पश्चिमबङ्गालम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
पश्चिमबङ्गालम्
—  राज्यम्  —
Location of West Bengal in India
Map of West Bengal
राष्ट्रम् भारतम्
Region 'ईस्ट् ईन्डिया'
स्थापना 1 नवेम्बर् 1956
राजधानिः कोलकाता
महानगरम् कोलकाता
Districts 19 total
Government
 • राज्यपालः श्री एम्। के। नारायणन्
 • मुख्यमन्त्रिणि श्रीमती ममता बाMamata Banerjee (TMC)
 • Legislature Unicameral (295* seats)
विस्तीर्णता
 • संहतिः ८८,७५२ Square km (३४,२६७.३ Square mile)
क्षेत्रस्तरः 13th
Population (2011)[१]
 • संहतिः ९,१३,४७,७३६
 • Rank 4th
IST (UTC+05:30)
ISO 3166 code IN-WB
HDI decrease 0.625 (medium)
HDI rank 19th (2005)
Literacy 77.08%[२]
Official languages Bengali · English
जालस्थानम् westbengal.gov.in
^* 294 elected, 1 nominated

पश्चिमबङ्गाल (পশ্চিম বঙ্গ) भारतस्‍य पूर्वभागे विद्यमानं किञ्चन राज्यम् अस्‍ति । अस्य राजधानी - कोलकाता । अत्रत्या जनसङ्ख्या अस्ति - ९,१०,००,००० । बहुजनसङ्ख्यायुक्तेषु राज्येषु इदं चतुर्थस्थाने विद्यते । अस्य विस्तारः अस्ति ३४,२६७ चतुरस्र कि मी मितः । एतत् राज्यं परितः नेपालम्, भूतान्, बाङ्ग्लादेशः विद्यन्ते । ओरिस्सा, झार्खण्ड्, बिहार्, सिक्किम्, असमराज्यानि च परितः विद्यन्ते । अस्य राज्यस्य दक्षिणपार्श्वे गङ्गातीरप्रदेशः, उत्तरदिशि हिमालयपर्वतप्रदेशश्च विद्यते ।

३ शतके बङ्गालराज्यस्य महान् भागः चक्रवर्तिना अशोकेन जितः आसीत् । ४ शतके अयं भागः गुप्तसाम्राज्येन वशीकृता । १८ शतके ब्रिटिश्जनानां शासनस्य आरम्भपर्यन्तम् इदं राज्यं बहुभिः सुल्तानपदवाचैः, समर्थहिन्दुराजैश्च शासितम् । १७५७ तमे वर्षे जाते प्लास्सीसङ्ग्रामस्य अनन्तरम् अयं प्रदेशः ब्रिटिश्-ईस्ट्-इण्डियासंस्थया वशीकृतः । तेषां राजधानीत्वेन आसीत् कलकत्तानगरम् । ब्रिटिश्जनानां सुदीर्घशासनस्य कारणतः पाश्चात्यशिक्षणं, वैज्ञानिकप्रगतिः, सांस्थिकशिक्षणं, धर्मस्य सामाजिकपरिवर्तनं च जातम् । ततः बेङ्गाल्-नवोदयः जातः । १९४७ तमे वर्षे स्वातन्त्र्यसङ्ग्रामस्य अनन्तरम् इदं राज्यं द्विधा विभक्तम् - भारतस्य राज्यं पश्चिमबङ्गाल्, पूर्वबङ्गाल् यच्च आदौ पाकिस्थानस्य भागः आसीत् । १९७१ तमे वर्षे बङ्ग्लादेशस्य भागः जातः ।

कृषिप्रधानराज्यमिदं भारतस्य गृहोत्पादने षष्ठे स्थाने विद्यते । दशकत्रयात् साम्यवादिसर्वकारः राज्यं शास्ति । कलकत्ता भारतस्य 'सांस्कृतिकराजधानी' इति प्रसिद्धा । नोबेल्प्रशस्तिविजेता रवीन्द्रनाथठाकूरः अत्रत्यः । सङ्गीतज्ञाः चित्रनिर्मापकाः कलाविदश्च बहवः विद्यन्ते अत्र । क्रिकेट्-सासर्-क्रीडाश्च अत्र आधिक्येन दृश्यते ।

[सम्पादयतु] शब्दनिष्पत्तिः

'बेङ्गाल् / बाङ्ग्ला' इत्येतस्य शब्दस्य मूलम् अज्ञातम् । अयं शब्दः वङ्ग, बङ्गनामकात् पुरातनसाम्राज्यात् प्राप्तं स्यात् इति ऊह्यते । केषुचित् संस्कृतसाहित्येषु इदं नाम श्रूयते ।

[सम्पादयतु] इतिहासः

पुरातत्वशोधकैः २०,००० वर्षेभ्यः पूर्वतनस्य शिलायुगस्य उपकरणानि प्राप्तानि सन्ति । अस्य प्रदेशस्य सभ्यतायाः विषये ४००० वर्षेभ्यः पूर्वतनः उल्लेखः दृश्यते -द्राविडाः, टिबेटो-बर्मन्, आस्ट्रो-एशियाटिक्जनाः यदा अत्र निवसन्ति स्म तदानीन्तनं विवरणम् । पौराणिक-उल्लेखानुगुणं वङ्गसाम्राज्यस्य भागः आसीत् अयं प्रदेशः । क्रि पू ७ शतके बिहार-बेङ्गालप्रदेशान् संयोज्य मगधसाम्राज्यं निर्मितम् आसीत् । महावीर-बुद्धयोः काले विद्यमानेषु चतुर्षु महासाम्राज्येषु इदम् अन्यतमं वर्तते । क्रि पू ३ शतके मौर्यसाम्राज्यस्य अशोकस्य काले मगधसाम्राज्यं बहु विस्तृतम् आसीत् । अफघानिस्थान-पर्शियाभागाः च मगधसाम्राज्ये योजिताः सन्ति ।

पुरातनग्रीक्जनैः कृतः अस्य प्रदेशस्य उल्लेखः क्रि पू १०० वर्षे उपलभ्यते - 'गङ्गारिदै' इति । इदं पदं बेङ्गालस्य 'गङ्गाहृद्' इत्यस्मात् स्यात् इति भाति । बेङ्गालस्य सुवर्णभूम्या (बर्मा, अधः थैलेण्ड्, अधः मलय्-पेनिसुल, सुमात्रा) सह वाणिज्यसम्पर्कः आसीत् । महावंशस्य अनुगुणं वङ्गराजकुमारः विजयसिङ्गः लङ्कां जित्वा 'सिंहल'इति नामाङ्कनम् अकरोत् ।

३ शतकात् ६ शतकपर्यन्तं मगधसाम्राज्यं गुप्तैः शास्यते स्म । प्रथमः स्वतन्त्रशासकः आसीत् शशाङ्कः (७ शतकम्) । अग्रिम ४०० वर्षाणि यावत् बौद्ध-पालवंशेन शासनं कृतम् । ततः किञ्चित् कालं यावत् हिन्दु-सेनावंशेन शासनं कृतम् । १२ शतके सूफिप्रचारकाणाम् आगमनेन बेङ्गाले इस्लाम्-मतस्य प्रवेशः जातः ।

सम्‍बद्धा:-विषया:

[सम्पादयतु] बाह्यशृङ्खला

  1. Area, population, decennial growth rate and density for 2001 and 2011 at a glance for West Bengal and the districts: provisional population totals paper 1 of 2011: West Bengal. Registrar General & Census Commissioner, India. दिनांकः 26 January 2012.
  2. Sex ratio, 0-6 age population, literates and literacy rate by sex for 2001 and 2011 at a glance for West Bengal and the districts: provisional population totals paper 1 of 2011: West Bengal. Government of India:Ministry of Home Affairs. दिनांकः 29 January 2012.
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु