पटना

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पाटना इत्यस्मात् पुनर्निर्दिष्टम्)
पटना

पाटलीपुत्रम्
महानगरम्
वामतः दक्षिणं: बुद्धमेमोरियल् पार्क्, तक्थ् श्री पाटनासाहिब्, गोपुरम्, पाटनानस्तुसङ्ग्रहालयः, हुतात्मस्मारकम्
वामतः दक्षिणं: बुद्धमेमोरियल् पार्क्, तक्थ् श्री पाटनासाहिब्, गोपुरम्, पाटनानस्तुसङ्ग्रहालयः, हुतात्मस्मारकम्
देशः  भारतम्
राज्यम् बिहारराज्यम्
क्षेत्रम् मगध
विभाग पटना
मण्डलम् पटना
Ward 72 wards
Government
 • Body पटना नगर निगम
 • महापौरः सीता साहू (NDA)
Area
 • महानगरम् २५० km
Elevation
५३ m
Population
 (2011)
 • महानगरम् १६,८३,२००
 • Density १,८०३/km
 • Metro
२०,४६,६५२
भाषाः
 • अधिकृताः हिन्दी
 • अतिरिक्त अधिकृताः उर्दू
 • क्षेत्रिय मगही
Time zone UTC+५:३० (भारतीयप्रमाणसमयः)
पत्रसङ्केतसङ्ख्या
8000XX
दूरवाणी +91-612
ISO 3166 code IN-BR-PA
Vehicle registration BR 01
Sex ratio 1.13
साक्षरता 84.71% (८४.७१%)
Lok Sabha constituency Patna Parliamentary Constituency, Pataliputra Parliamentary Constituency, Patna Sahib Parliamentary Constituency
Vidhan Sabha constituency Bakhtiyarpur(180), Digha(181), Bankipur(182), Kumhrar(183), Patna Sahib(184), Fatuha(185), Danapur(186), Maner(187), Phulwari-SC(188)
Planning agency Patna Regional Development Authority
Civic agency Patna Municipal Corporation
Distance from Delhi 1,015 किलोमीटर (631 मील) NE (land)
Climate Cwa (Köppen)
Precipitation 1,100 मिलीमीटर (43 इंच)
Avg. annual temperature 26 °से (79 °फ़ै)
Avg. summer temperature 30 °से (86 °फ़ै)
Avg. winter temperature 17 °से (63 °फ़ै)
Website www.patna.nic.in

पटना बिहारराज्यस्‍य राजधानी अस्ति । पाटलीपुत्रं पुरातनभारतस्य किञ्चन नगरम् आसीत्। एतत् नगरम् अजातशत्रुणा स्थापितम्। तदनन्तरं पाटलीपुत्रं मगधमहाजनपदस्य राजधानी अभवत्। द्वौ बौद्धसङ्घौ अत्रैव अभवताम् । महाराजस्य अशोकस्य शासनकाले पाटलीपुत्रं भूमौ वरिष्ठं नगरम् आसीत्। यवनराजदूतः मेगास्तनीस् अस्य सौन्दर्यं वर्णितवान् अस्ति । द्वादशशतके मुसल्मान् आक्रमकाराः एतत् नगरं नाशितवन्तः। अस्य अवशेषाः इदानीन्तनपटनानगरस्य अधः सन्ति । बिहारराज्यस्य महानगरमेतत् राज्यस्य राजधानी अस्ति । अस्य पाटलीपुत्रम् इति नाम आसीत् गङ्गानद्याः तीरे ८ कि.मी दीर्घप्रदेशे व्याप्तं नगरमेतत् । पूर्वदिशि प्राचीनपाटनानगरस्य भागः अस्ति । पश्चिमदिशि नवपटनानगरमस्ति । अत्रैव प्राशासनिकभवनानि सन्ति । मुख्यकार्यालयस्य पुरतः हुतात्मास्मारकं निर्मितम् अस्ति । गोलघर् धान्यसङ्ग्रहालयः क्रिस्ताब्दे १७७० तमे वर्षे निर्मितः। लार्ड् हेस्टिङ्ग महोदयेन रुपितं विचित्राकारकं भवनम् एतत् । एतत् २५ मीटर् उन्नतमस्ति । अस्य शिखरप्रदेशतः पाटनानगरस्य म्यूसीयं, गुरुद्वारं, सिक्खानां हरमन्दिरं, पाटनादेवीमन्दिरं सरदार-आश्रमः च द्रष्टुं शक्यते । खुदाभक्षप्राचीनवाचनालयः कुम्राहारप्राचीनपाटलीपुत्रम् (६ कि.मी) दूरे स्तः । कुम्राहार अशेकचक्रवर्तेः राजधानी आसीत् । क्रिस्तपूर्वतॄतीयशतके चन्द्रगुप्तमौर्यस्य बिन्दुसारस्य च राजधानी अत्र आसीत् । अत्र एकं सभाभवनमासीत् । इदानीं केवलं स्तम्भाः सन्ति । आनन्दविहारनामकं बौद्धमठम् अत्र आसीत् । पाटनासमीपे दर्शनीयानि स्थानानि वैशाली राजगिर नलन्दा इत्यादीनि ।

धूमशकटमार्गः[सम्पादयतु]

पूर्वविभागे देहली-पाटना, कोलकाता-पाटना धूमशकटमार्गौ स्तः । पाटना बृहन्निस्थानमस्ति ।

विमानमार्गः[सम्पादयतु]

देहलीवाराणसी- इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति । पाटना टूर्स् एण्ड् ट्रावल्स् प्रवासव्यवस्थां करोति ।

"https://sa.wikipedia.org/w/index.php?title=पटना&oldid=466777" इत्यस्माद् प्रतिप्राप्तम्