पवनमुक्तासनम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

पवनमुक्तासनं योगासनस्य एकम् आसनमस्ति ।

आसनकरणविधिः[सम्पादयतु]

  • पृष्ठमवलम्व्य भूमौ शयनं करोतु ।
  • हस्तद्वयं शरीरमुभयतः भूमौ स्थापयतु ।
  • एकं जानु पुटीकृत्य हस्तद्वयेन दृढं गृह्णातु ।
  • पूरकेण वक्षस्थलं प्रति जानु आकर्षतु ।
  • मस्तकम् अल्पमुत्थाप्य नासाग्रं स्पृशतु ।
  • अपरपादं ऋजुतया भूमौ स्थापयतु ।
  • पञ्चनिमेषान् तस्यामवस्थायां तिष्ठतु ।
  • शनैः शनैः रेचकेण पादम् ऋजुकृत्य भूमौ स्थापयतु ।
  • निमेषमेकं विश्रम्य अपरजानु पूर्ववत् करोतु ।
  • ततः परं जानुद्वयमेकस्मिन् समये वक्षस्थलं प्रति आकर्षतु ।
  • पुनः भूमौ पादद्वयं स्थापयतु ।

लाभः[सम्पादयतु]

  • यकृतः पाकस्थल्याः च उपरि अस्य आसनस्य प्रभावः सम्यक् भवति ।
  • आसनमिदम् उदरस्य दोषयुक्तवायुं नाशयति ।
  • अम्लदोषं विनाश्य कटिग्रन्थिं मृदु करोति ।
  • कोष्ठकाठिन्यं , पाकस्थलीरोगाः च नश्यन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=पवनमुक्तासनम्&oldid=242890" इत्यस्माद् पुनः प्राप्तिः