पश्चिमोत्तानासनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आसनकरणविधिः[सम्पादयतु]

  • दण्डासने उपविश्य हस्तद्वयं नितम्बस्य उभयतः स्थापयतु ।
  • बाहुद्वयेन कर्णद्वयं स्पृष्टवा पूरकेण शनैः शनैः हस्तद्वयम् उत्तोलयतु ।
  • ततः हस्तद्वयं पुरतः प्रसार्य रेचकेण शरीरम् अग्रे नमयतु ।
  • हस्तद्वयेन पादाङ्गुष्ठद्वयं गृह्णातु ।
  • मस्तकं जानुद्वयस्य मध्ये स्थापयतु ।
  • निमेषं यावत् स्थित्वा पूरकेण शनैः शनैः उत्तिष्ठतु ।
  • हस्तद्वयमुत्तोल्य, पुनः अधः कृत्वा नितम्बम् उभयतः स्थापयित्वा उपविशतु ।

लाभः[सम्पादयतु]

  • उदरभागस्थाः कट्यन्तस्थिताः महापेशिः, लघुपेशिः, उदरपार्श्वपेशयः च बलवत्तराः भवन्ति ।
  • उदरपृष्ठभागे कटिप्रदेशे च वर्तमानानां सर्वेषां पेशीनां स्नायूनां च प्रवृत्तिकुशलता सम्भवति ।
  • उद रस्य आन्तरिकावयवानां मन्दता नश्यति । अन्त्रमालानां तरङ्गितचलनं वर्धते ।
  • दुर्मेदः कदापि न वर्धेत् । ऊरुस्थानां पेशीनां विकासः सम्भवति ।
  • उदरस्य निम्नभागे स्थितः मूत्रग्रन्थिः सक्रियः भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पश्चिमोत्तानासनम्&oldid=480552" इत्यस्माद् प्रतिप्राप्तम्