पश्चिमगोदावरीमण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
पश्चिमगोदावरीमण्डलम्
"Granary of India"
—  मण्डलम्  —
'
Location of पश्चिमगोदावरीमण्डलम्
in आन्ध्रप्रदेशः
निर्देशाङ्काः

16°25′48″N 81°05′24″E / 16.430°N 81.090°E / 16.430; 81.090

देशः भारतम्
राज्यम् आन्ध्रप्रदेशः
मण्डलानि पश्चिमगोदावरीमण्डलम्
Collector & District Magistrate
जनसङ्ख्या

सान्द्रता

३९,३४,७८२ (2011)

५०८ /km2 ( /sq mi)

व्यावहारिकभाषा(ः) तेलुगु
समयवलयः IST (UTC+05:30)
विस्तीर्णम् ७,७४२ square kilometres ( sq mi)
वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः

Aw (कॊप्पेन्)

     १,११५ mm (. in)
     २६.० °C (. °F)
     ४५.९ °C (. °F)
     २३.५ °C (. °F)

जालस्थानम् www.westgodavari.org

अन्तर्विषयाः

इतिहासः [सम्पादयतु]

इदं मण्डलम् १९२५ तमे वर्षे आविर्भूतम् । मौर्यैः, शातवाहनैः, शालङ्कायनैः, विष्णुकुण्डिभिः, चालक्यैः रेड्डिराजैः, गजपतिभिः, गोल्कोण्डनवाबजनैः मोघल्चक्रवर्तिभिः फ्रेञ्च तथा ब्रिटिष- पालकैः च परिपालितम् । कृष्णा-प्राग्गोदावरी-जनपदाभ्यां कांश्चन प्रान्तान् योजयित्वा पश्चिमगोदावरी- मण्डलं कृतवन्तः ।

भौगोलिकम् [सम्पादयतु]

अस्य मण्डलस्य दक्षिणदिशि कृष्णाजनपदम्, बङ्गालाखातसमुद्रः, प्रगुत्तरदिशोः प्राग्गोदावरी, पश्चिमदिशि कृष्णा, खम्मं मण्डलं च सीमायां सन्ति । जनपदस्य भूभागे अरण्यप्रान्तं ११% वर्तते ।

कृषिः वणिज्यं च [सम्पादयतु]

रेडियोधार्मिक-शक्तिवर्धकं मोनोजैट्, सूपर्सैनिक् विमाननिर्माणे उपयुज्यमानम् इल्मनैट्, अयसः दृढ्वर्धकं, क्रोमैट, अङ्कन्यः, वर्णाः, यन्त्रेषु उपयुज्यमानस्य “ बुष्” इत्यस्य निर्माणाय ग्राफैट् खनिजादिकम् अत्रैव उपलभ्यन्ते । सहजवायुनिक्षेपाणां निधिः वर्ततेऽत्र लिङ्गबोयनचर्ल-येनुगुमानिलङ्कप्रान्तेषु । तणुकु, चागल्लु, पालकोल्लु इत्येतेषु प्रान्तेषु शर्करा- कर्मागाराः, एलूरुनगरे धूपवर्तिकानां उत्पादककेन्द्रं च निरन्तरं जनसेवायां मग्नानि । कुक्कुट-मत्स्य- परिश्रमाणां च वृध्दिः जायमाना अस्ति । मण्डलस्य प्रधानकृषिः धान्यम् । सहैव एतेन इक्षुः, जम्बीरम्, कदली इत्यादीनां सेद्यमपि भवति । सेद्यं कुल्यानाम् आधारेण क्रियते । आम्रम्, जम्बीरम् इत्यादिसस्यद्वारा कृषकाः आजीविकां प्राप्नुवन्ति । कलायः, माषाः द्वितीयसेद्यत्वेन क्रियते ।

वीक्षणीयस्थलानि [सम्पादयतु]

पञ्चारामेषु प्रसिध्दक्षेत्रद्वयम्- सोमारामम् (गुडिपूडि), क्षीरारामम् अत्रैव विराजेते । द्वारकातिरुमल-पुण्यक्षेत्रं मण्डलेऽस्मिन् विराजते । कोल्लेरुसरः पर्याटकानां मनः मोदयति । मण्डले आर्थिकमण्डलत्रयम् अस्ति । अस्य मण्डलस्य महाविद्यालयाः आन्ध्रविश्वविद्यालयपरिधौ कार्यं कुर्वन्ति ।

तालूकाः [सम्पादयतु]

बाह्यसम्पर्कतन्तुः [सम्पादयतु]