस्तर:, उच्चप्राथमीकस्तर:, माध्दमिकस्तर:,उच्चस्तरश्चेति । एतेषां स्तराणां के विषया: उपयुक्ता:इति परं चिन्तयाम: ,पूर्व त्वस्य पाठ्यक्रमस्य विषयवस्तूनिविचारयाम: ।

  • स्वकीयं पर्यावरणं ,पृथ्वि: , सौरमण्डलं,पारिस्थितिकञ्च ।
  • प्राकृतिकसंसाधनं , वनं , वन्यजीवा:, ऊर्जा, वायु:, जलं ,भूमि: राष्ठ्रियोद्यानम्, अभयारण्यञ्च।
  • पर्यावरणीयप्रदूषणं , पर्यावरणीयसमस्या, जनसंख्यावृध्दि:, वाहनप्रदूषणं , ध्वनिप्रदूषणं , पर्यावरणीयनियमोपनियमाश्च ।
  • स्वयंसेवीसंस्था: , पर्यावरणप्रन्ध:, विविधदेशीयस्तरेषु, अन्तराष्ट्रियस्तरेषु, च पर्यावरणशिक्षाकार्यक्रमा: ।

प्राथमिकस्तरे- स्तरेस्मिन् बालका: अनौपचारिकरूपेण, भ्रमणेन, दर्शनेन ,कार्यक्रमेण वा शिक्षाग्रहणे तत्परा: भवन्ति ।अत: एतै: माध्यमै: जलस्य,वायो:, भोजनस्य , स्वास्थ्यस्य, वनस्य च ज्ञानं प्रदातव्यम् ।

उच्चप्राथमिकस्तरे-स्तरेस्मिन् छात्रा: प्रकृते: प्राकृतिकसाधनेभ्यश्च परिचिता: भवन्ति । अत: तेभ्य: प्रदर्शनीमाध्यमेन ,विडियोफ़िल्ममाध्यमेन , लघुनाटकमाध्यमेन, कवितामाध्यमेन , पर्यावरणगीतिमध्यमेन, प्रहेलिकामाध्यमेन, क्रीडामाध्यमेन च पर्यावरणस्य ज्ञानप्रदानम् ।

माध्यमिकस्तरे-स्तरेस्मिन् छात्रा: स्वकीये क्षतिलाभादिविषये जानन्ति ।सामाजिककार्यक्रमेषु, च रुचिं प्रदर्शयन्ति । अत: ते नातिजटिलपर्यावरणीयसमस्याभि: परिचिता: भवितुमर्हन्ति । यथा- जनसंख्यावृध्दे: दुष्परिणाम:,खाद्यसामग्रीणामभाव:, विवधप्रकारकं प्रदूषणं, भूक्षरणं, वन्यजीवसंरक्षणमित्यादय: ।

उच्चस्तरे :-स्तरेस्मिन् महाविद्यालय:, विश्वविद्यालयश्चागच्छति । अस्यामवस्थायां छात्रेभ्य: पर्यावरणस्य विषयवस्तूनि , तेषां तथ्यात्मकं विश्लेषणं,देशस्य वास्तविकी स्थिति:, जनानां पर्याअवरणं प्रति उपेक्षित: व्यवहार:, विविधप्रकाराकाणि प्रदूषणानि, प्रादूषणकृत-हानि:, वन-वन्यजीवानां संरक्षणं , पर्यावरणसंरक्षणे वनस्य योगदानं, पर्यावरणकृत -हानि : ,वन-वन्यजीवानां संरक्षणं, पर्यावरणसंरक्षणे वनस्य योगदानं , पर्यावरणीयप्रबन्ध:, विविधस्तरेषु जनानामुत्तरदायित्वञ्चेत्यादिकस्य वृहदज्ञानं छात्रेभ्य: दातव्यम् । स्तरेऽस्मिन् पर्यावरणडिप्लोमाकोर्श इति प्रचालनीयम् ।

२. अर्ध-औपचारिक- पर्यावरणषिक्षा-पाठ्यक्रम: Semiformal Enviornmental Education - सामान्यत: छात्रान् परित्यज्य जगत्यस्मिन् द्विप्रकारकौ जनौ निवसत: । अशिक्षित: शिक्षितश्च । प्राय: शिक्षिता: जना: सर्वकारिसंस्थाने, अर्धसर्वकारिसंस्थाने, वैयक्तिकसंस्थाने वा कार्यरता: सन्ति । एतेषु कार्यरतेषु केचन पर्यावरणं प्रदूषयन्ति अपि च केचन प्रदूषणं निवारयन्ति । यथा परिवहनकर्मचारिण: प्रदूषणकारका: भवन्ति ,औद्योगिकसंस्थासु कार्यरता: कर्मचारिण: अपि प्रदूषणस्य कारका: भवन्ति तथा पर्यावरणसंरक्षणकार्यक्रमेषु संलग्ना: कर्मचारिण: प्रदूषणनियन्त्रका: भवन्ति । अत: आवश्यकं भवति यत् सर्वविधकर्मचारिणां कृते पर्यावरणशिक्षाया: आवश्यकता वर्तते । परम् एते कर्मचारिण: औपचारिकरूपेण शिक्षाप्राप्तुं समर्था: न भवन्ति । अत: तेषां कृते समयबध्दा: पाठ्यक्रमा: सञ्चालनीया: येन ते अल्पे एव समये सम्पूर्णपर्यावरणकार्यक्रमे प्रशिक्षिता: भविष्यन्ति । यथा दशदिवसात्मक: पर्यावरणसप्ताह: कैप्शूलकोर्श इत्यादय: ।
३.अनौपचारिक -पर्यावरणशिक्षापाठ्यक्रम: Non-formal Environmental Education -ये जना: ग्रामेषु निवसन्ति, अशिक्षिता: सन्ति, औपचारिकशिक्षाग्रहणे असमर्था:सन्ति, तेषां कृतेऽपि शिक्षेयमावश्यकी अस्ति । यत: ग्रामिणा: जना: एव पर्यावरणसंरक्षणे सन्तुलने च अधिकतमं कार्यं कुर्वन्ति । अत: तेभ्य: पर्यावरणशिक्षाया: ज्ञानमवश्यं प्रदेयम् । यथा वैकल्पिक-ऊर्जाव्यवस्थाया: ( वायोगैस, सौर-ऊर्जा, जल-ऊर्जा ) ज्ञानं , कृषिसंरक्षणस्य ज्ञानं , पशु-सुरक्षाव्यवस्थाया: ज्ञानं , मृत्तिकासंरक्षणस्य ज्ञानं स्वच्छ-आवसस्य, स्वास्थ्यशिक्षाया:, व्याधे: , तन्निदानस्य, मद्यपाननिषेधस्य, धूम्रपाननिषेधस्य च ज्ञानम् । यत: एते सर्वे पर्यावरणस्य एव घटका: सन्ति । अनौपचारिकरूपेण इयं शिक्षा जनेभ्य:दातव्या । अस्या: साधनमपि अनौपचारिकरूपेण भवेत् । यथा दूरदर्शनमाध्यमेन, लघुनाटकमाध्यमेन, गीतमाध्यमेन, काष्ठपुत्तलिकानृत्यमाध्यमेन, लोक-गीतमाध्यमेन, जनसम्मर्दनमाध्यमेन, प्रदर्शिनीमाध्यमेन चेयं शिक्षा अशक्षितेभ्य: ग्रामीणेभ्यश्च जनेभ्य: दातव्या ।


पर्यावरणशिक्षाया: निर्देशकसिध्दान्ता:[सम्पादयतु]

(Guiding principles of Environmental Education)

१. पूर्णताया: सिध्दान्त :-पर्यावरणं सदा सम्पूर्णरूपेण द्रष्टव्यम्, भवतु, तत्-प्राकृतिकं , मानवकृतं ,प्रायोगिकं ,सामागिकं वा पर्यावरणम् ।
२. आजीवनप्रक्रिया-पर्यावरणशिक्षा आजीवनं प्रचलति । विद्यालयात् पूर्वमेवारभ्य औपचारिकानौपचारिकमाध्यमेन वाप्रचलन्तीयं शिक्षा मृत्यु-पर्यन्तं प्रचलति । अस्या:आवश्यकता जीवनस्य प्रत्येकस्मिन् क्षेत्रे भवति ।
३. अन्तर्विषयात्मकसिध्दान्त :-पर्यावरणशिक्षाया: प्रकार अन्तर्विषयक: भवेत् येन अन्येभ्य: विशिष्टपाठ्यविषयं संगृह्य सन्तुलितं परिदृश्यं प्रस्तुतं स्यात्।
४. सार्वबौमिकदृष्टिकोणात्मकसिध्दान्त:-पर्यावरणीयशिक्षया प्रमुखं पर्यावरणीयघटकं स्थानीयदृष्ट्या, क्षेत्रीयदृष्ट्या, अन्ताराष्ट्रियदृष्ट्या च परीक्षाणीयम् । अनेन जना: सर्वेषां भौगोलिक-क्षेत्रीय-पर्यावरण-परिस्थितीनामध्ययने समर्था: भवेयु: ।
५. सार्वकालिकताया:सिध्दान्त:-पर्यावरणशिक्षया यदा परिस्थितीनामवलोकनं क्रियते तदा प्राचीन-वर्तमान-संभावितस्थिती: अपि अवलोकनीय: , अवधेयश्च ।
६. सार्वत्रिकसिध्दान्त:- यदा पर्यावरणशिक्षया कश्चन विकास-कार्यक्रमस्य, वृध्दिकार्यक्रमस्य चायोजनं भवति तदा पर्या

वरणस्य सर्वे घटका: अवधेया भवेयु: ।

७. सहयोगिताया:सिध्दान्त:-अनया यदा समस्यासमाधानमन्विष्यते तदा राष्ट्रिय-अन्ताराष्ट्रिय-क्षेत्रीय-स्थानीयसहयोगा: स्वीकरणीया: । आवश्यकता च प्रोत्साहनीया: ।
८. नूतनेभ्य: अवसरप्रदानम्- यदि कश्च नूतन: जन: स्वकीयानुभवेन योजनानिर्माणं कुर्वन्ति, तर्हि तेभ्य: योग्यताप्रदानम्
९. संवेदनशिलताया:सिध्दान्त:-पर्यावरणीयसमस्याया: समाधानमन्वेष्टुं सर्वेभ्य: अवसर: प्रदातव्य: । परन्तु समस्यानां संवेदन-शीलतामवलोक्य, अन्वेषणकतृणाञ्च ज्ञानमवलोक्य एव अवसर: प्रदातव्य: ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=पर्यावरणशिक्षा&oldid=244840" इत्यस्माद् पुनः प्राप्तिः