पलाशवृक्षः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
पलाशः
बेङ्गळूरुनगरे, भारतम्
वैज्ञानिक वर्गीकरण
जगत: Plantae
(अश्रेणिकृत) Eudicots
(अश्रेणिकृत) Rosids
गण: Fabales
कुल: Fabaceae
प्रजाति: Butea
जाति: B. monosperma
द्विपद नाम
Butea monosperma
(Lam.) Taub.
पर्याय

Butea frondosa Roxb. ex Willd.
Erythrina monosperma Lam.<ref name=

केऱाला राज्ये वेळ्ळक्कात्तु मनायाम् पलाश वृक्षः, भारतम्
पलाश् पत्रम्

अयं पलाशवृक्षः भारतस्य कश्चन वृक्षविशेषः । अयं वृक्षः भारतस्य अत्यधिकेषु प्रदेशेषु वर्धते । अयं पलाशवृक्षः १२ – १५ मीटर् यावत् उन्नतः भवति । अस्य त्वक् धूसरवर्णीयं, रूक्षं चापि । अस्य पर्णानि रक्तवर्णीयानि, १५ से.मीयावत् दीर्घाणि च भवन्ति । अस्य फलानाम् अन्तः एकं बीजं भवति । अस्मिन् बाल्सिनिन्, किनोट्योनिक् आसिड् इत्यादयः अंशाः भवन्ति । अस्य वृक्षस्य त्वक्, पुष्पं, फलं, पर्णं, मूलं चापि औषधत्वेन उपयुज्यन्ते ।

इतरभाषासु अस्य पलाशवृक्षस्य नामानि [सम्पादयतु]

अयं पलाशवृक्षः आङ्ग्लभाषया Butea Monosperma इति उच्यते । हिन्दीभाषया “पलाश्” इति, तेलुगुभाषया “पलाडुलु” इति, तमिळ्भाषया “मुरुक्कन् मारम्” इति, मलयाळभाषया “पैलाचम्” इति, कन्नडभाषया “मुत्तुगद मर” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य पलाशवृक्षस्य प्रयोजनानि [सम्पादयतु]

अस्य पलाशवृक्षस्य त्वक् लघु रूक्षं चापि । त्वचः रसः कटुः, तिक्तः च, विपाके मधुरः भवति । त्वक् उष्णवीर्ययुक्तम् । अस्य पुष्पस्य रसः तिक्तः, विपाके मधुरः भवति । पुष्पं स्निग्धगुणयुक्तं, शीतवीर्ययुक्तं चापि ।

१. अस्य पलाशवृक्षस्य पुष्पाणि दाहं (पिपासां), चर्मरोगं, नेत्ररोगं चापि निवारयन्ति ।
२. अस्य बीजानि उदरे कीटबाधायाम्, अतिसारे च उपयुज्यन्ते । अस्मिन् विद्यमानः “बास्लिनिन्” नामकः अंशः क्रिमिनाशकत्वेन कार्यं करोति ।
३. अस्य त्वक्, निर्यासः च मधुमेहं, रक्तपित्तं, मूलव्याधिं चापि परिहरतः ।
४. स्त्रीणां मासिकसमस्यासु, गर्भकोशस्य विकारेषु च अयं हितकरः ।
५. अस्य वृक्षस्य पञ्च अपि अङ्गानि औषधत्वेन उपयुज्यन्ते । अस्य पुष्पाणां चूर्णं ३ -६ ग्रां यावत् सेवनीयम् ।
६. अनेन निर्मितानि “पलाशक्षरघृतं”, “पलाशबीजादिचूर्णम्” इत्यादीनि औषधानि आयुर्वेदस्य आपणेषु उपलभ्यन्ते ।
"http://sa.wikipedia.org/w/index.php?title=पलाशवृक्षः&oldid=234738" इत्यस्माद् उद्धृतम्