पश्चिमबङ्गलराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(पश्चिमबङ्गालम् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
पश्चिमबङ्गालम्
वङ्गराज्यम्
—  राज्यम्  —
भारते पश्चिमबङ्गालस्य स्थानम्
पश्चिमबङ्गालस्य मानचित्रम् ।
राष्ट्रम् भारतम्
प्रान्तः 'ईस्ट् ईन्डिया'
स्थापनम् सा.श. १९५६तमवर्षस्य नवेम्बरमासस्य प्रथमदिनम् ।
राजधानी कोलकाता
महानगरम् कोलकाता
मण्डलानि पश्चिमबङ्गालस्य मण्डलानि १९
Government
 • राज्यपालः श्री एम्। के। नारायणन्
 • मुख्यमन्त्रिणी श्रीमती ममता ब्यानर्जी
 • विधानसभा अद्वितीयाशासनसभा २९५स्थानानि ।
विस्तीर्णता
 • संहतिः ८८,७५२ Square km (३४,२६७.३ Square mile)
क्षेत्रस्तरः त्रयोदशः
Population (सा.श.२०११तमकाले गणिता ।)[१]
 • संहतिः ९,१३,४७,७३६
 • Rank चतुर्थम्
IST (UTC+05:30)
ISO 3166 code IN-WB
HDI decrease 0.625 (medium)
HDI rank 19th (2005)
साक्षरता 77.08%[२]
व्यावहरिकभाषा बङ्गालीभाषा · आङ्लभाषा
जालस्थानम् westbengal.gov.in
^* २९४निर्वाचिताः १ अनुसूचितः

पश्चिमबङ्गाल (পশ্চিম বঙ্গ) भारतस्‍य पूर्वभागे विद्यमानं किञ्चन राज्यम् अस्‍ति । अस्य राजधानी - कोलकाता । अत्रत्या जनसङ्ख्या अस्ति - ९,१०,००,००० । बहुजनसङ्ख्यायुक्तेषु राज्येषु इदं चतुर्थस्थाने विद्यते । अस्य विस्तारः अस्ति ३४,२६७ चतुरस्र कि मी मितः । एतत् राज्यं परितः नेपालम्, भूतान्, बाङ्ग्लादेशः विद्यन्ते । ओरिस्सा, झार्खण्ड्, बिहार्, सिक्किम्, असमराज्यानि च परितः विद्यन्ते । अस्य राज्यस्य दक्षिणपार्श्वे गङ्गातीरप्रदेशः, उत्तरदिशि हिमालयपर्वतप्रदेशश्च विद्यते ।

३ शतके बङ्गालराज्यस्य महान् भागः चक्रवर्तिना अशोकेन जितः आसीत् । ४ शतके अयं भागः गुप्तसाम्राज्येन वशीकृता । १८ शतके ब्रिटिश्जनानां शासनस्य आरम्भपर्यन्तम् इदं राज्यं बहुभिः सुल्तानपदवाचैः, समर्थहिन्दुराजैश्च शासितम् । १७५७ तमे वर्षे जाते प्लास्सीसङ्ग्रामस्य अनन्तरम् अयं प्रदेशः ब्रिटिश्-ईस्ट्-इण्डियासंस्थया वशीकृतः । तेषां राजधानीत्वेन आसीत् कलकत्तानगरम् । ब्रिटिश्जनानां सुदीर्घशासनस्य कारणतः पाश्चात्यशिक्षणं, वैज्ञानिकप्रगतिः, सांस्थिकशिक्षणं, धर्मस्य सामाजिकपरिवर्तनं च जातम् । ततः बेङ्गाल्-नवोदयः जातः । १९४७ तमे वर्षे स्वातन्त्र्यसङ्ग्रामस्य अनन्तरम् इदं राज्यं द्विधा विभक्तम् - भारतस्य राज्यं पश्चिमबङ्गाल्, पूर्वबङ्गाल् यच्च आदौ पाकिस्थानस्य भागः आसीत् । १९७१ तमे वर्षे बङ्ग्लादेशस्य भागः जातः ।

कृषिप्रधानराज्यमिदं भारतस्य गृहोत्पादने षष्ठे स्थाने विद्यते । दशकत्रयात् साम्यवादिसर्वकारः राज्यं शास्ति । कलकत्ता भारतस्य 'सांस्कृतिकराजधानी' इति प्रसिद्धा । नोबेल्प्रशस्तिविजेता रवीन्द्रनाथठाकूरः अत्रत्यः । सङ्गीतज्ञाः चित्रनिर्मापकाः कलाविदश्च बहवः विद्यन्ते अत्र । क्रिकेट्-सासर्-क्रीडाश्च अत्र आधिक्येन दृश्यते ।

शब्दनिष्पत्तिः[सम्पादयतु]

'बेङ्गाल् / बाङ्ग्ला' इत्येतस्य शब्दस्य मूलम् अज्ञातम् । अयं शब्दः वङ्ग, बङ्गनामकात् पुरातनसाम्राज्यात् प्राप्तं स्यात् इति ऊह्यते । केषुचित् संस्कृतसाहित्येषु इदं नाम श्रूयते ।

इतिहासः[सम्पादयतु]

पुरातत्वशोधकैः २०,००० वर्षेभ्यः पूर्वतनस्य शिलायुगस्य उपकरणानि प्राप्तानि सन्ति । अस्य प्रदेशस्य सभ्यतायाः विषये ४००० वर्षेभ्यः पूर्वतनः उल्लेखः दृश्यते -द्राविडाः, टिबेटो-बर्मन्, आस्ट्रो-एशियाटिक्जनाः यदा अत्र निवसन्ति स्म तदानीन्तनं विवरणम् । पौराणिक-उल्लेखानुगुणं वङ्गसाम्राज्यस्य भागः आसीत् अयं प्रदेशः । क्रि पू ७ शतके बिहार-बेङ्गालप्रदेशान् संयोज्य मगधसाम्राज्यं निर्मितम् आसीत् । महावीर-बुद्धयोः काले विद्यमानेषु चतुर्षु महासाम्राज्येषु इदम् अन्यतमं वर्तते । क्रि पू ३ शतके मौर्यसाम्राज्यस्य अशोकस्य काले मगधसाम्राज्यं बहु विस्तृतम् आसीत् । अफघानिस्थान-पर्शियाभागाः च मगधसाम्राज्ये योजिताः सन्ति ।

पुरातनग्रीक्जनैः कृतः अस्य प्रदेशस्य उल्लेखः क्रि पू १०० वर्षे उपलभ्यते - 'गङ्गारिदै' इति । इदं पदं बेङ्गालस्य 'गङ्गाहृद्' इत्यस्मात् स्यात् इति भाति । बेङ्गालस्य सुवर्णभूम्या (बर्मा, अधः थैलेण्ड्, अधः मलय्-पेनिसुल, सुमात्रा) सह वाणिज्यसम्पर्कः आसीत् । महावंशस्य अनुगुणं वङ्गराजकुमारः विजयसिङ्गः लङ्कां जित्वा 'सिंहल'इति नामाङ्कनम् अकरोत् ।

३ शतकात् ६ शतकपर्यन्तं मगधसाम्राज्यं गुप्तैः शास्यते स्म । प्रथमः स्वतन्त्रशासकः आसीत् शशाङ्कः (७ शतकम्) । अग्रिम ४०० वर्षाणि यावत् बौद्ध-पालवंशेन शासनं कृतम् । ततः किञ्चित् कालं यावत् हिन्दु-सेनावंशेन शासनं कृतम् । १२ शतके सूफिप्रचारकाणाम् आगमनेन बेङ्गाले इस्लाम्-मतस्य प्रवेशः जातः ।

मण्डलानि[सम्पादयतु]

पश्चिमबङ्गलराज्ये १९ मण्डलानि सन्ति ।

सङ्केतः मण्डलम् केन्द्रम् जनसङ्ख्या (२००१) विस्तीर्णता(किमी²) सान्द्रता(प्रती किमी²)
BI बीरभूम-मण्डलम् सुरी ३०,१२,५४६ ४,५४५ ६६३
BN बाङ्कुरामण्डलम् बाङ्कुरा ३१,९१,८२२ ६,८८२ ४६४
BR बर्धमान बर्धमान ६९,१९,६९८ ७,०२४ ९८५
DA दार्जीलिङ्ग दार्जीलिङ्ग १६,०५,९०० ३,१४९ ५१०
DD दक्षिण दिनाजपुरम् बालुरघाट १५,०२,६४७ २,१८३ ६८८
HG हूगळी चिन्सुराह ५०,४०,०४७ ३,१४९ १,६०१
HR हावरा हावरा ४२,७४,०१० १,४६७ २,९१३
JA जलपाइगुडी जलपाइगुडी ३४,०३,२०४ ६,२२७ ५४७
KB कूचबिहार कूचबिहार २४,७८,२८० ३,३८७ ७३२
KO कोलकाता कोलकाता ४५,८०,५४४ १८५ २४,७६०
MA मालदा इंग्लिश बझार ३२,९०,१६० ३,७३३ ८८१
ME मिदनापोर मिदनापोर ९६,३८,४७३ १४,०८१ ६८५
MU मुर्शिदाबाद बहरामपुर ५८,६३,७१७ ५,३२४ १,१०१
NA नदिया कृष्णनगर ४६,०३,७५६ ३,९२७ १,१७२
PN उत्तर २४ परगणा बरसात ८९,३०,२९५ ४,०९५ २,१८१
PS दक्षिण २४ परगणा अलिपोर ६९,०९,०१५ ९,९५५ ६९४
PU पुरुलिया पुरुलिया २५,३५,२३३ ६,२५९ ४०५
UD उत्तर दिनाजपुर रायगंज २४,४१,८२४ ३,१८० ७६८


सम्‍बद्धा:-विषया:

कोलकाता[सम्पादयतु]

कोलकाता भारतदेशे स्थितेषु महानगरेष्बेकमस्ति । अस्य ३०० वर्षाणाम् इतिहासः अस्ति । पूर्वदेशानां द्वारमिवास्ति एतत् कोलकातानगरम् । एतन्नगरं पूर्वं भारतस्य राजधानी आसीत् । अत्र यात्रिकैः दर्शनीयानि अनेकानि स्थलानि सन्ति।

हौराधूमशकटनिस्थानम्[सम्पादयतु]

एतत् भारतदेशे एव अत्यधिकविभागपूर्ण धूमशकटनिस्थानमस्ति । असङ्ख्याः जनाः अत्र गमनागमनं कुर्वन्ति ।

हौरासेतुः[सम्पादयतु]

हूग्लीनद्याः पारगमनाय सा.श.१९४३ तमे वर्षे एव निर्मितः रबीन्द्रसेतुः विविधकारणेन अत्यहभुतः अस्ति । तान्त्रिककुशलतायाः स्थानमस्ति । अस्य दीर्घता १५०० पादमिता विस्तारः ७१ पादमितः च स्तः । २७० पादोन्नते स्थले सेतुः निर्मितः अस्ति । अत्र वाहनसञ्चारार्थम् अष्टमार्गाः सन्ति । पादचारिणां कृत एव पादचरिमार्गौ स्तः ।

विद्यासागरसेतुः[सम्पादयतु]

नवीनः सेतुः विद्यासागर सेतुः । अयं १५२ अयसः बृहत्ताराणाम् आधारेण स्थितः । एषः सेतुः सुदृढः ८५ सहस्रजनानां भारन् वोढु समर्थः अस्ति । कोलकोता नगरे विद्यमानाना भवनेषु आङ्ग्लानां शैल्याः प्रभावः अस्ति । फेञ्जवातायनानि, वेनिषियन् ब्लौण्ड्स् वृत्ताकाराणि सोपानानि, अत्र भवनेषु दृश्यन्ते । प्रमुखमार्गोणाम नामानि अपि आङ्गलनामानि सन्ति । कानिचन नामानि उदानी परिवर्तितानि सन्ति । शतशः शिलामूर्तयः विक्टोरियासामरकस्य समीपे सङ्गृहीताः सन्ति । एत विक्टोरियन् इति वदन्ति विक्टोरिया स्मारकभवनं प्राचीनवस्तुसङ्ग्रहालयः इति प्रसिध्दम् । एषः सङ्ग्रहालयः सा.श.१९२१ तमे वर्षे आरब्धः। नगरे रौत्नहाल हैकोर्ट इण्डियाम्यूसिय इत्यादि आकर्षकाणि सन्ति ।

सस्योद्यानम्[सम्पादयतु]

सा.श.१७८६ तमे वर्षे स्थापितम् एतदुद्यानं १०८ हेक्तर् प्रदेशे विस्तारयुक्तमस्ति । अत्र ३० सहस्राधिकाः सस्यभेदाः सन्ति २५० वर्षप्राचीनं ९५ चतुरस्रमीटर् विस्तृतः प्रसिध्दः बटवृक्षः २६ मीटर् उन्नतः च अस्ति । अस्य परिधिः१२०० पादमिता एतत् सस्योद्यानं प्रतिदिनं सहस्रशः जनाः आगच्छन्ति । सस्योद्यानं सन्दृष्टुं प्रातः ९ वादनतः सायं ६ वादनपर्यन्तम् अवकाशः अस्ति शुष्कजातीयाः सस्यविशेषाः अपि अत्र सन्ति ।

इतरस्थानानि[सम्पादयतु]

कोलकातानगरे दर्शनीयानि स्थानानि अन्यानि अपि सन्ति । तेषु पोर्टविलियम्, ईडन्गार्डन्, क्रीडाङ्गणम्, अलिपुरम् पाणिसङ्ग्रहोद्यानं, सितम्बरजैनदेवालयः (नाकोड् मसीदिप्रार्थनामन्दिरं ), षाहीदमीनार् (४८.१ मीटर उन्नत), बेलूरुमठः रबीन्द्रसरोवरः विरलातारामण्डल, ठाकूरसदन इत्यादि प्रमुखानि सन्ति । चान्दपाल् घाटतः हूग्लीनद्या नौकाविहाअः कर्तुं शक्यते इदानी विज्ञान अगर (Science City) मेट्रोधूम शकटप्रवासः सन्तोषकराः आकर्षणीयाः सन्ति । विमानमार्गः कोलकाता नगरस्य देशस्य विविधैः नगरैः विमानसम्पर्कः अस्ति । धूमशकटमार्गः – नगरे हौरा, सीलडानिस्थाने स्तः । देहली मुम्बयी चेन्नै अहमदाबादनगरैः साक्षात् धूमशकटयानानि सन्ति । वाहनमार्गः – बेङ्गळूरुतः १८८३ कि.मी । चेन्नैतः १६७५ कि.मी । मुम्बयीतः २०८१ कि.मी डार्जिलिङ्गतः १८९ कि.मी दूरे भवति ।

शान्तिनिकेतनविश्वविद्यालयस्थानम्[सम्पादयतु]

कोलकोतानगरतः घण्टात्रय यावत् प्रयाण कृत्वा शान्तिनिकेतन स्थल प्राप्तु शक्यते । अत्रैव विश्वकवि रवीन्द्रनाथठागूरः शान्तिनिकेतनविद्यालय सा.श. १९०१ तमे वर्षे प्रारम्भं कृतवान् । केवल पञ्चविद्यार्थिनः आसन् रवीन्द्रनाथ ठागुरमहोदयस्य् पिता महर्षि देवेन्द्रनाथ ठागूरमहोदयः विद्यालयस्य आधारशिला स्थापितवान् । सा.श.१९२१ वर्षसमये शाला एव विश्वभारती इति नाम प्राप्तवती । इदानी स्वतन्त्रविश्वविद्यालयः अन्ताराष्ट्रीयविद्यार्थिना मार्गदर्शनकेन्द्रमस्ति । सहस्रशः विद्यार्थिनः अत्र ज्ञान प्राप्तु आगच्छन्ति । विशाले आम्रवाटिकाया भव्यभवनानि रचितानि सन्ति । प्रकृत्या सह मानवविकासः भवतु इति रवीन्द्रनाथ ठागूरमहोदयस्य आशयः आसीत् । सः अतीव प्रकृतिप्रियः सः यत्र वसतिस्म तत्स्थान रवीन्द्रसदनम् इति प्रसिद्धम् । अत्र रवीन्द्रनाथठागूरमहोदयेन उपयुक्तानां वस्तूना सङ्ग्रहः कृतः अस्ति । अत्र नन्दलालबसु महोदयस्य चित्राणां सङ्ग्रहः अस्ति । रवीन्द्रनाथठागुरः स्वय चित्रकारः सङ्गीतज्ञः च आसीत् । रबीन्द्रसङ्गीतम् इति विशिष्टप्रकारस्य सङ्गीतम् एतेनैव आरब्धम् अस्ति । इदानीमत्र नृत्यबोधनमपि भवति । पूर्वकालतः अपि शान्तिनिकेतनम् उत्तमोद्देशान् सङ्कल्प्य स्थापितं विद्याकेन्द्रम् । इदानी जगत्प्रसिध्दमस्ति । वाहनमार्गः – कोलकोतातः १६३. कि.मी. धूमशकटमार्गः – भोल्पुरधूमशकटनिस्थानं समीपतमं भवति ।

भसमानं डार्जिलिङ्ग्[सम्पादयतु]

प्राचीनकाले दुर्जयलिङ्गम् इति प्रसिद्धम् एतत् दार्जिलिङ्ग् हिमालयस्य सान्मुप्रदेशे सुन्दरं गिरिधामनगरम् । स्विजर्लेण्ड् इव एतत् उत्तमं सुन्दरतमं चास्ति । उन्नतकाञ्चनजुङ्गा पर्वतः सानुप्रदेशे चायवाटिकानां मध्ये व्याप्तमेतत् स्थलम् । पूर्वम् आङ्ग्लानां निदाघकालीनं वासस्थलमासीत् । इदानी प्रवासिनां स्वर्गः ति कथयन्ति । देशविदेशेभ्यः जनाः प्रतिदिनम् अत्रागच्छन्ति ।

पर्वतप्रदेशीयरैल्यानम्–

डार्जिलिङ्गस्य प्रवासः सिलगुरितः धूमशकटयानेन आरब्धः भवति । ८८ कि.मी. दूरस्य प्रवासे प्रतिघण्टाः १२ कि.मी. वेगे धूमशकटविशेषयानं पर्वतारोहणं करोति । एतत् धूमशकटयानं वनपर्वतमध्ये सुन्दरतया सविलासं वक्रमार्गेषु सुरङ्गमार्गेषु गच्छत् षड्घण्टावधौ डार्जिलिङ्गप्रदेशं प्रापयति । पार्श्वे पर्वतशिखराणां वनानां प्रपातानां दर्शनं निरन्तरं भवति । मार्गे वक्रगतयः सन्ति । प्रयाणसमयः अतीवानन्ददायकः भवति ।

चायपर्णवाटिकाः –

बटासियालूपप्रदेशे चायसस्यवाटिकाः सन्ति । कुरेसाङ्ग् प्रदेशे लघुभवनानि सन्ति । अग्रेढूम इति स्थले सागरस्तरतः ८००० पादोन्नते स्थले धूमशकट् निस्थानमस्ति । एतत् विश्वे एव अत्युन्नतस्थले निर्मितं धूमशकटनिस्थानम् इति ख्यातमस्ति । अत्र प्रवासिजनाः भयकरे प्राकृर्तिकस्थले लोहमार्गम् आश्चर्येण पश्यन्ति ।

दर्शनीयान्यन्यस्थानानि[सम्पादयतु]

पद्मजानायिडु हिमालयस्य मृगालयः, न्याचुरल् हिस्टरी म्युसियम्, लायिड्स् बोटानिकल् गार्डन्, हिमालयस्य मौण्टेरियन् इन्स्टिट्यूट्, रङ्गीतव्याली, प्यासेञ्जररोपृवे, लेषाङ्गरेस् कोर्स् इत्यादि स्थानानि अपूर्वाणि सन्ति । जलदपारा प्रदेशे मृगवीक्षणाय अवकाशः अस्ति । अत्र रैनो, रायल् बेङ्गाल् टैगर, गजाः, वनमहिषाः इत्यादयः सन्ति । मिरिक् सरोवरः डार्जिलिङ्ग समीपे अस्ति । अत्र मत्स्यग्रहणं, नैकाविहारः पादचारणम् इत्यादिमनोरञ्जककार्याणाम् आनुकूल्यम् अस्ति । समीपे धूमप्रदेशे १५६ पादमिता बुध्दस्य प्रतिमा अस्ति । सिलगुरितः ५२. कि.मी. दूरे कालियपाङ्ग्र वीक्षणालयः अस्ति । पर्वतारोहणम्, जलसाहसक्रीडा इत्यादीनां कृते कुरेसाङ्ग् अतीव प्रसिध्दम् अस्ति । ३६ कि.मी । एतान् सञ्चलतां स्वर्गः इति कथयन्ति । डार्जिलिङ्ग् पर्वतारोहणस्य आनन्दप्राप्तये अतीवोत्तमं स्थलमस्ति । एप्रिल् मासतः ये अक्टोबरमासतः नवम्बरमासपर्यन्तकाले अत्रातीव परिसरः अतीव रमणीयः भवति । एतत्समये वृक्षेषु पुष्पाणि विकसन्ति । तुषारः अपि न भवति । पक्षिवीक्षणमपि अतीव मनमोहकं भवति । व्याघ्रपर्वतः  ; एतत् तु अवश्यं दर्शनीयस्थलेषु अन्यतमः । इतः सूर्योदयदर्शनं वर्णनातीतं भवति । डार्जिलिङ्गतः १४ कि.मी. दूरे एतत्स्थानमस्ति । वाहनमार्गः कोलकोतातः ६८६ कि.मी. दूरे भवति । धूमशकटमार्गः – न्यूजपैगुरि – डार्जिलिङ्ग् यानम्, डार्जिलिङ्ग्मेलयानम्, सीलडानिस्थानतः प्रयाणस्य आरम्भः भवति । विमानमार्गः – बागदोग्राविमाननिस्थानं ९० कि.मी. सिलगुटितः लोकयानानि लघुवाहनानि प्रातः ६ वादनतः सायं ४ वादनपर्यन्त सञ्चरन्ति । दूर ८० कि.मी । वसति कृते अनेकानि उपाहारवसतिगृहाणि सन्ति ।

सुन्दरबनं राष्ट्रियोद्यानम्[सम्पादयतु]

पश्चिमबङ्गालराज्ये गङ्गाब्रह्मपुत्रानद्योः अधोभागे लवणमिश्रितभूमौ एतत् उद्यानम् अस्ति । अस्य विस्तारः १३३० चतुरस्र कि.मी. भवति । प्रपञ्चे एव एतत् प्रदेशगभीरता प्रसिध्दा अस्ति । म्याङ्ग्रूव वनप्रदेशः एषः अतीव सुन्दरः अस्ति । अत्र ५४ द्वीपानि सन्ति । अनेक नद्यः अत्र सागरं प्रविशन्ति । सर्वतः जलमयप्रदेशः दृश्यते । पूर्व एतत् चोराणा लुण्ठकाना स्थानमासीत् । अधुना नौकाविहारः आह्लादकरः भवति । नामखान् रायडगी सोनाकाली नजाततः नौकायनव्यवस्था अस्ति । द्वीपानां दर्शन अतीवानन्दं जनयति । एतत् स्थलं व्याघ्रसंरक्षितप्रदेशः अस्ति । अत्र बङ्गालव्याघ्राणां दर्शनमपि भवति । अत्र वने कपयः वनसूकराः भल्लूकाः, जङ्गलक्यार् इत्यादि प्राणिनः सन्ति । अत्र जले १२० जातीयाः मीनाः सन्ति । मकराः कर्कटकाः सर्पाः अजगराः, विविधसर्पाः, कच्छपाः, कूर्माः च अत्र सन्ति । अत्र भगवतपुरं क्रकडैल प्राजेक्ट, जम्बूदीपः साजदेखालि, बूरिदाब्रि, व्याग्रयोजनाः, विरामद्वीपः, सोनाकाली इत्यादीनि द्वीपानि प्रसिद्धानि सन्ति । सागरएलेण्ड् प्रदेशे गङ्गानदी बङ्गालेष सागर प्रविशति । अत्र जनाः पुण्यस्नान कुर्वन्ति मकरसङ्क्रान्ति दिने लक्षाधिकजनाः अत्र पवित्र स्नान कुर्वन्ति । वाहनमार्गः - कोलकातातः १७५ कि.मी. नौकया इतः ५ घण्टप्रवासः । वसतिकृते साज्ञिने कालिस्थले प्रवासीभवनम् अस्ति । सागरद्विफे कुटीराणि वीक्षणगोपुराणि च सन्ति । सप्तम्बरमसतः मेमासपर्यन्तं दर्शनार्थम् सकालः अस्ति । गौसाबनगरतः ५० कि.मी ।

पाश्चिमबङ्गालराज्यस्य सागरतीराणि[सम्पादयतु]

ओरिस्सा राज्यसीमासमीपे एतत् रमणीयं सागरतीरमस्ति । एतत् अत्यन्तं सुन्दरं स्थलमस्ति । हूग्लीनदी अत्र सागरं प्रविशति । सूर्य किरणानां सागरतरङ्गेषु लीलाः दर्शनीयाः विविधवर्णेषु प्रतिफलन्ति । पार्श्वे तिन्त्रिणीवृक्षवाटिकाः सन्ति । सागरतीरे सञ्चारः आनन्दाय भवति । सुन्दरस्वच्छः प्रदेशः आरोग्यवर्धनाय उत्तमः अस्ति । अत्र जनाः तरणे आसक्ताः भवन्ति । सागरतरङ्गाः उपरि अधः गच्छन्तः प्रवासीजनान् आकर्षयन्ति । समीपे अनेकदेवमन्दिराणि सन्ति । जुलैमसतः मार्चपर्यन्तं सन्दृष्टुं सुकालः भवति । वाहनमार्गः – कोलकातातः १८५ कि.मी. ६ घण्टाप्रयाणं भवति । अत्र वसति गृहाणि सन्ति । बक्काळि (फ्रेजर्गञ्ज, करसारगञ्जृ) हूग्लीनदीतः पूर्वदिशि १३२ कि,मी दूरे नदीतीरे एतत् निसर्गरमणीय स्थलमस्ति । प्रवासी जनानां अत्र नौकासञ्चारः साध्यः अस्ति तिन्त्रिणीवृक्षाणां मध्ये सञ्चारः सन्तोषकरः भवति । पादचारणं वक्काळितः फेजर गञ्ज पर्यन्त (२. कि.मी )कर्तुं शक्यते ।

धाकूरियसरः[सम्पादयतु]

नगरप्रदेशात् नैके जनाः अत्र विहारार्थम् आगच्छन्ति । सरस्तीरे जापानी जनैः निर्मितं बौद्धमन्दिरम् अस्ति ।

बाह्नानुबन्धाः[सम्पादयतु]

  1. "Area, population, decennial growth rate and density for 2001 and 2011 at a glance for West Bengal and the districts: provisional population totals paper 1 of 2011: West Bengal". Registrar General & Census Commissioner, India. Retrieved 26 January 2012. 
  2. "Sex ratio, 0-6 age population, literates and literacy rate by sex for 2001 and 2011 at a glance for West Bengal and the districts: provisional population totals paper 1 of 2011: West Bengal". Government of India:Ministry of Home Affairs. Retrieved 29 January 2012. 
"http://sa.wikipedia.org/w/index.php?title=पश्चिमबङ्गलराज्यम्&oldid=246326" इत्यस्माद् पुनः प्राप्तिः