पाटलिपुत्रः
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
पाटलिपुत्रः पुरातनभारतस्य एकं नगरम् आसीत्। एतत् नगरम् अजातशत्रुणा स्थापितम्। तदनन्तरं पाटलिपुत्रः मगधमहाजनपदस्य राजधानी अभवत्। द्वौ बौद्धसङ्गौ अत्रैव अभवन्। महाराजस्य अशोकस्य राजकाले पाटलिपुत्रः भूमौ वरिष्ठं नगरम् आसीत्। यवनराजदूतः मेगस्तेनेस् अस्य सौन्दर्यं वर्णितवान्। द्वादशशतके मुस्लिम-आक्रमकाः इमं नगरम् अनश्यन्। अस्य प्रनाशम् अद्यतनस्य पट्नानगरस्याधः वर्तते।